राजादनफलं मोचं पनसं नारिकेलजम् । शुक्रमांसकराण्याहुः स्वादुस्निग्धगुरूणि च ॥ १,१६९.
द्राक्षामधूकखर्जूरं कुङ्कुमं वातरक्तजित् । मागधी मधुरा पक्वा श्वासपित्तहरा परा ॥ १,१६९.
आर्द्रकं रोचकं वृष्यं दीपनं कफवातहृत् । शुण्ठीमरिचपिप्पल्यः कफवातजितो मताः ॥ १,१६९.
अवृष्यं मरिचं विद्यादिति वैद्यकसंमतम् । गुल्मशूलविबन्धघ्नं हिङ्गुवातकफापहम् ॥ १,१६९.
यवानीधन्यकाजाज्यः वातश्लेष्मनुदः परम् । चक्षुष्यं सैन्धवं वृष्यं त्रिदोषशमनं स्मृतम् ॥ १,१६९.
सौवर्चलं विबन्धघ्नमुष्णं हृच्छूलनाशनम् । उष्णं शूलहरं तीक्ष्णं विडङ्गं वातनाशनम् ॥ १,१६९.
रोमकं वातलं स्वादु रोचनं क्लेदनं गुरु । हृत्पाण्डुगलरोगघ्नं यवक्षारोऽग्निदीपनः ॥ १,१६९.
दहनो दीपनस्तीक्ष्णः सर्जिक्षारो विदारणः । दोषघ्नं नाभसं वारिलघु हृद्यं विषापहम् ॥ १,१६९.
नादेयं वातलं रूक्षं सारसं मदुर लघु । वातश्लेष्महरं वार्प्यं ताडागं वातलं स्मृतम् ॥ १,१६९.
रौच्यमग्निकरं रूक्षं कफघ्नंलघु नैर्झरम् । दीपनं पित्तलं कौपमौद्भिदं पित्तनाशनम् ॥ १,१६९.
दिवार्ककिरणैर्जुष्टं रात्रौ चैवेन्दुरश्मिभिः । सर्वदोषविनिर्मुक्तं तत्तुल्यं गगनाम्बुना ॥ १,१६९.
उष्णं वारि ज्वरश्वासमेदोऽनिलकफापहम् । शृतं शीतत्रिदोषघ्नमुषितं तच्च दोषलम् ॥ १,१६९.
गोक्षीरं वातपित्तग्नं स्निग्धं गुरुरसायनम् । गव्याद्गुरुतरं स्निग्धं माहिष्वह्निनाशनम् ॥ १,१६९.
छागं रक्तातिसारघ्नं कासश्वासकफापहम् । चक्षुष्यं जीवनं स्त्रीणां रक्तपित्ते चनावनम् ॥ १,१६९.
परं वातहरं वृष्यं पित्तश्लेष्मकरं दधि । दोषघ्नं मन्थजातन्तु मस्तु स्रोतोविशोधनम् ॥ १,१६९.
ग्रहण्यर्शोऽर्दितार्तिघ्नं नवनीतं नवोद्धृतम् । विकाराश्च किलाटाद्या गुरवः कुष्ठहेतवः ॥ १,१६९.
परं ग्रहणीशोथार्शः पाण्ड्वतीसारगुल्मनुत् । त्रिदोषशमनं तक्रं कथितं पूर्वसूरिभिः ॥ १,१६९.
वृष्यञ्च मधुरं सर्पिर्वातपित्तकफापहम् । गव्यं मेध्यञ्च चाक्षुष्यं संस्काराच्च त्रिदोषजित् ॥ १,१६९.
अपस्मारगदोन्मादमूर्छाघ्नं संस्कृतङ्घृतम् । अजादीनाञ्च सर्पोषि विद्याद्गोक्षीरसद्गुणैः । कफवातहरं मूत्रं सर्वक्रिमिविषापहम् ॥ १,१६९.
पाण्डुत्वोदरकुष्ठार्शः शोथगुल्मप्रमेहनुत् । वातश्लेष्महरं बल्यं तैलं कश्यं तिलोद्भवम् ॥ १,१६९.
सार्षपं कृमिपाण्डुघ्नं कफमेदोऽनिलापहम् । क्षौमं तैलमचक्षुष्यं पित्तहृद्वातनाशनम् ॥ १,१६९.
अक्षजं कफपित्तघ्नं केश्यं त्वक्श्रोत्रतर्पणम् । त्रिदोषघ्नं मधु प्रोक्तं वातलञ्च प्रकीर्तितम् ॥ १,१६९.
हिक्काश्वासकृमिच्छर्दिमेहतृष्णाविषामहम् । इक्षवोरक्तपित्तघ्नो बल्या वृष्याः कफप्रदाः ॥ १,१६९.
फाणितं पित्तलं तव्रिं सुरा मत्स्यण्डिका लघुः । खण्डं वृष्यं तथा स्निग्धं स्वाद्वसृक्पित्तवातजित् ॥ १,१६९.
वातपित्तहरो रूक्षो वातघ्नः कफकृद्गुडः । स पित्तघ्नः परः पथ्यः पुराणोऽसृक्प्रसादनः ॥ १,१६९.
रक्तिपित्तहरा वृष्या सस्नेहा गडशर्करा । सर्वपित्तकरं मद्यमम्लत्वात्कफवातजित् ॥ १,१६९.
रक्तपित्तकरास्तीक्ष्णास्तथा सौवीरजातयः । पाचनो दीपनः पथ्यो मण्डः स्याद्भृष्टतण्डुलः ॥ १,१६९.
वातानुलोमनी लघ्वी पेया वस्तिविशोधनी । सतक्रदाडिमव्योषा सगुडा मधुपिप्पली ॥ १,१६९.
इन्तीयं सुकृता पेया कासश्वा सप्रवाहिकाः । पायसः कफकृद्बल्यः कृशरा वातनाशिनी ॥ १,१६९.
सुधौतः प्रस्त्रुतः स्निग्धः सुखोष्णो लघुरोचनः । कन्दमूलफलेहैः साधितो बृंहणोगुरुः ॥ १,१६९.