यो गृह्णातीन्द्रियैरर्थान्विपरीतान्स मृत्युभाक् । भिषङ्मित्रगुरुद्वेषी प्रियारातिश्च यो भवेत् ॥ १,१६८.
गुल्फजानुललाटं च हनुर्गण्डस्तथैव च । भ्रष्टं स्थानच्युतं यस्य स जहात्यचिरादसून् ॥ १,१६८.
वामाक्षिमज्जनं जिह्वा श्यामा नासा विकारिणी । कृष्णौ स्थानच्युतौ चोष्ठौ कृष्णास्यं यस्यतं त्यजेत् ॥ १,१६८.
श्रीगरुडमहापुराणम् १६९ धन्वन्तरिरुवाच । हिताहितविकेकाय अनुपानविधिं ब्रुवे । रक्तशालि त्रिदोषघ्नं तृष्णामेदोनिवारकम् ॥ १,१६९.
महाशालि परं वृष्यं कलमः श्लेष्मपित्तहा । शीत्तो गुरुस्त्रिदोषघ्नः प्रायशो गौरषष्टिकः ॥ १,१६९.
श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा । तद्वत्प्रियङ्गुनीवारकोरदूषाः प्रकीर्तिताः ॥ १,१६९.
बहुवारः सकृच्छीतः श्लेष्मपित्तहरो यवः । वृष्यः शीतो गुरुः स्वादुर्गोधूमो वातनाशनः ॥ १,१६९.
कफपित्तास्त्रजिन्मुद्गः कषायो मधुरोलघुः । माषो बहुबलो वृष्यः पित्तश्लेष्महरो गुरुः ॥ १,१६९.
अवृष्यः श्लेष्मपित्तघ्नो राजमाषोऽनिलार्तिनुत् । कुलत्थः श्वासहिक्काहृत्कफगुल्मानिलापहः ॥ १,१६९.
रक्तपित्तज्वरोन्माथो शीतो ग्राही मकुष्ठकः । पुंस्त्वासृक्कफपित्तघ्नश्चणको वातलः स्मृतः ॥ १,१६९.
मसूरो मधुरः शीव संग्रही कफपित्तहा । तद्वत्सर्वगुणाढ्यश्च कलायश्चातिवातलः ॥ १,१६९.
आग्की कफपित्तघ्नो शुक्रला च तथा स्मृता । अतसी पित्तला ज्ञेया सिद्धार्थः कफवातजित् ॥ १,१६९.
सक्षारमधुरस्निग्धो बलोष्णपित्तकृत्तिलः । बलघ्ना रूक्षलाः शीता विविधाः सस्यजातयः ॥ १,१६९.
चित्रकेङ्गुदिनालीकाः पिप्पलीमधुशिग्रवः । चव्याचरणनिर्गुण्डीतर्कारीकाशमर्दकाः ॥ १,१६९.
सबिल्वाः कफपित्तघ्नाः क्रिमिघ्ना लघुदीपकाः । वर्षाभूमार्करौ वातकफघ्नौ दोषनाशनौ ॥ १,१६९.
तिक्तरसः स्यादेरण्डः काकमाची त्रिदोषहृत् । चाङ्गेरी कफवातघ्नी सर्षपः सर्वदोषदम् ॥ १,१६९.
तद्वदेव च कौस्मसुम्भं राजिका वातपित्तला । नाडीचः कफपित्तघ्नः चुचुर्मधुरशीतलः ॥ १,१६९.
दोषघ्नं पद्मपत्रञ्च त्रिपुटं वातकृत्परम् । सक्षारः सर्वदोषघ्नो वास्तुको रोचनः परः ॥ १,१६९.
तण्डुकीयोविपहरः पालङ्क्याश्च तथापरे । मूलकं दोषकृच्छामं स्विन्नं वातकफापदम् ॥ १,१६९.
सर्वदोषहरं ह्यद्यं कण्ठ्यं तत्पक्वमिष्यते । कर्कोटकं सवार्ताकं पदोलं कारवेल्लकम् ॥ १,१६९.
कुष्ठमेहज्वरश्वासकासपित्तकफापहम् । सर्वदोषहरं हृद्यं कूष्माण्डं बस्तिशोधनम् ॥ १,१६९.
कलिङ्गालाबुनी पित्तनाशिनी वातकारिणी । त्रपुषोर्वारुके वातश्लेष्मले पित्तवारणे ॥ १,१६९.
वृक्षाम्लं कफवातघ्नं जम्बीरं कफवातनुत् । वातघ्नं दाडिमं ग्राहि नागरङ्गफलं गुरु ॥ १,१६९.
केशरं मातुलुङ्गं च दीपनं कफवातनुत् । वातपित्तहरो माषस्त्वक्स्निग्धोष्णानिलापहः ॥ १,१६९.
सरमामलकं वृष्यं मधुरं हृद्यमम्लकृत् । भुक्तप्ररोचका पुण्या हरीतक्यमृतोपमा ॥ १,१६९.
स्त्रंसनी कफवातघ्नी ह्यक्षस्तद्वत्त्रिदोषजित् । वातश्लेष्महरं त्वम्लं स्त्रंसनं तिन्तिडीफलम् ॥ १,१६९.
दोषलं लकुचं स्वादु बकुलं कफवातजित् । गुल्मवातकफश्वासकासघ्नं बीजपूरकम् ॥ १,१६९.
कपित्थं ग्राहि दोषघ्नं पक्वं गुरु विषापहम् । कफपित्तकरं बालमापूर्णं पित्तवर्धनम् ॥ १,१६९.
पक्वाम्रं वातकृन्मांसशुक्रवर्णबलप्रदम् । वातघ्नं कफपित्तघ्नं ग्राहि विष्टम्भि जाम्बवम् ॥ १,१६९.
तिन्दुकं कफवातघ्नं बदरं वातपित्तहृत् । विष्टम्भि वातलं बिल्वं प्रियालं पवनापहम् ॥ १,१६९.