पित्तलिङ्गोऽसृजा बाह्ये स्त्रीणामेव तथान्तरम् । शस्त्राद्यैरभिघातोत्थरक्तैश्च रोगकारणम् ॥ १,१६०.
क्षतोत्थो वायुना क्षिप्तः स रक्तः पित्तमीरयन् । पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवम् ॥ १,१६०.
तेनोपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः । नाभौ हि ध्मातं चेद्बस्तौ मूत्रकृच्छ्रञ्चजायते ॥ १,१६०.
श्वासप्रश्वासरोधश्च प्लीहायामतितृट्परम् । गलरोधश्च क्लोम्नि स्यात्सर्वाङ्गप्ररुजा हृदि ॥ १,१६०.
प्रमोहस्तमकः कासौ हृदयोद्धट्टनन्तथा । कुक्षिपार्श्वान्तरे चैव कुक्षौ दोषोपजन्म च ॥ १,१६०.
तथा चेदूरुसन्धौ च वङ्क्षणे कटिपृष्ठयोः । पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम् ॥ १,१६०.
आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् । नाभेरूर्ध्वमुखात्पक्वात्प्रद्रवन्त्यपरे गुदात् ॥ १,१६०.
गुदास्तनाभिजे विद्याद्दोषक्लेदोच्चविद्रधौ । कुरुते स्वाधिष्ठानस्य विवर्तं सन्निपातजः ॥ १,१६०.
पक्वो हि नाभिवस्तिस्थो भिन्नोऽन्तर्बहिरेव वा । पाकश्चान्तः प्रवृद्धस्य क्षीणस्योपद्रवार्दितः ॥ १,१६०.
विद्रधिश्च भवेत्तत्र पापानां पापयोषिताम् । मृते तु गर्भगे चैव सम्भवेच्छ्वयथर्घनः ॥ १,१६०.
स्तने समत्थे दुःखं वा बाह्यविद्रधिलक्षणम् । नारीणां सूक्ष्मरक्तत्वात्कन्यायान्तु न जायते ॥ १,१६०.
क्रुद्धो रुद्धगतिर्वायुः शेफमूलकरो?हि सः । मुष्कवङ्क्षणतः प्राप्य फलकोषातिवाहिनीम् ॥ १,१६०.
आपीड्य धमनीवृद्धिं करोति फलकोषयोः । दोषो मेदःसु तत्रास्ते सवृद्धिः सप्तधा गदः ॥ १,१६०.
मूत्रन्तयोरप्यनिलाद्बाह्ये वाभ्यन्तरे तथा । वातपूर्णः खरस्पर्शो रूक्षो वाताच्च दाहकृत् ॥ १,१६०.
पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् । कफात्तीव्रो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ॥ १,१६०.
कृष्णः स्फोटावृतः पिण्डों वृद्धिलिङ्गश्च रक्ततः । कफवन्मेदसां वृद्धिर्मृदुतालफलोपमः ॥ १,१६०.
मूत्रधारणशीलस्य मूत्रजस्तत्र गच्छतः । अलोभः पूर्णधृतिमान्क्षोभं याति सरन्मृदु ॥ १,१६०.
मूत्रकृच्छ्रमधस्ताच्च वलयः फलकोषयोः । वातकोपिभिसहारैः शीततोयावगाहनैः ॥ १,१६०.
विण्मूत्रधारणाच्चैव विषमाङ्गविचेष्टनैः । क्षोभितैः क्षोभितौजाश्च क्षीणान्तर्देहिनो यदा ॥ १,१६०.
पवनो विगुणीभूय शोणितं तदधोनयेत् । कुर्यात्तत्क्षणसन्धिस्थो ग्रन्थ्याभः श्वयथुस्तदा ॥ १,१६०.
उपेक्ष्यमाणस्य च गुल्मवृद्धिमाध्मानरुग्वै विविधाश्च रोगाः । सुपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मूर्ध्नि ॥ १,१६०.
रक्तवृद्धिरसाध्येऽयं वातवृद्धिसमाकृतिः । रूक्षकृष्णारुणशिरा ऊर्णावृतगवाक्षवत् ॥ १,१६०.
वातोऽष्टधा पृथदौषैः संस्पृष्टैर्निचयं गतः । आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः ॥ १,१६०.
ज्वरमूर्छातिसारैश्च वमनाद्यैश्च कर्मभिः । कर्शितो बलवान्याति शीतार्तश्च बुभुक्षितः ॥ १,१६०.
यः पिबत्यन्नपानानि लङ्घनप्लावनादिकम् । सेवते हीनसंज्ञाभिरर्दितः समुदीरयन् ॥ १,१६०.
स्नेहस्वेदावनभ्यस्य शोषणं वा निषेवयेत् । शुद्धो वा सुद्धिहानिर्वा भजेत स्पन्दनानि वा ॥ १,१६०.
वातोल्बणास्तस्य मलाः पृथक्चैव हि तेऽथवा । सर्वो रक्तयुतो वाताद्देहस्नोतोऽनुसारिणः ॥ १,१६०.
ऊर्ध्वाधोमार्गमावृत्य वायुः शूलं करोति वै । स्पर्शोपलभ्यं गुल्मोत्थमुष्णं ग्रन्थिस्वरूपिणम् ॥ १,१६०.
कर्षणात्कफविड्घातैर्मार्गस्यावरणेन वा । वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः ॥ १,१६०.
स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये । ततः पिण्डकवच्छ्लेष्मा मलसंसृष्ट एव च ॥ १,१६०.