स्पर्शैकाहारसंगादिसेवनात्प्रायशो गदाः । एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात् ॥ १,१६४.
श्रीगरुडमहापुराणम् १६५ धन्वन्तरिरुवाच । क्रिमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदतः । बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः ॥ १,१६५.
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः । तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥ १,१६५.
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः । द्विधा ते कोष्ठपिडिकाः कण्डूगण्डान्प्रकुर्वते ॥ १,१६५.
कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजा बाह्यसम्भवाः । मधुरान्नगुडक्षीरदधिमत्स्यनवौदनैः ॥ १,१६५.
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः । पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ॥ १,१६५.
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः । श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥ १,१६५.
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः । च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते ॥ १,१६५.
हृल्लासमास्यश्रवणमविपाकमरोचकम् । मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान् ॥ १,१६५.
रक्तवाहिशिरास्थानरक्तजा जन्तवोऽणवः । अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः ॥ १,१६५.
केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः । षट्ते कुष्ठैककर्माणः सहसौरसमातरः ॥ १,१६५.
पक्वाशये पुरीषोत्था जायन्तेऽथोविसर्पिणः । वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः ॥ १,१६५.
तदास्योद्गारनिः श्वामविड्गन्धानुविधायिनः । पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥ १,१६५.
ते पञ्चनाम्ना क्रिमयः ककेरुकमकेरुकाः । सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ॥ १,१६५.
वङ्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः । रोमहर्षाग्निसदनं गुदकण्डूंर्विमार्गगाः ॥ १,१६५.
श्रीगरुडमहापुराणम् १६६ धन्वन्तरिरुवाच । वातव्याधिनिदानं ते वक्ष्ये सुश्रुत तच्छृणु । सर्वथानर्थकथने विघ्न एव च कारणम् ॥ १,१६६.
अदृष्टदुष्टपवनशरीरमविशेषतः । स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः ॥ १,१६६.
स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः । तद्वदुक्तं च यत्नेन यतितव्यमतः सदा ॥ १,१६६.
तस्योक्ते दोषविज्ञाने कर्म प्राकृतवैकृतम् । समासव्यासतो दोषभेदानामवधार्य च ॥ १,१६६.
प्रत्येकं पञ्चधा वीरो व्यापारश्चेह वैकृतः । तस्योच्यते विभागेन सनिदानं सलक्षणम् ॥ १,१६६.
धातुक्षयकरैर्वायुः क्रुद्धो नातिनिषेव्यते । चतुः स्नोतोऽवकाशेषु भूयस्तान्येव पूरयेत् ॥ १,१६६.
तेभ्यस्तु दोषपूर्णेभ्यः प्रच्छाद्य विवरं ततः । तव वायुः सकृत्क्रुद्धः शूलानाहान्त्रकूजनम् ॥ १,१६६.
मलरोधं स्वरभ्रंशं दृष्टिपृष्ठकटिग्रहम् । करोत्येव पुनः काये कृच्छ्रानन्यानुपद्रवान् ॥ १,१६६.
आमाशयोत्थवमथुश्वासकासविषूचिकाः । कण्डूपरोधघर्मादिव्याधीनूर्ध्वञ्च नाभितः ॥ १,१६६.
श्रोत्रादीन्द्रियबाधां च त्वचि स्फोटनरूक्षताम् । चक्रेतीव्ररुजाश्वासगरामयविवर्णताः ॥ १,१६६.
अन्त्रस्यान्तञ्च विष्टम्भमरुचिं कृशतां भ्रमम् । मांसमेदोगतग्रन्थिं चर्मादावुपकर्कशम् ॥ १,१६६.
गुर्वङ्गन्तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा । अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रञ्च लक्षयेत् ॥ १,१६६.
मज्जस्थोऽस्थिषु चास्थैर्यमस्वप्नं यत्तदा रुजाम् । शुक्रस्य शीघ्रमुत्सङ्गसर्गान्विकृतिमेव वा ॥ १,१६६.
तत्तद्गर्भस्थशुक्रस्थः शिरस्याध्मानरिक्ताता । तत्र स्थानस्थितः कुर्यात्क्रुद्धः श्वयथुकृच्छ्रताम् ॥ १,१६६.
जलपूर्णदृतिस्पर्शं शोषं सन्धिगतोऽनिलः । सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम् ॥ १,१६६.