तोयपूर्णान्मृदुस्पर्शात्सदृशक्षोभवेपथु । बकोदरं स्थिरंस्निग्धं नाडीमावृत्य जायते ॥ १,१६१.
उपेक्षायाञ्च सर्वेषां स्वस्थानां परिचालिताः । पाका द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि ॥ १,१६१.
स्वेदे चैव तु संरुद्धे मूर्छिताश्चान्तरस्थिताः । तदेवोदरमापूर्य कुर्यादुदरामयम् ॥ १,१६१.
गुरूदरं स्थितं वृत्तमाहतञ्च न शब्दकृत् । हीनबलं तथा घोरं नाड्यां स्पृष्टञ्च सपति ॥ १,१६१.
शिरान्तर्धानमुदरे सर्वलक्षणमुच्यते । वातपित्तकफप्लीहसन्निपातोदकोदरम् ॥ १,१६१.
पक्षाच्च जातसलिलं विष्टम्भोपद्रवान्वितम् । जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् ॥ १,१६१.
श्रीगरुडमहापुराणम् १६२ धन्वन्तरिरुवाच । पाण्डुशोथनिदानञ्च शृणु सुश्रत वच्मि ते । पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ॥ १,१६२.
नत्रानिलेन बलिना क्षिप्ताक्षिप्तं यदि स्थितम् । धमनीर्दशमीः प्राप्य व्याप्नुवन्सकलां तनुम् ॥ १,१६२.
त्वगसृक्छ्लेष्ममांसानि प्रदूष्यन्रसमाश्रितम् । त्वङ्मांसयोस्तु कुरुते त्वचि वर्णान् पृथग्विधान् ॥ १,१६२.
स्वयं हरिद्रा हारिद्रं पाण्डुत्वं तेषु चाधिकम् । यातोऽयं प्रहतेदुग्रः स रोगस्तेन गौरवम् ॥ १,१६२.
धातूनां स्पर्शशैथिल्यमामजश्च गुणक्षयः । ततोऽल्परक्तमेदोऽस्थिनिः सारः स्याच्छ्लथेन्द्रियः ॥ १,१६२.
शीर्यमाणैरिवाङ्गैस्तु द्रवता हृदयेन च । शूलोक्षिकूटवदने स्तैमित्यं तत्र लालया ॥ १,१६२.
हीनतृट्शिशिरद्वेषी शीर्णलोभो हतानलः । मन्दशक्तिर्ज्वरी श्वासी कर्णशूली तथा भ्रमी ॥ १,१६२.
स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात् । प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि ॥ १,१६२.
अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पमृत्रता । मेदः समानिलात्तत्र गाढरुक्क्लेदगात्रता ॥ १,१६२.
कृष्णेक्षणं कृष्णशिरानखविण्मूत्रनेत्रता । शोथो नासास्यवैरस्यं विट्शोषः पार्श्वमूर्छना ॥ १,१६२.
पित्ते हरितपित्ताभः शिरादिषु ज्वरस्तमः । तृट्शोषमूर्छादौर्गन्ध्यं शीतेच्छा कटुवक्रता ॥ १,१६२.
विड्भेदश्चाम्लको दाहः कफाच्च हृदयार्द्रता । तन्द्रा लवणवक्रत्वं रोमहर्षः स्वरक्षयः ॥ १,१६२.
काशश्छर्दिश्च निचयान्नष्टलिङ्गोऽतिदुः सहः । उत्कृष्टेनिलपित्ताभ्या कटुर्वा मधुरः कफः ॥ १,१६२.
दूषयित्वा वसादींश्च रौक्ष्याद्रक्तविमोक्षणम् । स्रोतसां संक्षयं कुर्यादनुरुध्य च पूर्ववत् ॥ १,१६२.
पाण्डुरोगेक्षयेजाते नाभिपादास्यमेहनम् । पुरीषं कृमिवन्मुञ्चेद्भिन्नं सास्त्रं कफान्वितम् ॥ १,१६२.
यः पित्तरोगी सेवेत पित्तलं तस्य कामलम् । कोष्ठशा खोद्गतं पित्तं दग्ध्वासृङ्मांसमाहरेत् ॥ १,१६२.
हारिद्रमूत्रनेत्रत्वं मुखं रक्तं शकृत्तथा । दाही विपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः ॥ १,१६२.
भवेत्पित्तानुगः शोथः पाण्डुरोगावृतस्य च । उपेक्षया च शोथाद्याः सकृच्छ्राः कुम्भकामलाः ॥ १,१६२.
हरितश्यामपित्तत्वे पाण्डुरोगो यदा भवेत् । वातपित्ते भ्रमस्तृष्णा स्त्रीषु हर्षो मृदुज्वरः ॥ १,१६२.
तन्द्रा वा चानलभ्रंशस्तं वदन्ति हलीमकम् । आलस्यञ्चातिभवति तेषां पूर्वमुपद्रवः ॥ १,१६२.
शोथः प्रधानः कथितः स एवातो निगद्यते । पित्तरक्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः ॥ १,१६२.
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् । उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥ १,१६२.
सर्वहेतुविशषैस्तु रूपभेदान्नवात्मकम् । दोषैः पृथग्विधैः सर्वैरभिघाताद्विषादपि ॥ १,१६२.
तदेव नीयमानन्तु सर्वाङ्गे कामजम्भवेत् । पृथून्नताग्रग्रथितैर्विशेषैश्च त्रिधा विदुः ॥ १,१६२.