शुष्कं समस्तवर्णं वा मूत्रसादं वदन्तितम् । इति विस्तारतः प्रोक्ता रोगा मूत्रप्रवर्तिताः ॥ १,१५८.
श्रीगरुडमहापुराणम् १५९ धन्वन्वरिरुवाच । प्रमेहाणां निदानन्ते वक्ष्येऽहं शृणु सुश्रुत ! । प्रमेहा विंशतिस्तत्र श्लेष्मणो दश पित्ततः ॥ १,१५९.
षट्चत्वारोऽनिलात्तेच मेदोमत्रकफावहाः । हारिद्रमेही कटुकं हरिद्रासन्निभं शकृत् ॥ १,१५९.
विस्त्रं माञ्जिष्ठमेहेच मञ्जिष्ठा सलिलोपमम् । विस्त्रमुष्णं सलवणं रक्ताभ रक्तमेहतः ॥ १,१५९.
वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः । मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ॥ १,१५९.
हस्ती मत्त इवाजस्त्रं मूत्रं वेगविवर्जितम् । सलसीकं विवद्धं च हस्तिमेही प्रमेहति ॥ १,१५९.
मधुमेही मधुसमं जायते स किल द्विधा । क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथे यदा ॥ १,१५९.
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत् । क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाघ्यताम् ॥ १,१५९.
कालेनोपेक्षितः सर्वोह्यायाति मधुमेहताम् । मधुरं यच्च मेहेषु प्रायो मध्विव मेहति ॥ १,१५९.
सर्वे ते मधुमेहाख्या माधुर्याच्च तनोर्यतः । अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः ॥ १,१५९.
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् । बस्तिमेहनयोस्तोदोमुष्कावदरणं ज्वरः ॥ १,१५९.
दाहस्तृष्णाम्लिका मूर्छा विड्भेदः पित्तजन्मनाम् । वातजानामुदावर्तः कम्पहृद्गहलोलताः ॥ १,१५९.
शूलमुन्निद्राता शोषः श्वासः कासञ्च जायते । शराविका कच्छपिका ज्वालिनी विनतालजी ॥ १,१५९.
मसूरिका सर्षपिका पुत्रिणी सविदारिका । विद्रधिश्चेति पिडिकाः प्रमेहोपेक्षया दश ॥ १,१५९.
अन्नस्य कफसंश्लेषात्प्रायस्तत्र प्रवर्तनम् । स्वाद्वम्ललवणस्निग्धगुरुपिच्छिलशीतम् ॥ १,१५९.
नवं धान्यं सुरासूपमांसेक्षुगुडगोरसम् । एकस्थानासनवति शयनं विनिवर्तनम् ॥ १,१५९.
बस्तिमाश्रित्य कुरुते प्रमेहाद्दूषितः कफः । दूषयित्वा वपुः क्लेदं स्वेदमेदोवसामिषम् ॥ १,१५९.
पित्तं रक्तमतिक्षीणे कफादौ मूत्रसंश्रयम् । धातुं बस्तिमुपानीय तत्क्षयेच्चैव मारुतः ॥ १,१५९.
साध्यासाध्यप्रतीत्याद्याः मेहास्तेनैव तद्भवाः । समे समकृता दोषे परमत्वात्तथापि च ॥ १,१५९.
सामान्य लक्षणन्तेषां प्रभूताविलमूत्रता । दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः ॥ १,१५९.
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते । अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् ॥ १,१५९.
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् । इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ॥ १,१५९.
सान्द्री भवेत्पर्युषितं सान्द्रमेहेन मेहति । सुरामेही सुरातुल्यमुपर्यच्छमधोघनम् ॥ १,१५९.
सहृष्टरोमा पिष्टेन पिष्टबद्बहुलं सितम् । शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥ १,१५९.
मूत्रयेत्सिकतामेही सिकतारूपिणो मलान् । शीतमेही सुबहुशो मधुरं भृशशीतलम् ॥ १,१५९.
शनैः शनैः शनैर्मेही मन्दं मन्दंप्रमेहति । लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥ १,१५९.
गन्धवर्णरसस्पर्शेः क्षारेण क्षारतोयवत् । नीलमेहन नीलाभं कालमेही मसीनिभम् ॥ १,१५९.
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु । अन्तोन्नता मध्यनिन्मा अक्लेदसुरुजान्विता ॥ १,१५९.
शरावमानसंस्थाना पिडिका स्याच्छराविका । सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः ॥ १,१५९.
महती पिडिका नीला विनता नाम सा स्मृता । दहति त्वचमुत्थाने ज्वालिनी कष्टदायिनी ॥ १,१५९.