अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः । दाहः कण्डूस्त्वचि स्वापस्तोदः कोचोन्नतिस्तमः ॥ १,१६४.
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः । रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम् ॥ १,१६४.
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् । कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ॥ १,१६४.
विस्तृताकृतिपर्यस्तन्दूषितैर्लोमभिश्चितम् । कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥ १,१६४.
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत् । वर्तुलं बहुलकेत्युक्तं दाहरुजाधिकम् ॥ १,१६४.
असंच्छन्नमदरणं कृमिवत्स्यादुदुम्बरम् । स्थिरं सत्यानं गुरु स्निग्धं श्वेतरक्तं मलान्वितम् ॥ १,१६४.
अन्योन्यसक्तपुच्छूनबहुकण्डूस्नुतिकृमि । श्लक्ष्णपीताभासंयुक्तं मण्डलं परिकीर्तितम् ॥ १,१६४.
सकण्डूपिटिका श्यावा सक्लेदा च विचर्चिका । परुषन्तत्ररक्तान्तमन्तः श्यामं समुन्नतम् ॥ १,१६४.
ऋष्यजिह्वाकृतिप्रोक्तं ऋष्यजिह्वं बहुक्रिमि । हस्तिचर्मखरस्पर्शं चर्माख्यं कुष्ठमुच्यते ॥ १,१६४.
अस्वेदञ्चमत्स्यशल्कसन्निभं किटिमं पुनः । रूक्षाग्निवर्णं दुः स्पर्शं कण्डूमत्परुषासितम् ॥ १,१६४.
अन्ता रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत् । श्लक्ष्णस्पर्शं तनु स्निग्धं स्वच्छमस्वेदपुष्पवत् ॥ १,१६४.
प्रायेण चोर्ध्वकार्श्यञ्च कुण्डैः कण्डूपरैश्चितम् । रक्तैरलंशुका पाणिपादे कुर्याद्विपादिका ॥ १,१६४.
तीव्रार्तिं गाढकण्डूञ्च सरागपिडिकाचितम् । दीर्घप्रतानदूर्वावदतसीकुसुमच्छवि ॥ १,१६४.
उच्छूनमण्डलो दद्रुः कण्डूमानिति कथ्यते । स्थूलमूलं सदाहार्ति रक्तस्त्रावं बहुव्रणम् ॥ १,१६४.
सादहकक्लेदरुजं प्रायशः सर्वजन्म च । रक्ताक्तमण्डलं पाण्डु कण्डूदाहरुजान्वितम् ॥ १,१६४.
सोत्सेधमाचितं रक्तैः कञ्जपर्णमिवाम्बुभिः । पुण्डरीकं भवेत्तद्धि चितं स्फोटैः सितारुणैः ॥ १,१६४.
विस्फोटपिटिका पामा कण्डूक्लेदरुजान्विताः । सूक्ष्मा श्यामारुणा रूक्षा प्रायः स्फिक्पाणिकूर्परे ॥ १,१६४.
सस्फोटसंस्पर्शसहं कण्डूरक्तातिदाहवत् । रक्तदलं चर्मदलं काकणं तीव्रदाहरुक् ॥ १,१६४.
पूर्वरक्तञ्च कृष्णञ्च काकणं त्रिफलोपमम् । कृष्णलिङ्गैर्युतैः सर्वैः स्वस्वकारणतो भवेत् ॥ १,१६४.
दोषभेदाय विहितैरादिशेल्लिङ्गकर्मभिः । कुष्ठस्वदोषानुगतं सर्वदोषगतं त्यजेत् ॥ १,१६४.
कुष्ठोक्तं यच्च यच्चास्थिमज्जाशुक्रसमाश्रयम् । कृच्छ्रं मेदोमतञ्चैव याप्यं स्नाप्वास्थिमांसगम् ॥ १,१६४.
अकृच्छ्रं कफवातोत्थं त्वग्गतं त्वमलञ्च यत् । तत्र त्वचि स्थिते कष्ठे काये वैवर्ण्यरूक्षाता ॥ १,१६४.
स्वेदतापश्वयथवः शोणिते पिशिते पुनः । पाणिपादाश्रिताः स्फोटाः क्लेशात्सन्धिषु चाधिकम् ॥ १,१६४.
दोषस्याभीक्ष्णयोगेन दलनं स्याच्च मेदसि । नातिसंज्ञास्ति मज्जास्थिनेत्रवेगस्वरक्ष्यः ॥ १,१६४.
क्षते च क्रिमिभिः शुक्रे स्वदारापत्यबाधनम् । यथापूर्वाणि सर्वाणि स्वलिङ्गानि मृगादिषु ॥ १,१६४.
कष्ठैकसम्भवं श्वित्रं किलासं दारुणं भवेत् । निर्दिष्टमपरिस्त्रावि त्रिधातूद्भवसंश्रयम् ॥ १,१६४.
वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् । सदाहं रोमविध्वंसि कफाच्छ्वेतं घन गुरु ॥ १,१६४.
सकण्डूरं क्रमाद्रक्तमांसमेदः सु चादिशेत् । वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ १,१६४.
अशुक्लरोमबहुलमसंश्लिष्टं मिथो नवम् । अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥ १,१६४.
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तरम् । वर्जनीयं विशेषेण किलासं सिद्धिमिच्छिता ॥ १,१६४.