सन्न्यासी चैव सन्नयासश्चतुराश्रम एव च 15.
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णस्तथैव च 15.
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः 15.
वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् 15.
तीर्थादिभूतः सांख्यश्च निरुक्तं त्वधिदैवतम् 15.
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः 15.
जलशायी योगशायी शेषशायी कुशेशयः 15.
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् 15.
धनी धनप्रदो धन्यो यादवानां हिते रतः 15.
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः 15.
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च 15.
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः 15.
मुद्रो मुद्रा करश्चैव सर्वमुद्राविवर्जितः 15.
श्रोत्रा श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा 15.
रूपद्रष्टा च चक्षुः स्थो नियन्ता चक्षुषस्तथा 15.
घ्राणस्थो घ्राणकृद् घ्राता घ्राणेन्द्रियनियामकः 15.
प्राणिस्थः शिल्प कृच्छिल्पो हस्तयोश्च नियामकः 15.
नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत् 15.
उपस्थस्य नियंता च तदानन्दकरश्च ह 15.
अलर्कस्य हितश्चैव कार्त्तवीर्य्यनिकृन्तनः 15.
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः 15.
देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च 15.
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च 15.
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः 15.
गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः 15.
राहुः केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः 15.
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च 15.
अनन्तरूपो भूतस्थो देवदानवसंस्थितः 15.
जगत्स्थश्चैव जागर्त्ता स्थानं जागरितं तथा 15.
जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः 15.