कण्डूमान्पाण्डुरोमा त्वक्कठिनः शीतलो गुरुः । स्निग्धःश्लक्ष्णः स्थिरः शूलो निद्राच्छर्द्यग्निमान्द्यकृत् ॥ १,१६२.
आघातेन च शस्त्रादिच्छेदभेदक्षतादिभिः । हिमानिलैर्दध्यनिलैर्भल्लातकपिकच्छजैः ॥ १,१६२.
रसैः शुष्कैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् । भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥ १,१६२.
विषजः सविषप्राणिपरिसर्पणमूत्रणात् । दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥ १,१६२.
विण्मूत्रशुक्रोपहतमलवद्वस्तुसंङ्करात् । विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ॥ १,१६२.
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः । नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः ॥ १,१६२.
श्रीगरुडमहापुराणम् १६३ धन्वन्तीररुवाच । विसर्पादिनिदानन्ते वक्ष्ये सुश्रुत तच्छृणु । स्याद्विसर्पो विघातात्तु दोषैर्दुष्टैश्च शोथवत् ॥ १,१६३.
अधिष्ठानञ्च तं प्राहुर्बाह्यं तत्र भयाच्छ्रमात् । यथात्तरञ्च दुः साध्यस्तत्र दोषो यथायथम् ॥ १,१६३.
प्रकोपनैः प्रकुपिता विशेषेण विदाहिभिः । देहे शीघ्रं विशन्तीह तेऽन्तरे हि स्थिता बहिः ॥ १,१६३.
तृष्णाभियोगाद्वेगानां विषमाच्च प्रवर्तनात् । आशु चाग्निबलभ्रंशादतो बाह्यं विसर्पयेत् ॥ १,१६३.
तत्र वातात्स वीसर्पो वातज्वरसमव्यथः । शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान् ॥ १,१६३.
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः । कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ॥ १,१६३.
सन्निपातसमुत्थाश्च सर्वलिङ्गसमन्विताः । स्वदोषलिङ्गैश्चीयन्ते सर्वैः स्फोटैरुपेक्षिताः । तेऽपि स्वेदान्विमुञ्चति बिभ्रतो व्रणलक्षणम् ॥ १,१६३.
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः । गन्थिभेदाग्निसदनतमकारोचकैर्युतः ॥ १,१६३.
करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् । यंयं देशं विसर्पश्च विसर्पति भवेत्ससः ॥ १,१६३.
शान्ताङ्गारासितो नीलो रक्तो वासु च चीयते । अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च ॥ १,१६३.
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः । व्यथतेऽङ्गं हरेत्संज्ञां निद्राञ्च श्वासमीरयेत् ॥ १,१६३.
हिक्काञ्च स गतोऽवस्थामीदृशीं लभते नरः । क्वचिन्मर्मारतिग्रस्तो भूमिशय्यासनादिषु ॥ १,१६३.
चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् । दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ॥ १,१६३.
कफेन रुद्धः पवनो भित्त्वातं बहुधा कफम् । रक्तं वा वृद्धरक्तस्य त्वक्छिरास्नायुमांसगम् ॥ १,१६३.
दूषयित्वा तु दीर्घानुवृत्तस्थूलखरात्मिकाम् । ग्रन्थीनां कुरुते मालां सरक्तान्तीव्ररुग्ज्वराम् ॥ १,१६३.
श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः । मोहवैवर्ण्यमूर्छाङ्गभङ्गग्निसदनैर्युताम् । इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥ १,१६३.
कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा । अङ्गावसादविक्षेंपौ प्रलापारोचकभ्रमाः ॥ १,१६३.
मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् । आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥ १,१६३.
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् । पीडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः ॥ १,१६३.
स्निध्नोऽसितो मेचकाभो मलिनः शोथवान्गुरुः । गम्भीरपाकः प्रायोष्मस्पृष्टः क्लिन्नोंऽवदीर्यते ॥ १,१६३.
पक्ववच्छीर्णमांसश्च स्पष्टस्नायुशिरागणः । सर्वगो लक्षणैः सर्वेः सर्वगत्वक्समर्पणः । शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् ॥ १,१६३.
बाह्यहेतोः क्षतात्क्रुद्ध्वः सरक्तं पित्तमीरयन् । वीसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम् ॥ १,१६३.
स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् । पथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः ॥ १,१६३.
असाध्याः कृतसर्वोत्थाः सर्वे चाक्रान्तमर्मणः । शीर्णस्नायुशिरामांसाः क्लिन्नाश्चशवगन्धयः ॥ १,१६३.