शनैः शनैश्चोपशयान्दृढानपि मुहुर्मुहुः । विशेषाज्जीवितं प्राण उदानो बलमुच्यते । स्यात्तयोः पीडनाद्धनिरायुषञ्च बलस्य च ॥ १,१६७.
आवृता वायवोऽज्ञाता ज्ञाता वा स्थानविच्युताः । प्रयत्नेनापि दुः साध्या भवेयुर्वानुपद्रवाः ॥ १,१६७.
विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः । भवन्त्युपद्रवास्तेषामावृतानामुपेक्षया ॥ १,१६७.
निदानं सुश्रुत ! मया आत्रेयोक्तं समीरितम् । सर्वरोगविवेकाय नराद्यायुः प्रवृद्धये ॥ १,१६७.
एवं विज्ञाय रोगादींश्चिकित्सामथ वै चरेत् । त्रिफला सर्वरोगघ्नी मध्वाज्यगुडसंयुता ॥ १,१६७.
सव्योषा त्रिफला वापि सर्वरोगप्रमर्दिनी । शतावरीगुडूच्यग्निविडङ्गेन युताथवा ॥ १,१६७.
शतावरी गुडूच्यग्निः शुण्ठीमूषलिका बला । पुनर्नवा च बृहती निर्गुण्डी निम्बपत्रकम् ॥ १,१६७.
भृङ्गराजश्चामलकं वासकस्तद्रसेन वा । भाविता त्रिफला सप्तवारमेखमथापिवा ॥ १,१६७.
पूर्वोक्तश्च यथालाभयुक्तैश्चूर्णञ्च मोदकः । वटिका घृततैलं वा कषायो शोषरोगनुत् । पलं पलार्धकं वापि कर्षं कर्षार्धमेव वा ॥ १,१६७.
श्रीगरुडमहापुराणम् १६८ निदानं समाप्तम् । धन्वन्तरिरुवाच । सर्वरोगहरं सिद्धं योगसारं वदाम्यहम् । शृणु सुश्रुतं संक्षेपात्प्राणिनां जीवहेतवे ॥ १,१६८.
कषायकटुतिक्ताम्लरूक्षाहारादिभोजनात् । चिन्ताव्यवयव्यायामभयशोकप्रजागरात् ॥ १,१६८.
उच्चैर्भाषातिभाराच्च कर्मयोगातिकर्षणात् । वायुः कुप्यति पर्जन्ये जीर्णान्ने दिनसंक्षये ॥ १,१६८.
उष्णाम्ल लवणक्षारकटुकाजीर्णभोजनात् । तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥ १,१६८.
विदाहकाले भुक्तस्य मध्याह्ने जलदात्यये । ग्रीष्मकालेर्ऽद्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥ १,१६८.
स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् । नवान्नपिच्छिलानूपमांसादेः सेवनादपि ॥ १,१६८.
अव्यायाम दिवास्वप्नशय्यासनसुखादिभिः । कफप्रदोषो भुक्ते च वसन्ते च प्रकुप्यति ॥ १,१६८.
देहपारुष्यसंकोचतोदविष्टम्भकादयः । तथा च सुप्ता रोमहर्षस्तम्भनशोषणम् ॥ १,१६८.
श्यामत्वमङ्गविश्लेषबलमायासवर्धनम् । वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥ १,१६८.
दाहोष्मपादसंक्लेदकोपरागपरिश्रमाः । कट्वम्लशववैगन्ध्यस्वेदमूर्छातितृट्भ्रमाः ॥ १,१६८.
हारिद्रं हरितत्वञ्च पित्तलिङ्गान्वितैर्नरः । देहे स्निग्धत्वमाधुर्यचिरकारित्वबन्धनम् ॥ १,१६८.
स्तैमित्यतृप्तिसङ्घातशोथशतिलगौरवम् । कण्डूनिद्राभियोगश्च लक्षणं कफसम्भवम् ॥ १,१६८.
हेतुलक्षणसंसर्गाद्विद्याद्व्याधिं द्विदोषजम् । सर्वहेतुसमुत्पन्नं त्रिलिङ्गं सान्निपातिकम् ॥ १,१६८.
दोषधातुमलाधारो देहिनां देह उच्यते । तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः ॥ १,१६८.
वसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । वातपित्तकफा दोषा विण्मूत्राद्या मलाः स्मृताः ॥ १,१६८.
वायुः शीतो लघुः सूक्ष्मः स्वरनाशीस्थिरो बली । पित्तमम्लकटूष्णञ्चापङ्क्ती रोगकारणम् ॥ १,१६८.
मधुरो लवणः स्निग्धो गुरुः श्लेषमातिपिच्छिलः । गुदश्रोण्याश्रयो वायुः पित्तं पक्वाशयस्थितम् ॥ १,१६८.
कफस्यामाशयस्थानं कण्ठो वा मूर्धसन्धयः । कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ॥ १,१६८.
कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् । एत एव विपर्यस्ताः शमायैषां प्रयोजिताः । भवन्ति रोगिणां शान्त्यै स्वस्थाने सुखहेतवः ॥ १,१६८.
चक्षुष्यो मधुरो ज्ञेयो रसधातुविवह्द्धनः । अम्लोत्तरो मनोहृद्यं तथा दीपनपाचनम् ॥ १,१६८.
दीपनोज्वरतृष्णाघ्नस्तिक्तः शोधनशोषणः । पित्तलो लेखन स्तम्भी कषायो ग्राहिशोषणः ॥ १,१६८.