स्तम्भनाक्षेपणं स्वप्नः सन्धिभञ्जनकम्पनम् । यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः । तदाङ्गमाक्षिपत्येष व्याधिराक्षेपणः स्मृतः ॥ १,१६६.
अधः प्रतिहतो वायुर्व्रजेदूर्ध्वं यदा पुनः । तदावष्टभ्य हृदयं शिरः शङ्खौ च पीडयेत् ॥ १,१६६.
सक्षिपेत्परितो गात्रं हनुं वा चास्य नामयत् । कृच्छ्रादुच्छ्वसितं चापि निमीलन्नयनद्वयम् ॥ १,१६६.
कपोत इव कूजेच्च निः संगः सोपतन्त्रकः । स एव वामनासायां युक्तस्तु मरुता हृदि ॥ १,१६६.
प्राप्नोति च मुहुः स्वास्थ्यं मुहुरस्वास्थ्यवान्भवेत् । अभिघातसमुत्थश्च दुश्चिकित्स्यतमो मतः ॥ १,१६६.
स्वेदस्तम्भं तदा तस्य वायुश्छिन्नतनुर्यदा । व्याप्नोति सकलं देहं यत्र चायाम्यते पुनः ॥ १,१६६.
अन्तर्धान्तुगतश्चैव वेगस्तम्भं च नेत्रयोः । करोति जृम्भां सदनं दशनानां हतोद्यमम् ॥ १,१६६.
पार्श्वयोर्वेदनां बाह्यां हनुपृष्ठसिरोग्रहम् । देहस्य बहिरायामं पृष्ठतो हृदये शिरः ॥ १,१६६.
उरश्चोत्क्षिप्यते तत्र स्कन्धो वा नाम्यते तदा । दन्तेष्वास्ये च वैवर्ण्यं ह्यस्वेदस्तत्र गात्रतः ॥ १,१६६.
बाह्यायामं हनुस्तम्भं ब्रवते वातरोगिणम् । विण्मूत्रमसृजं प्राप्य ससमीरसमीरणाः? ॥ १,१६६.
आयच्छन्ति तनोर्देषाः सर्वमापादमस्तकम् । तिष्ठतः पाण्डुमात्रस्य व्रणायामः सुवर्धितः ॥ १,१६६.
गात्रवेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपणेन तत् । जिह्वाविलेखनादुष्णभक्षणादतिमानतः ॥ १,१६६.
कुपितो हनुमूलस्थः स्तम्भयित्वानिलो हनुम् । करोति विवृतास्यत्वमथवा संवृतास्यताम् ॥ १,१६६.
हनस्तम्भः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् । वाग्वादिनी शिरास्तम्भो जिह्वां स्तम्भयतेऽनिलः ॥ १,१६६.
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता । शिरसा भारहरणादतिहास्यप्रभाषणात् ॥ १,१६६.
विषमादुपधानाच्च कठिनानां च चर्वणात् । वायुर्विवर्धते तैश्च वातूलैरूर्ध्वमास्थितः ॥ १,१६६.
वक्रीकरोति वक्त्रं च ह्युच्चैर्हसितमीक्षितम् । ततोऽस्य कुरुते मृद्वीं वाक्शक्तिं स्तब्धनेत्रताम् ॥ १,१६६.
दन्तचालं स्वरभ्रंशः श्रुतिहानीक्षितग्रहौ । गन्धाज्ञानं स्मृतिध्वंसस्त्रासः श्वासश्च जायते ॥ १,१६६.
निष्ठीवः पार्श्वतोदश्च ह्येकस्याक्ष्णो निमीलनम् । जत्रोरूर्ध्वं रुजस्तीव्राः शरीरार्धधरोऽपि वा ॥ १,१६६.
तमाहुरर्दितं केचिदेकाङ्गमथ चापरे । रक्तमाश्रित्य च शिराः कुर्यान्मूर्धधराः शिराः? ॥ १,१६६.
रूक्षः सवेदनः कृष्णः सोऽसाध्यः स्याच्छिरोग्रहः । तनुं गृहीत्वा वायुश्च स्नायुस्तथैव च ॥ १,१६६.
पक्षमन्यतरं हन्ति पक्षाघातः स उच्यते । कृत्स्नस्य कायस्यार्धं स्यादकर्मण्यमचेतनम् ॥ १,१६६.
एकाङ्गरोगतां केचिदन्ये कक्षरुजां विदुः । सर्वाङ्गरोधः स्तम्भश्च सर्वकायाश्रितेऽनिले ॥ १,१६६.
शुद्धवातकृतः पक्षः कृच्छ्रसाध्यतमो मतः । कृच्छ्रश्चान्येन संसृष्टो विवृद्धः क्षयहेतुकः ॥ १,१६६.
आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः । असाध्य एव सर्वो हि भवेद्दण्डापतानकः ॥ १,१६६.
अंसमूलोत्थितो वायुः शिराः संकुच्य तत्रगः । बहिः प्रस्यन्दितहरं जनयत्येव बाहुकम् ॥ १,१६६.
तलं प्रत्यङ्गुलीनां यः कण्डरा बाहुपृष्ठतः । बाह्वोः कर्मक्षयकरी विपूची वेति सोच्यते ॥ १,१६६.
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षैपेद्यदा । तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ॥ १,१६६.
कम्पते गमनारम्भे खञ्जन्निव च गच्छति । कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥ १,१६६.
शीतोष्णद्रवसंसुष्कगुरुस्निग्धैश्च सेवितैः । जीर्णाजीर्णे तथायासक्षोभस्निग्धप्रजागरैः ॥ १,१६६.