कृशो रूक्षोऽल्पकेशश्च चलचित्तो नरः स्थितः । बहुवाक्यरतः स्वप्नेवातप्रकृतिको नरः ॥ १,१६८.
अकालपलितो गौरः प्रस्वेदी कोपनो बुधः । स्वप्नेऽपि दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥ १,१६८.
स्थिरचित्तः स्वरः सूक्ष्मः प्रसन्नः स्निग्धमूर्धजः । स्वप्ने जलशिलालोकी श्लेष्म प्रकृतिको नरः ॥ १,१६८.
संमिश्रलक्षणैर्ज्ञेयो द्वित्रिदोषान्वयो नरः । दोषस्येतरसद्भावेऽप्यधिका प्रकृतिः स्मृताः ॥ १,१६८.
मन्दस्तीक्ष्णोऽथ विषमः समश्चैति चतुर्विधाः । कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥ १,१६८.
समस्य पालनं कार्यं विषमे वातनिग्रहः । तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १,१६८.
प्रभवः सर्वरोगाणामजीर्णं चाग्निनाशनम् । आमाम्लरसविष्टम्भ लक्षणन्तच्चतुर्विधम् ॥ १,१६८.
आमाद्विषूचिका चैव हृदालस्यादयस्तथा । वचालवणतोयेन छर्दनं तत्र कारयेत् ॥ १,१६८.
शुक्राभावो भ्रमो मूर्छा तर्षोऽम्लात्संप्रवर्तते । अपक्वं तत्र शीताम्बुपानं वातनिषेवणम् ॥ १,१६८.
गात्रभङ्गं शिरोजाड्यं भक्तदोषादयो गदान् । तस्मिन्स्वापो दिवा कार्योलङ्घनं च विवर्जनम् ॥ १,१६८.
शूलगुल्मौ च विण्मूत्रस्थानविष्टम्भसूचकौ । विधेयं स्वेदनं तत्र पानीयं लवणोदकम् ॥ १,१६८.
आममम्लं च विष्टब्धं कफपित्तानिलैः क्रमात् । आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः ॥ १,१६८.
दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णविनाशनम् । अहितान्नै रोगराशिरहितान्नं ततस्त्यजेत् ॥ १,१६८.
उष्णाम्बु वानुपानं च माक्षिकैः पाचनं भवेत् । करीरदधिमत्स्यैश्च प्रायः क्षीरं विरुध्यते ॥ १,१६८.
बिल्वः शोणा च गम्भारी पाटला गणिकारिका । दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥ १,१६८.
शालपर्णो पृश्रिपर्णो बृहतीद्वयगोक्षुरम् । वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥ १,१६८.
उभयं दशसूलं स्यात्सन्निपातज्वरापहम् । कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥ १,१६८.
एतैस्तैलानि सर्पोषि प्रलेपादलकां जयेत् । क्वाथाच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् ॥ १,१६८.
स्नेहञ्च तत्समं क्षीरं कल्कश्च स्नेहपादकः । संवर्तितौषधैः पाको बस्तौ पाने भवेत्समः । खरोऽभ्यङ्गे मृदुर्नस्ये पाकोऽपि संप्रकल्पयेत् ॥ १,१६८.
स्थूलदेहन्द्रियाश्चिन्त्या प्रकृतिर्या त्वधिष्ठिता । आरोग्यमिति तं विद्यादायुष्मन्तमुपाचरेत् ॥ १,१६८.
यो गृह्णातीन्द्रियैरर्थान्विपरीतान्स मृत्युभाक् । भिषङ्मित्रगुरुद्वेषी प्रियारातिश्च यो भवेत् ॥ १,१६८.
गुल्फजानुललाटं च हनुर्गण्डस्तथैव च । भ्रष्टं स्थानच्युतं यस्य स जहात्यचिरादसून् ॥ १,१६८.
वामाक्षिमज्जनं जिह्वा श्यामा नासा विकारिणी । कृष्णौ स्थानच्युतौ चोष्ठौ कृष्णास्यं यस्यतं त्यजेत् ॥ १,१६८.
श्रीगरुडमहापुराणम् १६९ धन्वन्तरिरुवाच । हिताहितविकेकाय अनुपानविधिं ब्रुवे । रक्तशालि त्रिदोषघ्नं तृष्णामेदोनिवारकम् ॥ १,१६९.
महाशालि परं वृष्यं कलमः श्लेष्मपित्तहा । शीत्तो गुरुस्त्रिदोषघ्नः प्रायशो गौरषष्टिकः ॥ १,१६९.
श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा । तद्वत्प्रियङ्गुनीवारकोरदूषाः प्रकीर्तिताः ॥ १,१६९.
बहुवारः सकृच्छीतः श्लेष्मपित्तहरो यवः । वृष्यः शीतो गुरुः स्वादुर्गोधूमो वातनाशनः ॥ १,१६९.
कफपित्तास्त्रजिन्मुद्गः कषायो मधुरोलघुः । माषो बहुबलो वृष्यः पित्तश्लेष्महरो गुरुः ॥ १,१६९.
अवृष्यः श्लेष्मपित्तघ्नो राजमाषोऽनिलार्तिनुत् । कुलत्थः श्वासहिक्काहृत्कफगुल्मानिलापहः ॥ १,१६९.
रक्तपित्तज्वरोन्माथो शीतो ग्राही मकुष्ठकः । पुंस्त्वासृक्कफपित्तघ्नश्चणको वातलः स्मृतः ॥ १,१६९.