स्तैमित्यतृप्तिसङ्घातशोथशतिलगौरवम् । कण्डूनिद्राभियोगश्च लक्षणं कफसम्भवम् ॥ १,१६८.
हेतुलक्षणसंसर्गाद्विद्याद्व्याधिं द्विदोषजम् । सर्वहेतुसमुत्पन्नं त्रिलिङ्गं सान्निपातिकम् ॥ १,१६८.
दोषधातुमलाधारो देहिनां देह उच्यते । तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः ॥ १,१६८.
वसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । वातपित्तकफा दोषा विण्मूत्राद्या मलाः स्मृताः ॥ १,१६८.
वायुः शीतो लघुः सूक्ष्मः स्वरनाशीस्थिरो बली । पित्तमम्लकटूष्णञ्चापङ्क्ती रोगकारणम् ॥ १,१६८.
मधुरो लवणः स्निग्धो गुरुः श्लेषमातिपिच्छिलः । गुदश्रोण्याश्रयो वायुः पित्तं पक्वाशयस्थितम् ॥ १,१६८.
कफस्यामाशयस्थानं कण्ठो वा मूर्धसन्धयः । कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ॥ १,१६८.
कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् । एत एव विपर्यस्ताः शमायैषां प्रयोजिताः । भवन्ति रोगिणां शान्त्यै स्वस्थाने सुखहेतवः ॥ १,१६८.
चक्षुष्यो मधुरो ज्ञेयो रसधातुविवह्द्धनः । अम्लोत्तरो मनोहृद्यं तथा दीपनपाचनम् ॥ १,१६८.
दीपनोज्वरतृष्णाघ्नस्तिक्तः शोधनशोषणः । पित्तलो लेखन स्तम्भी कषायो ग्राहिशोषणः ॥ १,१६८.
रसवीर्यविपाकानामाश्रयं द्रव्यमुत्तमम् । रसपाकान्तरस्थायि सर्वद्रव्याश्रयं द्रुतम् ॥ १,१६८.
शीतोष्णं लवणं वीर्यमथ वा शक्तिरिष्यते । रसानां द्विविधः पाको कटुरेव च ॥ १,१६८.
भिषग्भेषजरोगार्तपरिचारकसम्पदः । चिकित्साङ्गानिचत्वारि विपरीतान्यसिद्धये ॥ १,१६८.
देशकालवयोवह्निसाम्यप्रकृतिभेषजम् । देहसत्त्वबलव्याधीन्बुद्ध्वा कर्म समाचरेत् ॥ १,१६८.
संसृष्टलक्षणोपेतो देशः साधारणः स्मृतः । बाल आ षोडशान्मध्यः सप्ततेर्वृद्ध उच्यते ॥ १,१६८.
कफपित्तानिलाः प्रायो यथाक्रममुदीरिताः । क्षाराग्निशस्त्ररहिता क्षीणे प्रवयसि क्रियाः ॥ १,१६८.
कृशस्य वृंहणं कार्यंस्थूलदेहस्य कर्षणम् । रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥ १,१६८.
स्थैर्यव्यायामसन्तोषैर्बोद्धव्यं यत्नतो बलम् । अविकारी महोत्साहो महासाहसिको नरः ॥ १,१६८.
पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । श्वसुखायोपकल्प्यन्ते तत्साम्यमिति कथ्यते ॥ १,१६८.
गर्भिण्याः श्लैष्मिकैर्भक्ष्यैः श्लैष्मिको जायते नरः । वातलैः पित्तलैस्तद्वत्समधातुर्हिताशनात् ॥ १,१६८.
कृशो रूक्षोऽल्पकेशश्च चलचित्तो नरः स्थितः । बहुवाक्यरतः स्वप्नेवातप्रकृतिको नरः ॥ १,१६८.
अकालपलितो गौरः प्रस्वेदी कोपनो बुधः । स्वप्नेऽपि दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥ १,१६८.
स्थिरचित्तः स्वरः सूक्ष्मः प्रसन्नः स्निग्धमूर्धजः । स्वप्ने जलशिलालोकी श्लेष्म प्रकृतिको नरः ॥ १,१६८.
संमिश्रलक्षणैर्ज्ञेयो द्वित्रिदोषान्वयो नरः । दोषस्येतरसद्भावेऽप्यधिका प्रकृतिः स्मृताः ॥ १,१६८.
मन्दस्तीक्ष्णोऽथ विषमः समश्चैति चतुर्विधाः । कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥ १,१६८.
समस्य पालनं कार्यं विषमे वातनिग्रहः । तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १,१६८.
प्रभवः सर्वरोगाणामजीर्णं चाग्निनाशनम् । आमाम्लरसविष्टम्भ लक्षणन्तच्चतुर्विधम् ॥ १,१६८.
आमाद्विषूचिका चैव हृदालस्यादयस्तथा । वचालवणतोयेन छर्दनं तत्र कारयेत् ॥ १,१६८.
शुक्राभावो भ्रमो मूर्छा तर्षोऽम्लात्संप्रवर्तते । अपक्वं तत्र शीताम्बुपानं वातनिषेवणम् ॥ १,१६८.
गात्रभङ्गं शिरोजाड्यं भक्तदोषादयो गदान् । तस्मिन्स्वापो दिवा कार्योलङ्घनं च विवर्जनम् ॥ १,१६८.