कषायकटुतिक्ताम्लरूक्षाहारादिभोजनात् । चिन्ताव्यवयव्यायामभयशोकप्रजागरात् ॥ १,१६८.
उच्चैर्भाषातिभाराच्च कर्मयोगातिकर्षणात् । वायुः कुप्यति पर्जन्ये जीर्णान्ने दिनसंक्षये ॥ १,१६८.
उष्णाम्ल लवणक्षारकटुकाजीर्णभोजनात् । तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥ १,१६८.
विदाहकाले भुक्तस्य मध्याह्ने जलदात्यये । ग्रीष्मकालेर्ऽद्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥ १,१६८.
स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् । नवान्नपिच्छिलानूपमांसादेः सेवनादपि ॥ १,१६८.
अव्यायाम दिवास्वप्नशय्यासनसुखादिभिः । कफप्रदोषो भुक्ते च वसन्ते च प्रकुप्यति ॥ १,१६८.
देहपारुष्यसंकोचतोदविष्टम्भकादयः । तथा च सुप्ता रोमहर्षस्तम्भनशोषणम् ॥ १,१६८.
श्यामत्वमङ्गविश्लेषबलमायासवर्धनम् । वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥ १,१६८.
दाहोष्मपादसंक्लेदकोपरागपरिश्रमाः । कट्वम्लशववैगन्ध्यस्वेदमूर्छातितृट्भ्रमाः ॥ १,१६८.
हारिद्रं हरितत्वञ्च पित्तलिङ्गान्वितैर्नरः । देहे स्निग्धत्वमाधुर्यचिरकारित्वबन्धनम् ॥ १,१६८.
स्तैमित्यतृप्तिसङ्घातशोथशतिलगौरवम् । कण्डूनिद्राभियोगश्च लक्षणं कफसम्भवम् ॥ १,१६८.
हेतुलक्षणसंसर्गाद्विद्याद्व्याधिं द्विदोषजम् । सर्वहेतुसमुत्पन्नं त्रिलिङ्गं सान्निपातिकम् ॥ १,१६८.
दोषधातुमलाधारो देहिनां देह उच्यते । तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः ॥ १,१६८.
वसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । वातपित्तकफा दोषा विण्मूत्राद्या मलाः स्मृताः ॥ १,१६८.
वायुः शीतो लघुः सूक्ष्मः स्वरनाशीस्थिरो बली । पित्तमम्लकटूष्णञ्चापङ्क्ती रोगकारणम् ॥ १,१६८.
मधुरो लवणः स्निग्धो गुरुः श्लेषमातिपिच्छिलः । गुदश्रोण्याश्रयो वायुः पित्तं पक्वाशयस्थितम् ॥ १,१६८.
कफस्यामाशयस्थानं कण्ठो वा मूर्धसन्धयः । कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ॥ १,१६८.
कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् । एत एव विपर्यस्ताः शमायैषां प्रयोजिताः । भवन्ति रोगिणां शान्त्यै स्वस्थाने सुखहेतवः ॥ १,१६८.
चक्षुष्यो मधुरो ज्ञेयो रसधातुविवह्द्धनः । अम्लोत्तरो मनोहृद्यं तथा दीपनपाचनम् ॥ १,१६८.
दीपनोज्वरतृष्णाघ्नस्तिक्तः शोधनशोषणः । पित्तलो लेखन स्तम्भी कषायो ग्राहिशोषणः ॥ १,१६८.
रसवीर्यविपाकानामाश्रयं द्रव्यमुत्तमम् । रसपाकान्तरस्थायि सर्वद्रव्याश्रयं द्रुतम् ॥ १,१६८.
शीतोष्णं लवणं वीर्यमथ वा शक्तिरिष्यते । रसानां द्विविधः पाको कटुरेव च ॥ १,१६८.
भिषग्भेषजरोगार्तपरिचारकसम्पदः । चिकित्साङ्गानिचत्वारि विपरीतान्यसिद्धये ॥ १,१६८.
देशकालवयोवह्निसाम्यप्रकृतिभेषजम् । देहसत्त्वबलव्याधीन्बुद्ध्वा कर्म समाचरेत् ॥ १,१६८.
संसृष्टलक्षणोपेतो देशः साधारणः स्मृतः । बाल आ षोडशान्मध्यः सप्ततेर्वृद्ध उच्यते ॥ १,१६८.
कफपित्तानिलाः प्रायो यथाक्रममुदीरिताः । क्षाराग्निशस्त्ररहिता क्षीणे प्रवयसि क्रियाः ॥ १,१६८.
कृशस्य वृंहणं कार्यंस्थूलदेहस्य कर्षणम् । रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥ १,१६८.
स्थैर्यव्यायामसन्तोषैर्बोद्धव्यं यत्नतो बलम् । अविकारी महोत्साहो महासाहसिको नरः ॥ १,१६८.
पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । श्वसुखायोपकल्प्यन्ते तत्साम्यमिति कथ्यते ॥ १,१६८.
गर्भिण्याः श्लैष्मिकैर्भक्ष्यैः श्लैष्मिको जायते नरः । वातलैः पित्तलैस्तद्वत्समधातुर्हिताशनात् ॥ १,१६८.