खरदूषणहन्ता च रावणस्य प्रमर्दनः 15.
कुम्भेंद्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः 15.
दुष्टासुरनिहंता च शम्बरारिस्तथैव च 15.
यमलार्जनभेत्ता च तपोहितकरस्तथा 15.
सारः सारप्रियः सौरः कालहन्तानिकृन्तनः 15.
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् 15.
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः 15.
हस्तेंद्रियविहीनश्च पादाभ्यां च विवर्जितः 15.
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः 15.
अपानेन विहीनश्च व्यानेन च विवर्जितः 15.
आकाशेन विहीनश्च वायुना परिवर्जितः 15.
पृथिव्या च विहीनश्च शब्देन च विवर्जितः 15.
रागेण विगतश्चैव अघेन परिवर्जितः 15.
रजो विवर्जितश्चैव विकारैः षड्भिरेव च 15.
लोभेन विगतश्चैव दम्भेन च विवर्जितः 15.
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा 15.
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोमकस्तथा 15.
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा 15.
त्वचा न गम्यः कूर्म्मश्च जिह्वाऽग्राह्यस्तथैव च 15.
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च 15.
अहं बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्या एव च 15.
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्त्तिः परन्तपः 15.
ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः 15.
गोविन्दो गोपतिर्गोपः सर्वगोपीसुखप्रदः 15.
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः 15.
दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः 15.
विक्रमो दण्ड(र) हस्तश्च ह्येकदण्डी त्रिदण्डधृक् 15.
सामवेदोः ह्यथर्वश्च सुकृतः सुतरूपणः 15.
ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः 15.
बहुपाच्च सुपाच्चैव तथैव च सहस्त्रपात् 15.