धमन्यङ्गुलिसन्धीनां संकोचोङ्गग्रहो तिरुक् । शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥ १,१६७.
रक्ते शोथोऽतिरुक्तोदस्ताम्राश्चिमिचिमायते । स्निग्धरूक्षैः समं नैति कण्डुक्लेदसमन्वितः ॥ १,१६७.
पित्ते विदाहः संमोहः स्वादो मूर्छा मदस्तृषा । स्पर्शासहत्वं रुग्रावः शोषः पाको भृशोष्मता ॥ १,१६७.
कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतता । कण्डूर्मन्दा च रुग्द्बन्द्वं सर्वलिङ्गञ्च संकरात् ॥ १,१६७.
एकदोषञ्च संसाध्यं याप्यञ्चैव द्विदोषजम् । त्रिदोषजन्त्यजेदाशु रक्तपित्तं सुदारुणम् ॥ १,१६७.
रक्तमङ्गे निहन्त्याशु शाखासन्धिषु मारुतः । निवेश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून् ॥ १,१६७.
वायौ पञ्चात्मके प्राणे रौक्ष्याच्चापल्यलङ्घनैः । अत्याहाराभिघाताच्च वेगोदीरणचारणैः ॥ १,१६७.
कुपितश्चक्षुरादीनामुपघातं प्रकल्पयेत् । पीनसो दाहतृट्कासश्वासादिश्चैव जायते ॥ १,१६७.
कण्ठरोधोमलभ्रंशच्छर्द्यरोचकपीनसान् । कुर्याच्च गलगण्डदींस्तञ्जत्रुमूर्ध्वसंश्रयः ॥ १,१६७.
व्यानोऽतिगमनस्नानक्रीडाविषयचोष्टितैः । विरुद्धरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ १,१६७.
पुंस्त्वोत्साहबलभ्रंशशोकचित्तप्लवज्वरान् । सर्वाकारादिनिस्तोदरोमहर्षं सुषुप्तताम् ॥ १,१६७.
कुष्ठं विसर्पमन्यच्च कुर्यात्सर्वाङ्गसादनम् । समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः ॥ १,१६७.
करोत्यकालशयनजागराद्यैश्च दूषितः । शूलगुल्मग्रहण्यादीन्यकृत्कामाश्रयान्गदान् ॥ १,१६७.
अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः । यानपानसमुत्थानचङ्क्रमैश्चातिसेवितैः ॥ १,१६७.
कुपितः कुरुते रोगान्कृत्स्नान् पक्वाशयाश्रयान् । मूत्रसुक्रप्रदोषार्शोगुदभ्रंशादिकान्बहून् ॥ १,१६७.
सर्वाङ्गमाततं सामं तन्द्रास्तैमित्यगौरवैः । स्निग्धत्वाद्बोध कालस्य शैत्यशोथाग्निहानयः ॥ १,१६७.
कण्डूरूक्षातिनाशेन तद्विधोपशमेन च । मुक्तिं विद्यान्निरामं तं तन्द्रादीनां विपर्ययात् ॥ १,१६७.
वायोरावरणं वातो बहुभेदं प्रचक्षते । पित्तलिङ्गावृते दाहस्तृष्णा शूलं भ्रमस्तमः ॥ १,१६७.
कटुकोष्णाम्ललवणैर्विदाहशीतकामता । शैत्यगौरवशूलाग्निकट्वाज्यपयसोऽधिकम् ॥ १,१६७.
लङ्घनायासरूक्षोष्णकामता च कफावृते । कफावृतेऽङ्गमर्दः स्याद्धृल्लासो गुरुतारुचिः ॥ १,१६७.
रक्तवृते सदाहार्तिस्तवङ्मांसाश्रयजा भृशम् । भवेत्सरागः श्वयथुर्जायन्ते मण्डलानि च ॥ १,१६७.
शोथो मांसेन कठिनो हृल्लासपिटिकास्तथा । हर्षः पिपीलिकानां च संचार इव जायते । चललग्रनो मृदुः शीतः शोथो गात्रेषु रोचकः ॥ १,१६७.
आढ्यवात इव ज्ञेयः स कृच्छ्रो मेदसावतः । स्पर्श आच्छादितेत्युष्णशीतलश्च त्वनावृते । मज्जावृते तु विषमं जृम्भणं परिवेष्टनम् ॥ १,१६७.
शूलञ्च पड्यिमानश्च पाणिभ्यां लभते सुखम् । शुक्रावृते तु शोथे वै चातिवेगो न विद्यते ॥ १,१६७.
भुक्ते कुक्षौ रुजा जीर्णे निकृत्तिर्भवति ध्रुवम् । मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत् ॥ १,१६७.
छिद्रावृते विबन्धोऽथ स्वस्थानं परिकृन्त ति । पतत्याशु ज्वराक्रान्तो मूर्छां च लभते नरः ॥ १,१६७.
सकृत्पीडितमन्येन दुष्टं शुक्रं चिरात्सृजेत् । सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ॥ १,१६७.
विलोमे मारुते चैव हृदयं परिपीड्यते । भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ १,१६७.
रुजा तन्द्रा स्वरभ्रंशो दाहो व्याने तु सर्वशः । क्रमों गचेष्टाभङ्गश्च सन्तापः सहवेदनः ॥ १,१६७.
समान ऊष्मोपहतिः सस्वेदोपरतिः सुतृट् । दाहश्च स्यादपाने तु मले हारिद्रवर्णता ॥ १,१६७.