पाण्डुरोगेक्षयेजाते नाभिपादास्यमेहनम् । पुरीषं कृमिवन्मुञ्चेद्भिन्नं सास्त्रं कफान्वितम् ॥ १,१६२.
यः पित्तरोगी सेवेत पित्तलं तस्य कामलम् । कोष्ठशा खोद्गतं पित्तं दग्ध्वासृङ्मांसमाहरेत् ॥ १,१६२.
हारिद्रमूत्रनेत्रत्वं मुखं रक्तं शकृत्तथा । दाही विपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः ॥ १,१६२.
भवेत्पित्तानुगः शोथः पाण्डुरोगावृतस्य च । उपेक्षया च शोथाद्याः सकृच्छ्राः कुम्भकामलाः ॥ १,१६२.
हरितश्यामपित्तत्वे पाण्डुरोगो यदा भवेत् । वातपित्ते भ्रमस्तृष्णा स्त्रीषु हर्षो मृदुज्वरः ॥ १,१६२.
तन्द्रा वा चानलभ्रंशस्तं वदन्ति हलीमकम् । आलस्यञ्चातिभवति तेषां पूर्वमुपद्रवः ॥ १,१६२.
शोथः प्रधानः कथितः स एवातो निगद्यते । पित्तरक्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः ॥ १,१६२.
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् । उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥ १,१६२.
सर्वहेतुविशषैस्तु रूपभेदान्नवात्मकम् । दोषैः पृथग्विधैः सर्वैरभिघाताद्विषादपि ॥ १,१६२.
तदेव नीयमानन्तु सर्वाङ्गे कामजम्भवेत् । पृथून्नताग्रग्रथितैर्विशेषैश्च त्रिधा विदुः ॥ १,१६२.
सामान्यहेतुः शोथानां दोषजातो विशेषतः । व्याधिः कर्मोपवासादिक्षीणस्य भवति द्रुतम् ॥ १,१६२.
अतिमात्रं यदासेवेद्गुरुमत्यन्तशीतलम् । लवणक्षारतीक्ष्णाम्लशाकाम्बुस्वप्नजागरम् ॥ १,१६२.
रोधो वेगस्य वल्लूरमजीर्णश्रममैथुनम् । पच्यते मार्गगमनं यानेन क्षोभिणापि वा ॥ १,१६२.
श्वासकासातिसारार्शोजठरप्रदरज्वराः । विष्टम्भालस्यकच्छर्दिहिक्कापाण्डुविसर्पकम् ॥ १,१६२.
ऊर्ध्वशोथमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः । सर्वाङ्गगः सर्वगतः प्रत्यप्रत्यगेति तदाश्रयः ॥ १,१६२.
तत्पूर्वरूपं क्षवथुः शिरायामङ्गगौरवम् । वाताच्छोथश्चलो रूक्षः खररोमारुणोऽसितः ॥ १,१६२.
शङ्खबस्त्यन्त्रशोफर्तिमेदोभेदाः प्रसुप्तिता । वातोत्तानः क्लमः शीघ्रमुन्नमेत्पीडितां तनुम् ॥ १,१६२.
सिग्धस्तु मर्दनैः शाम्येद्रात्रावल्पो दिवा महान् । त्वक्सर्षपविलिप्ते च तस्मिंश्चिमिचिमायते ॥ १,१६२.
पीतरक्तासिंताभासः पित्तजातश्च शोषकृत् । शीघ्रं नासौ वा प्रशमेन्मध्ये प्राग्दहते तनुम् ॥ १,१६२.
सतृट्दाहज्वरस्वेदो भ्रमक्लोदमदभ्रमाः । साभिलाषी शकृद्भेदो गन्धः स्पर्शसहो मृदुः ॥ १,१६२.
कण्डूमान्पाण्डुरोमा त्वक्कठिनः शीतलो गुरुः । स्निग्धःश्लक्ष्णः स्थिरः शूलो निद्राच्छर्द्यग्निमान्द्यकृत् ॥ १,१६२.
आघातेन च शस्त्रादिच्छेदभेदक्षतादिभिः । हिमानिलैर्दध्यनिलैर्भल्लातकपिकच्छजैः ॥ १,१६२.
रसैः शुष्कैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् । भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥ १,१६२.
विषजः सविषप्राणिपरिसर्पणमूत्रणात् । दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥ १,१६२.
विण्मूत्रशुक्रोपहतमलवद्वस्तुसंङ्करात् । विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ॥ १,१६२.
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः । नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः ॥ १,१६२.
श्रीगरुडमहापुराणम् १६३ धन्वन्तीररुवाच । विसर्पादिनिदानन्ते वक्ष्ये सुश्रुत तच्छृणु । स्याद्विसर्पो विघातात्तु दोषैर्दुष्टैश्च शोथवत् ॥ १,१६३.
अधिष्ठानञ्च तं प्राहुर्बाह्यं तत्र भयाच्छ्रमात् । यथात्तरञ्च दुः साध्यस्तत्र दोषो यथायथम् ॥ १,१६३.
प्रकोपनैः प्रकुपिता विशेषेण विदाहिभिः । देहे शीघ्रं विशन्तीह तेऽन्तरे हि स्थिता बहिः ॥ १,१६३.
तृष्णाभियोगाद्वेगानां विषमाच्च प्रवर्तनात् । आशु चाग्निबलभ्रंशादतो बाह्यं विसर्पयेत् ॥ १,१६३.