सुक्षौ करोति तद्गर्भे लिङ्गमाविष्करोति च । हृल्लासदौहृदस्तन्यदर्शनं कामचारिता ॥ १,१६०.
क्रमेण वायोः संसर्गात्पित्तं योनिषु सञ्चयम् । रक्तस्य कुरुते तस्या वातपित्तोक्तगुल्मजान् ॥ १,१६०.
गर्भाशये च सुतरां शूलांश्चैवासृगाश्रये । योनिस्त्रावश्च दौर्गन्ध्यं भूयः स्यन्दनवेदने ॥ १,१६०.
कदापि गर्भवद्गुल्मः सर्वे ते रतिसम्भवाः । पाकञ्चिरेण भजते नैधते विद्रधिः पुनः ॥ १,१६०.
पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयस्तु सः । अतः शीघ्रं विदाहित्वाद्वद्रधिः सोऽभीधीयते ॥ १,१६०.
गुल्मान्तारश्रये बस्तिदाहश्च प्लीहवेदना । अग्निवर्णबलभ्रंशो वेगानां वा प्रवर्तनम् ॥ १,१६०.
अतो विपर्यये बाह्यकोष्ठाङ्गेषु च नातिरुक् । वैवर्ण्यमथ वा कासो बहिरुन्नतताधिकम् ॥ १,१६०.
साटोपमत्युग्ररुजमाध्मानमुदरे भृशम् । ऊर्ध्वाधो वातरोधेन तमानाहं प्रचक्षते ॥ १,१६०.
धनश्चाष्ठ्युपमो ग्रन्थिलोऽष्ठीलातु समुन्नता । समस्तालिङ्गसंयुक्तः प्रत्यष्ठीला तदाकृतिः ॥ १,१६०.
पक्वशयोद्भवोऽप्येवं वायुस्तीव्ररुजाश्रयात् । उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि ॥ १,१६०.
आचोपमाध्मानमपक्तिशक्तिः आसन्नगुल्मस्य भवेच्च चिह्नम् ॥ १,१६०.
श्रीगरुडमहापुराणम् १६१ धन्वन्तरिरुवाच । उदराणां निदानञ्च वक्ष्ये सुश्रुत तच्छृणु । रोगाः सर्वेऽपि मन्दाग्नौ सुतरामुदराणि तु ॥ १,१६१.
अनीर्णामयाश्चाप्यन्ये जायन्ते मलसंचयात् । ऊर्ध्वाधो वायवो रुद्ध्वा व्याकुलाविप्रवाहिणी? ॥ १,१६१.
प्राणानपानान्संदूष्य कुर्युस्तान्मांससन्धिगान् । आध्माप्य कुक्षिमुदरमष्टधा ते च भेदतः ॥ १,१६१.
पृथग्दोषैः समस्तौश्च प्लीहवङ्क्षक्षतोदकैः । तेनार्ताः शुष्कताल्वोष्ठाः सर्वपादकरोदराः ॥ १,१६१.
नष्टचेष्टबलाहाराः कृतप्रध्मात्कुक्षयः । पुरुषाः स्युः प्रेतरूपा भाविनस्तस्य लक्षणम् ॥ १,१६१.
क्षुन्नाशोऽरुचिवत्सर्वं सविदाहञ्च पच्यते । जीर्णान्नं यो न जानाति सोऽपथ्यं सेवतेनरः ॥ १,१६१.
क्षीयते बलमङ्गस्य श्वसित्यल्पोऽविचेष्टितः । विषयावृत्तिबुद्धिश्च शोकशोषादयोऽपिच ॥ १,१६१.
रुग्बस्तिसन्धौ सततं लघ्वल्पभोजनैरपि । जराजीर्णो बलभ्रंशो भवेज्जठररोगिणः ॥ १,१६१.
स्वतन्त्रतन्द्रालसता मलसर्गोऽल्पवह्निता । दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवे ॥ १,१६१.
सर्वत्र तोये मरणं शोचनं तत्र निष्फलम् । गवाक्षवच्छिराजालैरुदरं गुड्गुडायते ॥ १,१६१.
नाभिमन्त्रश्च विष्टभ्य वेगं कृत्वा प्रणश्यति । मारुते हृत्कटीनाभिपायुवङ्क्षणवेदनाः ॥ १,१६१.
सशब्दो निः सरेद्वायुर्वहते मूत्रमल्पकम् । नातिमात्रं भवेल्लौल्यं नरस्य विरसं मुखम् ॥ १,१६१.
तत्रवातोदरे शोथः पाणिपान्मुखकुक्षिषु । कुर्क्षिपार्श्वोदरकटीपृष्ठरुक्पर्वभदनम् ॥ १,१६१.
शुष्ककासाङ्गमर्दाधोगुरुतामलसंग्रहः । श्यामारुणत्वगादित्वं मुखे च रसवद्धिता ॥ १,१६१.
सतोदभेदमुदरं नीलकृष्णशिराततम् । आध्मातमुदरे शब्दमद्भुतं वा करोति सः ॥ १,१६१.
वायुश्चात्र सरुक्च्छब्दं विधत्ते सर्वथा गतिम् । पित्तोदरे ज्वरो मूर्छा दाहित्वं कटुकास्यता ॥ १,१६१.
भ्रमोतिसारः पीतत्वं त्वगादावुदरं हरित् । पीतताम्रशिरादित्वं सस्वेदं सोष्म दह्यते ॥ १,१६१.
धूमायते मृदुस्पर्शं क्षैप्रपाकं प्रदूयते । श्लेष्मोदरेषु सदनं स्वेदश्वयथुगौरवम् ॥ १,१६१.
निद्रा क्लेशोऽरुचिः श्वासः काशः शुक्लत्वगादिता । उदरं तिमिरं स्निग्धं शुक्लकृष्णशिरावृतम् ॥ १,१६१.