गुलम इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः । वातजन्ये शिरः शूलज्वर प्लीहान्त्रकूजनम् ॥ १,१६०.
वेधः सूच्येव विड्भ्रंशः कृच्छ्रे मूत्रं प्रवर्तते । गात्रे मुखे पदे शोथः ह्यग्निमान्द्यं तथैव च ॥ १,१६०.
रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्यच । अनिरूपितसंस्थानो विविधाञ्जनयेद्व्यथाम् ॥ १,१६०.
पिपीलिकाव्याप्त इव गुल्मः स्फुरति नुद्यते । पित्ताद्दाहाम्लकौ मूर्छा विड्भेदः स्वेदतृड्ज्वराः ॥ १,१६०.
हारिद्रयं सर्वगात्रेषु गुल्माच्छोथस्य दर्शनम् । हीयते दीप्यते श्लेष्मा स्वस्थानं दहतीवच ॥ १,१६०.
कफात्स्तैमित्यमरुचिः सदनं शिरसि ज्वरः । पीनसालस्यहृल्लासौ शुक्लकृष्णत्वगादिता ॥ १,१६०.
गुल्मो गभीरः कठिनो गुरुर्गर्भस्थबालवत् । स्वस्थानस्था अधावन्तस्तत एवात्र मारकाः ॥ १,१६०.
प्रायस्तु यत्तद्द्वन्द्वोत्था गुल्माः संसृष्टमैथुनाः । सर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः ॥ १,१६०.
सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते । ऋतौ या चैव शूलार्ता यति वा योनिरोगिणी ॥ १,१६०.
सेवते वानिलांश्च स्त्री क्रुद्धस्तस्याः समीरणः । निरुध्यात्यार्तवं योन्यां प्रतिमासं व्यवस्थितम् ॥ १,१६०.
सुक्षौ करोति तद्गर्भे लिङ्गमाविष्करोति च । हृल्लासदौहृदस्तन्यदर्शनं कामचारिता ॥ १,१६०.
क्रमेण वायोः संसर्गात्पित्तं योनिषु सञ्चयम् । रक्तस्य कुरुते तस्या वातपित्तोक्तगुल्मजान् ॥ १,१६०.
गर्भाशये च सुतरां शूलांश्चैवासृगाश्रये । योनिस्त्रावश्च दौर्गन्ध्यं भूयः स्यन्दनवेदने ॥ १,१६०.
कदापि गर्भवद्गुल्मः सर्वे ते रतिसम्भवाः । पाकञ्चिरेण भजते नैधते विद्रधिः पुनः ॥ १,१६०.
पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयस्तु सः । अतः शीघ्रं विदाहित्वाद्वद्रधिः सोऽभीधीयते ॥ १,१६०.
गुल्मान्तारश्रये बस्तिदाहश्च प्लीहवेदना । अग्निवर्णबलभ्रंशो वेगानां वा प्रवर्तनम् ॥ १,१६०.
अतो विपर्यये बाह्यकोष्ठाङ्गेषु च नातिरुक् । वैवर्ण्यमथ वा कासो बहिरुन्नतताधिकम् ॥ १,१६०.
साटोपमत्युग्ररुजमाध्मानमुदरे भृशम् । ऊर्ध्वाधो वातरोधेन तमानाहं प्रचक्षते ॥ १,१६०.
धनश्चाष्ठ्युपमो ग्रन्थिलोऽष्ठीलातु समुन्नता । समस्तालिङ्गसंयुक्तः प्रत्यष्ठीला तदाकृतिः ॥ १,१६०.
पक्वशयोद्भवोऽप्येवं वायुस्तीव्ररुजाश्रयात् । उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि ॥ १,१६०.
आचोपमाध्मानमपक्तिशक्तिः आसन्नगुल्मस्य भवेच्च चिह्नम् ॥ १,१६०.
श्रीगरुडमहापुराणम् १६१ धन्वन्तरिरुवाच । उदराणां निदानञ्च वक्ष्ये सुश्रुत तच्छृणु । रोगाः सर्वेऽपि मन्दाग्नौ सुतरामुदराणि तु ॥ १,१६१.
अनीर्णामयाश्चाप्यन्ये जायन्ते मलसंचयात् । ऊर्ध्वाधो वायवो रुद्ध्वा व्याकुलाविप्रवाहिणी? ॥ १,१६१.
प्राणानपानान्संदूष्य कुर्युस्तान्मांससन्धिगान् । आध्माप्य कुक्षिमुदरमष्टधा ते च भेदतः ॥ १,१६१.
पृथग्दोषैः समस्तौश्च प्लीहवङ्क्षक्षतोदकैः । तेनार्ताः शुष्कताल्वोष्ठाः सर्वपादकरोदराः ॥ १,१६१.
नष्टचेष्टबलाहाराः कृतप्रध्मात्कुक्षयः । पुरुषाः स्युः प्रेतरूपा भाविनस्तस्य लक्षणम् ॥ १,१६१.
क्षुन्नाशोऽरुचिवत्सर्वं सविदाहञ्च पच्यते । जीर्णान्नं यो न जानाति सोऽपथ्यं सेवतेनरः ॥ १,१६१.
क्षीयते बलमङ्गस्य श्वसित्यल्पोऽविचेष्टितः । विषयावृत्तिबुद्धिश्च शोकशोषादयोऽपिच ॥ १,१६१.
रुग्बस्तिसन्धौ सततं लघ्वल्पभोजनैरपि । जराजीर्णो बलभ्रंशो भवेज्जठररोगिणः ॥ १,१६१.
स्वतन्त्रतन्द्रालसता मलसर्गोऽल्पवह्निता । दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवे ॥ १,१६१.