रूक्षः सवेदनः कृष्णः सोऽसाध्यः स्याच्छिरोग्रहः । तनुं गृहीत्वा वायुश्च स्नायुस्तथैव च ॥ १,१६६.
पक्षमन्यतरं हन्ति पक्षाघातः स उच्यते । कृत्स्नस्य कायस्यार्धं स्यादकर्मण्यमचेतनम् ॥ १,१६६.
एकाङ्गरोगतां केचिदन्ये कक्षरुजां विदुः । सर्वाङ्गरोधः स्तम्भश्च सर्वकायाश्रितेऽनिले ॥ १,१६६.
शुद्धवातकृतः पक्षः कृच्छ्रसाध्यतमो मतः । कृच्छ्रश्चान्येन संसृष्टो विवृद्धः क्षयहेतुकः ॥ १,१६६.
आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः । असाध्य एव सर्वो हि भवेद्दण्डापतानकः ॥ १,१६६.
अंसमूलोत्थितो वायुः शिराः संकुच्य तत्रगः । बहिः प्रस्यन्दितहरं जनयत्येव बाहुकम् ॥ १,१६६.
तलं प्रत्यङ्गुलीनां यः कण्डरा बाहुपृष्ठतः । बाह्वोः कर्मक्षयकरी विपूची वेति सोच्यते ॥ १,१६६.
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षैपेद्यदा । तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ॥ १,१६६.
कम्पते गमनारम्भे खञ्जन्निव च गच्छति । कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥ १,१६६.
शीतोष्णद्रवसंसुष्कगुरुस्निग्धैश्च सेवितैः । जीर्णाजीर्णे तथायासक्षोभस्निग्धप्रजागरैः ॥ १,१६६.
श्लेष्मभेदः समये परमत्यर्थसंचितम् । अभिभूयेतरं दोषं शरीरं प्रतिपद्यते ॥ १,१६६.
सक्थ्यस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तम्भितेन तत् । तदास्थि स्नाति तेनोरोस्तथा शीतानिलेन तु ॥ १,१६६.
श्यामाङ्गमङ्गस्तैमित्यतन्द्रामूर्छारुचिज्वरैः । तमूरुस्तम्भमित्याह बाह्यवातमथापरे ॥ १,१६६.
वातशोणितसंशोथो जानुमध्ये महारुजः । ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलक्रोष्टुकशीर्षवत् ॥ १,१६६.
रुक्पादविषमन्यस्ते श्रमाद्वा जायते यदा । वातेन गुल्फमाक्षित्य तमाहुर्वातकण्टकम् ॥ १,१६६.
पार्ष्णिप्रत्यङ्गुलीनाभौ कण्ठे वा मारुतार्दिते । सतिक्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥ १,१६६.
हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ । पादहर्षः स विज्ञेयः कफमारुतकोपजः ॥ १,१६६.
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः । विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत् ॥ १,१६६.
श्रीगरुडमहापुराणम् १६७ धन्वन्तरीरुवाच । वातरक्तनिदानं ते वक्ष्ये सुश्रुत तच्छृणु । विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः ॥ १,१६७.
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ॥ १,१६७.
अग्निघातादशुद्धेश्च नृणामसृजि दूषिते । वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः ॥ १,१६७.
तादृशैवासृजा रुद्धः प्राक्तदैव प्रदूषयेत् । तथा वातो गुदे पीडां बलासं वातशोणितम् ॥ १,१६७.
संस्तभ्य जनयेत्पूर्वं पश्चात्सर्वत्र धावति । विशेषाद्वमनाद्यैश्च प्रलम्बस्तस्य लक्षणम् ॥ १,१६७.
भविष्यतः कुष्ठसमं तथा साम्बुदसंज्ञकम् । जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु ॥ १,१६७.
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः । भूत्वा भूत्वा प्रशाम्यन्ति मुहुराविर्भवन्ति च ॥ १,१६७.
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि । आखोरिव विलं क्रुद्धः कृत्स्नं देहं बिधावति ॥ १,१६७.
त्वङ्मांसाश्रयमत्तानं तत्पूर्वं जायते ततः । कालान्तरेण गम्भीरं सर्वधातूनभिद्रवेत् ॥ १,१६७.
कट्यादिसंयतस्थाने त्वक्ताम्रश्यावलोहिताः । श्वयथुर्ग्रथितः पाकः स वायुश्चास्थिमज्जसु ॥ १,१६७.
छिन्दन्निव चरत्यन्तश्चकीकुर्वंश्च वेगवान् । करोति खञ्जं पङ्गुं वा शरीरं सर्वतश्चरन् ॥ १,१६७.
वाताधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम् । शोथस्य रौक्ष्यं कृष्णत्वं श्यावतावृद्धिहानयः ॥ १,१६७.