दूषयित्वा तु दीर्घानुवृत्तस्थूलखरात्मिकाम् । ग्रन्थीनां कुरुते मालां सरक्तान्तीव्ररुग्ज्वराम् ॥ १,१६३.
श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः । मोहवैवर्ण्यमूर्छाङ्गभङ्गग्निसदनैर्युताम् । इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥ १,१६३.
कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा । अङ्गावसादविक्षेंपौ प्रलापारोचकभ्रमाः ॥ १,१६३.
मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् । आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥ १,१६३.
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् । पीडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः ॥ १,१६३.
स्निध्नोऽसितो मेचकाभो मलिनः शोथवान्गुरुः । गम्भीरपाकः प्रायोष्मस्पृष्टः क्लिन्नोंऽवदीर्यते ॥ १,१६३.
पक्ववच्छीर्णमांसश्च स्पष्टस्नायुशिरागणः । सर्वगो लक्षणैः सर्वेः सर्वगत्वक्समर्पणः । शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् ॥ १,१६३.
बाह्यहेतोः क्षतात्क्रुद्ध्वः सरक्तं पित्तमीरयन् । वीसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम् ॥ १,१६३.
स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् । पथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः ॥ १,१६३.
असाध्याः कृतसर्वोत्थाः सर्वे चाक्रान्तमर्मणः । शीर्णस्नायुशिरामांसाः क्लिन्नाश्चशवगन्धयः ॥ १,१६३.
श्रीगरुडमहापुराणम् १६४ धन्वन्तरिरुवाच । मिथ्याहारविहारेण विशेषेण विरोधिना । साधुनिन्दावधाद्युद्धहरणाद्यैश्च सेवितैः ॥ १,१६४.
पाप्मभिः कर्मभिः सद्यः प्राक्तनैः प्रेरितामलाः । शिराः प्रपद्य तैर्युक्तास्त्वग्वसारक्तमामिषम् ॥ १,१६४.
दूषयन्ति च संशोष्य निश्चरन्तस्ततो बहिः । त्वचः कुर्वान्ति वैवर्ण्यं शिष्टाः कुष्ठमुशन्तितम् ॥ १,१६४.
कालेनोपेक्षितं यत्स्यात्सर्वं कोष्ठानि तद्वपुः । प्रपद्य धातून्बाह्यान्तः सर्वान्संक्लेद्य चावहेत् ॥ १,१६४.
सस्वेदक्लेदसङ्कोचान्कृमीन् सूक्ष्मांश्चदारुणान् । लोमत्वक्स्नायुधमनीराक्रामति यथाक्रमम् ॥ १,१६४.
भस्माच्छादितवत्कुर्याद्बाह्यं कुष्ठमुदाहृतम् । कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ॥ १,१६४.
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकस्ततः । वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ॥ १,१६४.
मण्डलाख्यं विचर्चो च ऋष्याख्यं वातपित्तजम् । चर्मैककुष्ठं किटिमं सिध्मालसविपादिकाः ॥ १,१६४.
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रूशतारुषी । पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ॥ १,१६४.
सर्वेभ्यः काकणं पूर्वत्रिकं दद्रु सकाकणम् । पुण्डरीकर्यजिह्वे च महाकुष्ठानि सप्त तु ॥ १,१६४.
अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः । दाहः कण्डूस्त्वचि स्वापस्तोदः कोचोन्नतिस्तमः ॥ १,१६४.
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः । रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम् ॥ १,१६४.
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् । कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ॥ १,१६४.
विस्तृताकृतिपर्यस्तन्दूषितैर्लोमभिश्चितम् । कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥ १,१६४.
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत् । वर्तुलं बहुलकेत्युक्तं दाहरुजाधिकम् ॥ १,१६४.
असंच्छन्नमदरणं कृमिवत्स्यादुदुम्बरम् । स्थिरं सत्यानं गुरु स्निग्धं श्वेतरक्तं मलान्वितम् ॥ १,१६४.
अन्योन्यसक्तपुच्छूनबहुकण्डूस्नुतिकृमि । श्लक्ष्णपीताभासंयुक्तं मण्डलं परिकीर्तितम् ॥ १,१६४.
सकण्डूपिटिका श्यावा सक्लेदा च विचर्चिका । परुषन्तत्ररक्तान्तमन्तः श्यामं समुन्नतम् ॥ १,१६४.
ऋष्यजिह्वाकृतिप्रोक्तं ऋष्यजिह्वं बहुक्रिमि । हस्तिचर्मखरस्पर्शं चर्माख्यं कुष्ठमुच्यते ॥ १,१६४.
अस्वेदञ्चमत्स्यशल्कसन्निभं किटिमं पुनः । रूक्षाग्निवर्णं दुः स्पर्शं कण्डूमत्परुषासितम् ॥ १,१६४.