नीरातिवृद्धौ कठिनं शीतस्पर्शं गुरु स्थिरम् । त्रिदोषकोपने तैस्तैस्त्रिदोषजीनैतर्मलैः ॥ १,१६१.
सर्वदूषणदुष्टाश्च सरक्ताः सञ्चिता मलाः । कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम् ॥ १,१६१.
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् । वर्धते तच्च सुतरां शीतवातप्रदर्शने ॥ १,१६१.
अत्यशनाच्च संक्षोभाद्यानपानादिचेष्ठितैः । अविहितैश्च पानाद्यैर्वमनव्याधिकर्षणैः ॥ १,१६१.
वामपार्श्वास्थितः प्लीहा त्युतस्थानो विवर्धते । शोणिताद्वा रसादिभ्यो विवृद्धो जनयेद्व्यथाम् ॥ १,१६१.
सोऽष्ठीला चातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्? । क्रमेण वर्धमानश्च कुक्षौ व्याततिमाहरेत् ॥ १,१६१.
श्वासकासपिपासास्यवैरस्याध्मानकज्वरैः । पाण्डुत्वमूर्छाछर्दित्वग्दाहमोहैश्च संयुतः ॥ १,१६१.
अरुणाभं विचित्राभं नीलहारिद्रराजितम् । उदावर्तेन चानाहमोहतृड्द्गहनज्वरैः ॥ १,१६१.
गौरवारुचिकाठिन्यैर्विघातभ्रमसंक्रमात् । प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम् ॥ १,१६१.
पक्वे भूते यकृति च सदा बद्धमलो गुदे । दुर्नामभिरुदावर्तैरन्यैर्वा पीडितो भवेत् ॥ १,१६१.
वर्चः पित्तकफान्बद्धान्करोति कुपितोऽनिलः । अपानो जठरे तेन संरुद्धो ज्वररुक्करः ॥ १,१६१.
काशश्वासोरुसद्गनं शिरोरुङ्नाभिपार्श्वरुक् । मलासंगोऽरुचिश्छर्दिरुदरे मलमारुतः ॥ १,१६१.
स्थिरनीलारुणशिराजालैरुदरमावृतम् । नाभेरुपरि च प्रायो गोपुच्छाकृति जायते ॥ १,१६१.
अस्थ्यादिशल्यै रन्यैश्च विद्धे चैवोदरे तथा । पच्यते यकृतादिश्च तच्छिद्रैश्च सरन्बहिः ॥ १,१६१.
आम एव गुदाहेति ततोऽल्पाल्पः शकृद्रसः । स स्याद्विकृतगन्धोऽपि पिच्छिलः पीतलोहितः ॥ १,१६१.
शेषश्चापूर्य जठरं घोरमारभते ततः । वर्धते तदधो नाभेराशु चैति जलात्मताम् ॥ १,१६१.
उद्रिक्ते दोषरूपे च व्याप्ते च श्वासतृट्भ्रमैः । छिद्रोदरमिदं प्राहुः परिस्त्रावीति चापरे ॥ १,१६१.
प्रवृत्तस्नेहपानादेः सहसापथ्यसेविनः । अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य च ॥ १,१६१.
रुद्धः स्वमार्गादनिलः कफश्च जलमूर्छितः । वर्धते तु तदेवाम्बु तन्मात्राद्विन्दुराशितः ॥ १,१६१.
तत्कोपादुदरं तृष्णागुदस्नुतिरुजान्वितम् । काशश्वासारुचियुतं नानावर्णाशिराततम् ॥ १,१६१.
तोयपूर्णान्मृदुस्पर्शात्सदृशक्षोभवेपथु । बकोदरं स्थिरंस्निग्धं नाडीमावृत्य जायते ॥ १,१६१.
उपेक्षायाञ्च सर्वेषां स्वस्थानां परिचालिताः । पाका द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि ॥ १,१६१.
स्वेदे चैव तु संरुद्धे मूर्छिताश्चान्तरस्थिताः । तदेवोदरमापूर्य कुर्यादुदरामयम् ॥ १,१६१.
गुरूदरं स्थितं वृत्तमाहतञ्च न शब्दकृत् । हीनबलं तथा घोरं नाड्यां स्पृष्टञ्च सपति ॥ १,१६१.
शिरान्तर्धानमुदरे सर्वलक्षणमुच्यते । वातपित्तकफप्लीहसन्निपातोदकोदरम् ॥ १,१६१.
पक्षाच्च जातसलिलं विष्टम्भोपद्रवान्वितम् । जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् ॥ १,१६१.
श्रीगरुडमहापुराणम् १६२ धन्वन्तरिरुवाच । पाण्डुशोथनिदानञ्च शृणु सुश्रत वच्मि ते । पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ॥ १,१६२.
नत्रानिलेन बलिना क्षिप्ताक्षिप्तं यदि स्थितम् । धमनीर्दशमीः प्राप्य व्याप्नुवन्सकलां तनुम् ॥ १,१६२.
त्वगसृक्छ्लेष्ममांसानि प्रदूष्यन्रसमाश्रितम् । त्वङ्मांसयोस्तु कुरुते त्वचि वर्णान् पृथग्विधान् ॥ १,१६२.
स्वयं हरिद्रा हारिद्रं पाण्डुत्वं तेषु चाधिकम् । यातोऽयं प्रहतेदुग्रः स रोगस्तेन गौरवम् ॥ १,१६२.