कुष्ठमेहज्वरश्वासकासपित्तकफापहम् । सर्वदोषहरं हृद्यं कूष्माण्डं बस्तिशोधनम् ॥ १,१६९.
कलिङ्गालाबुनी पित्तनाशिनी वातकारिणी । त्रपुषोर्वारुके वातश्लेष्मले पित्तवारणे ॥ १,१६९.
वृक्षाम्लं कफवातघ्नं जम्बीरं कफवातनुत् । वातघ्नं दाडिमं ग्राहि नागरङ्गफलं गुरु ॥ १,१६९.
केशरं मातुलुङ्गं च दीपनं कफवातनुत् । वातपित्तहरो माषस्त्वक्स्निग्धोष्णानिलापहः ॥ १,१६९.
सरमामलकं वृष्यं मधुरं हृद्यमम्लकृत् । भुक्तप्ररोचका पुण्या हरीतक्यमृतोपमा ॥ १,१६९.
स्त्रंसनी कफवातघ्नी ह्यक्षस्तद्वत्त्रिदोषजित् । वातश्लेष्महरं त्वम्लं स्त्रंसनं तिन्तिडीफलम् ॥ १,१६९.
दोषलं लकुचं स्वादु बकुलं कफवातजित् । गुल्मवातकफश्वासकासघ्नं बीजपूरकम् ॥ १,१६९.
कपित्थं ग्राहि दोषघ्नं पक्वं गुरु विषापहम् । कफपित्तकरं बालमापूर्णं पित्तवर्धनम् ॥ १,१६९.
पक्वाम्रं वातकृन्मांसशुक्रवर्णबलप्रदम् । वातघ्नं कफपित्तघ्नं ग्राहि विष्टम्भि जाम्बवम् ॥ १,१६९.
तिन्दुकं कफवातघ्नं बदरं वातपित्तहृत् । विष्टम्भि वातलं बिल्वं प्रियालं पवनापहम् ॥ १,१६९.
राजादनफलं मोचं पनसं नारिकेलजम् । शुक्रमांसकराण्याहुः स्वादुस्निग्धगुरूणि च ॥ १,१६९.
द्राक्षामधूकखर्जूरं कुङ्कुमं वातरक्तजित् । मागधी मधुरा पक्वा श्वासपित्तहरा परा ॥ १,१६९.
आर्द्रकं रोचकं वृष्यं दीपनं कफवातहृत् । शुण्ठीमरिचपिप्पल्यः कफवातजितो मताः ॥ १,१६९.
अवृष्यं मरिचं विद्यादिति वैद्यकसंमतम् । गुल्मशूलविबन्धघ्नं हिङ्गुवातकफापहम् ॥ १,१६९.
यवानीधन्यकाजाज्यः वातश्लेष्मनुदः परम् । चक्षुष्यं सैन्धवं वृष्यं त्रिदोषशमनं स्मृतम् ॥ १,१६९.
सौवर्चलं विबन्धघ्नमुष्णं हृच्छूलनाशनम् । उष्णं शूलहरं तीक्ष्णं विडङ्गं वातनाशनम् ॥ १,१६९.
रोमकं वातलं स्वादु रोचनं क्लेदनं गुरु । हृत्पाण्डुगलरोगघ्नं यवक्षारोऽग्निदीपनः ॥ १,१६९.
दहनो दीपनस्तीक्ष्णः सर्जिक्षारो विदारणः । दोषघ्नं नाभसं वारिलघु हृद्यं विषापहम् ॥ १,१६९.
नादेयं वातलं रूक्षं सारसं मदुर लघु । वातश्लेष्महरं वार्प्यं ताडागं वातलं स्मृतम् ॥ १,१६९.
रौच्यमग्निकरं रूक्षं कफघ्नंलघु नैर्झरम् । दीपनं पित्तलं कौपमौद्भिदं पित्तनाशनम् ॥ १,१६९.
दिवार्ककिरणैर्जुष्टं रात्रौ चैवेन्दुरश्मिभिः । सर्वदोषविनिर्मुक्तं तत्तुल्यं गगनाम्बुना ॥ १,१६९.
उष्णं वारि ज्वरश्वासमेदोऽनिलकफापहम् । शृतं शीतत्रिदोषघ्नमुषितं तच्च दोषलम् ॥ १,१६९.
गोक्षीरं वातपित्तग्नं स्निग्धं गुरुरसायनम् । गव्याद्गुरुतरं स्निग्धं माहिष्वह्निनाशनम् ॥ १,१६९.
छागं रक्तातिसारघ्नं कासश्वासकफापहम् । चक्षुष्यं जीवनं स्त्रीणां रक्तपित्ते चनावनम् ॥ १,१६९.
परं वातहरं वृष्यं पित्तश्लेष्मकरं दधि । दोषघ्नं मन्थजातन्तु मस्तु स्रोतोविशोधनम् ॥ १,१६९.
ग्रहण्यर्शोऽर्दितार्तिघ्नं नवनीतं नवोद्धृतम् । विकाराश्च किलाटाद्या गुरवः कुष्ठहेतवः ॥ १,१६९.
परं ग्रहणीशोथार्शः पाण्ड्वतीसारगुल्मनुत् । त्रिदोषशमनं तक्रं कथितं पूर्वसूरिभिः ॥ १,१६९.
वृष्यञ्च मधुरं सर्पिर्वातपित्तकफापहम् । गव्यं मेध्यञ्च चाक्षुष्यं संस्काराच्च त्रिदोषजित् ॥ १,१६९.
अपस्मारगदोन्मादमूर्छाघ्नं संस्कृतङ्घृतम् । अजादीनाञ्च सर्पोषि विद्याद्गोक्षीरसद्गुणैः । कफवातहरं मूत्रं सर्वक्रिमिविषापहम् ॥ १,१६९.
पाण्डुत्वोदरकुष्ठार्शः शोथगुल्मप्रमेहनुत् । वातश्लेष्महरं बल्यं तैलं कश्यं तिलोद्भवम् ॥ १,१६९.