मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते । अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् ॥ १,१५९.
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् । इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ॥ १,१५९.
सान्द्री भवेत्पर्युषितं सान्द्रमेहेन मेहति । सुरामेही सुरातुल्यमुपर्यच्छमधोघनम् ॥ १,१५९.
सहृष्टरोमा पिष्टेन पिष्टबद्बहुलं सितम् । शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥ १,१५९.
मूत्रयेत्सिकतामेही सिकतारूपिणो मलान् । शीतमेही सुबहुशो मधुरं भृशशीतलम् ॥ १,१५९.
शनैः शनैः शनैर्मेही मन्दं मन्दंप्रमेहति । लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥ १,१५९.
गन्धवर्णरसस्पर्शेः क्षारेण क्षारतोयवत् । नीलमेहन नीलाभं कालमेही मसीनिभम् ॥ १,१५९.
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु । अन्तोन्नता मध्यनिन्मा अक्लेदसुरुजान्विता ॥ १,१५९.
शरावमानसंस्थाना पिडिका स्याच्छराविका । सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः ॥ १,१५९.
महती पिडिका नीला विनता नाम सा स्मृता । दहति त्वचमुत्थाने ज्वालिनी कष्टदायिनी ॥ १,१५९.
रक्ता सिता स्फोटचिता दारुणा त्वलजी भवेत् । मसूराकृति संस्थाना विज्ञेया तु मसूरिका ॥ १,१५९.
सर्षपोपमसंस्थाना जिह्वापाकमहारुजा । पुत्रिणी महती चाल्पा सुसूक्ष्मा पिडिका स्मृता ॥ १,१५९.
विदारीकन्दवद्वृत्ता कठिना च विदारिका । विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ॥ १,१५९.
पुत्रिणी च विदारी च दुः सहा बहुमेदसः । सद्यः पित्तोल्बणास्त्वन्याः सम्भवन्त्यल्पमेदसः ॥ १,१५९.
पिडिकास्ता भवेयुः स्याद्दोषोद्रेको यथायथम् । प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः ॥ १,१५९.
तावच्च नोपलक्ष्यन्ते यावद्वर्णञ्च वर्जितम् । हारिद्रं रक्तवर्णं वा मेहप्राग्रूपवर्जितम् ॥ १,१५९.
यो मूत्रयेत तन्महें रक्तपित्तन्तु तद्विदुः । स्वेदोऽङ्गगान्धः शिथिलत्वमङ्गे श्य्याशनस्वप्नसुखाभिषङ्गः । हृन्नेत्रजिह्वाश्रवणोपदाहा घनोग्रता केशनखाभिवृद्धिः ॥ १,१५९.
शीतप्रियत्वं गलतालुशोषो माधुर्य मास्ये करपाददाहः । भविष्यतो मेहगणस्य रूपं मूत्रेऽपि धावन्ति पिपीलिकाश्च ॥ १,१५९.
तृष्णा प्रमेहे मधुरं प्रपिच्छं मध्वामये स्याद्विविधोविकारः । सम्पूरणाद्वा कफसम्भवः स्यात्क्षीणेषु दोषेष्वनिलात्मको वा ॥ १,१५९.
सम्पूर्णरूपाः कफपित्तमेहाः क्रमेण ये वै रतिसम्भवाश्च । सक्रामते पित्तकृतास्तु याप्याः साध्योऽस्ति मेहो यदि नास्ति दिष्टम् ॥ १,१५९.
श्रीगरुडमहापुराणम् १६० धन्वन्तरिरुवाच । निदानं विद्रधेर्वक्ष्ये गुल्मस्य शृणु शुश्रुत ! । भुक्तैः पर्युषितात्युष्णशुष्करूक्षविदाहिभिः ॥ १,१६०.
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः । दुष्टसत्वङ्मांसमेदोऽस्थिमदामृष्टोदराश्रयः ॥ १,१६०.
यः शोथो बहिरन्तश्च महाशूलो महारुजः । वृत्तः स्यादायतो यो वा स्मृतो रोगः स विद्रधिः ॥ १,१६०.
दोषैः पृथक्समुदितैः शोणितेन स्त्रतेन च । वहते तत्र तत्राङ्गे दारुणे ग्रथितोऽस्त्रुतः ॥ १,१६०.
अन्तरा दारुणश्चैव गम्भीरो गुल्मवर्धनः । वल्मीकवत्समुत्स्त्रावी ह्यग्निमान्द्यञ्च जायते ॥ १,१६०.
नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणि । हृदये वेपमाने तु तत्रतत्रातितीव्ररुक् ॥ १,१६०.
श्यामारुणशिरोत्थानपाको विषमसंस्थितिः । संज्ञाच्छेदभ्रमानाहस्यन्दसर्पणशब्दवान् ॥ १,१६०.
रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान् । क्षिप्तोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात् ॥ १,१६०.
संक्लेशशीतकस्तम्भजृम्भारोचकगौरवाः । चिरोत्थानोऽविपाकश्च संकीर्णः सन्निपातजः ॥ १,१६०.
सामर्थ्याच्चात्र विड्भेदो बाह्याभ्यन्तरलक्षणम् । कृष्णस्फोटावृतश्यामस्तीव्रदाहरुजाज्वरः ॥ १,१६०.