रजोवृद्धिस्तापनञ्च तथा चानाहमेहनम् । श्लेष्मणा प्रावृते प्राणे नादः स्नोतोऽवरोधनम् ॥ १,१६७.
ष्ठीवनञ्चैव सस्वेदश्वासनिः श्वाससंग्रहः । उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः ॥ १,१६७.
बलवर्णप्रणाशश्चा पाने पर्वास्थिसंग्रहः । गुरुताङ्गेषु सर्वेषु स्थूलत्वञ्चागतं भृशम् ॥ १,१६७.
समानेऽतिक्रियाज्ञत्वमस्वेदो मन्दवह्निता । अपाने सकलं मूत्रं शकृतः स्यात्प्रवर्तनम्? ॥ १,१६७.
इति द्वाविंशतिविधं वातरक्तामयं विदुः । प्राणादयस्तथान्योऽन्यं समाक्रान्ता यथाक्रमम् ॥ १,१६७.
सर्वेऽपि विंशतिविधं विद्यादावरणञ्च यत् । हृल्लासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः ॥ १,१६७.
हृद्रोगो मुखशोषश्च प्राणेनापान आवृते । उदानेनावृते प्राणे भवेद्धै बलसंक्षयः ॥ १,१६७.
विचारणेन विभजेत्सर्वमावरणं भिषक् । स्थानान्यपेक्ष्य वातानां वृर्धिहानिं च कर्मणाम् ॥ १,१६७.
प्राणादीनाञ्च पञ्चानां पित्तमावरणं मिथः । पित्तादीनामावसतिर्मिश्राणां मिश्रितैश्च तैः ॥ १,१६७.
मिश्रैः पित्तादिभिस्तद्वन्मिश्राण्यपित्वनेकधा । तांल्लक्षयेदवहितो यथास्वं लक्षणोदयात् ॥ १,१६७.
शनैः शनैश्चोपशयान्दृढानपि मुहुर्मुहुः । विशेषाज्जीवितं प्राण उदानो बलमुच्यते । स्यात्तयोः पीडनाद्धनिरायुषञ्च बलस्य च ॥ १,१६७.
आवृता वायवोऽज्ञाता ज्ञाता वा स्थानविच्युताः । प्रयत्नेनापि दुः साध्या भवेयुर्वानुपद्रवाः ॥ १,१६७.
विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः । भवन्त्युपद्रवास्तेषामावृतानामुपेक्षया ॥ १,१६७.
निदानं सुश्रुत ! मया आत्रेयोक्तं समीरितम् । सर्वरोगविवेकाय नराद्यायुः प्रवृद्धये ॥ १,१६७.
एवं विज्ञाय रोगादींश्चिकित्सामथ वै चरेत् । त्रिफला सर्वरोगघ्नी मध्वाज्यगुडसंयुता ॥ १,१६७.
सव्योषा त्रिफला वापि सर्वरोगप्रमर्दिनी । शतावरीगुडूच्यग्निविडङ्गेन युताथवा ॥ १,१६७.
शतावरी गुडूच्यग्निः शुण्ठीमूषलिका बला । पुनर्नवा च बृहती निर्गुण्डी निम्बपत्रकम् ॥ १,१६७.
भृङ्गराजश्चामलकं वासकस्तद्रसेन वा । भाविता त्रिफला सप्तवारमेखमथापिवा ॥ १,१६७.
पूर्वोक्तश्च यथालाभयुक्तैश्चूर्णञ्च मोदकः । वटिका घृततैलं वा कषायो शोषरोगनुत् । पलं पलार्धकं वापि कर्षं कर्षार्धमेव वा ॥ १,१६७.
श्रीगरुडमहापुराणम् १६८ निदानं समाप्तम् । धन्वन्तरिरुवाच । सर्वरोगहरं सिद्धं योगसारं वदाम्यहम् । शृणु सुश्रुतं संक्षेपात्प्राणिनां जीवहेतवे ॥ १,१६८.
कषायकटुतिक्ताम्लरूक्षाहारादिभोजनात् । चिन्ताव्यवयव्यायामभयशोकप्रजागरात् ॥ १,१६८.
उच्चैर्भाषातिभाराच्च कर्मयोगातिकर्षणात् । वायुः कुप्यति पर्जन्ये जीर्णान्ने दिनसंक्षये ॥ १,१६८.
उष्णाम्ल लवणक्षारकटुकाजीर्णभोजनात् । तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥ १,१६८.
विदाहकाले भुक्तस्य मध्याह्ने जलदात्यये । ग्रीष्मकालेर्ऽद्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥ १,१६८.
स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् । नवान्नपिच्छिलानूपमांसादेः सेवनादपि ॥ १,१६८.
अव्यायाम दिवास्वप्नशय्यासनसुखादिभिः । कफप्रदोषो भुक्ते च वसन्ते च प्रकुप्यति ॥ १,१६८.
देहपारुष्यसंकोचतोदविष्टम्भकादयः । तथा च सुप्ता रोमहर्षस्तम्भनशोषणम् ॥ १,१६८.
श्यामत्वमङ्गविश्लेषबलमायासवर्धनम् । वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥ १,१६८.
दाहोष्मपादसंक्लेदकोपरागपरिश्रमाः । कट्वम्लशववैगन्ध्यस्वेदमूर्छातितृट्भ्रमाः ॥ १,१६८.
हारिद्रं हरितत्वञ्च पित्तलिङ्गान्वितैर्नरः । देहे स्निग्धत्वमाधुर्यचिरकारित्वबन्धनम् ॥ १,१६८.