आक्षिप्तमल्पमूत्रस्य वस्तौ नाभौ च वा मले । स्थित्वा प्लवेच्छनैः पश्चात्सरुजं वाथवारुजम् ॥ १,१५८.
मूत्रोत्सर्गं सविच्छिन्नं तच्छ्रेयो गुरुशेफसोः । अन्तर्वस्ति मुखे तृष्णा स्थिराल्पं सहसा भवेत् ॥ १,१५८.
अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते । मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम् ॥ १,१५८.
स्थानाच्च्युतं मूत्रयतः प्राक्पश्चाद्वा प्रवर्तते । भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥ १,१५८.
रूक्षदुर्बलयोर्वातेनोदावर्तं शकृद्यदा । मूत्रस्रोतोऽनुपर्येति संसृष्टं शकृता तदा ॥ १,१५८.
मूत्रबिन्दुं तुल्यगन्धं स्याद्विघातं तमादिशेत् । पित्तव्यायामतीक्ष्णाम्लभोजनाध्मानकादिभिः ॥ १,१५८.
प्रवृद्धवायुना मूत्रे वस्तिस्थे चैव दाहकृत् । मूत्रं वर्तयते पूर्वं सरक्तं रक्तमेव वा ॥ १,१५८.
उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम् । रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ ॥ १,१५८.
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् । पित्तं कफो द्वादपि वा संहन्येतेनिलेनचेत् ॥ १,१५८.
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् । सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत् ॥ १,१५८.
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्तितम् । इति विस्तारतः प्रोक्ता रोगा मूत्रप्रवर्तिताः ॥ १,१५८.
श्रीगरुडमहापुराणम् १५९ धन्वन्वरिरुवाच । प्रमेहाणां निदानन्ते वक्ष्येऽहं शृणु सुश्रुत ! । प्रमेहा विंशतिस्तत्र श्लेष्मणो दश पित्ततः ॥ १,१५९.
षट्चत्वारोऽनिलात्तेच मेदोमत्रकफावहाः । हारिद्रमेही कटुकं हरिद्रासन्निभं शकृत् ॥ १,१५९.
विस्त्रं माञ्जिष्ठमेहेच मञ्जिष्ठा सलिलोपमम् । विस्त्रमुष्णं सलवणं रक्ताभ रक्तमेहतः ॥ १,१५९.
वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः । मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ॥ १,१५९.
हस्ती मत्त इवाजस्त्रं मूत्रं वेगविवर्जितम् । सलसीकं विवद्धं च हस्तिमेही प्रमेहति ॥ १,१५९.
मधुमेही मधुसमं जायते स किल द्विधा । क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथे यदा ॥ १,१५९.
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत् । क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाघ्यताम् ॥ १,१५९.
कालेनोपेक्षितः सर्वोह्यायाति मधुमेहताम् । मधुरं यच्च मेहेषु प्रायो मध्विव मेहति ॥ १,१५९.
सर्वे ते मधुमेहाख्या माधुर्याच्च तनोर्यतः । अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः ॥ १,१५९.
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् । बस्तिमेहनयोस्तोदोमुष्कावदरणं ज्वरः ॥ १,१५९.
दाहस्तृष्णाम्लिका मूर्छा विड्भेदः पित्तजन्मनाम् । वातजानामुदावर्तः कम्पहृद्गहलोलताः ॥ १,१५९.
शूलमुन्निद्राता शोषः श्वासः कासञ्च जायते । शराविका कच्छपिका ज्वालिनी विनतालजी ॥ १,१५९.
मसूरिका सर्षपिका पुत्रिणी सविदारिका । विद्रधिश्चेति पिडिकाः प्रमेहोपेक्षया दश ॥ १,१५९.
अन्नस्य कफसंश्लेषात्प्रायस्तत्र प्रवर्तनम् । स्वाद्वम्ललवणस्निग्धगुरुपिच्छिलशीतम् ॥ १,१५९.
नवं धान्यं सुरासूपमांसेक्षुगुडगोरसम् । एकस्थानासनवति शयनं विनिवर्तनम् ॥ १,१५९.
बस्तिमाश्रित्य कुरुते प्रमेहाद्दूषितः कफः । दूषयित्वा वपुः क्लेदं स्वेदमेदोवसामिषम् ॥ १,१५९.
पित्तं रक्तमतिक्षीणे कफादौ मूत्रसंश्रयम् । धातुं बस्तिमुपानीय तत्क्षयेच्चैव मारुतः ॥ १,१५९.
साध्यासाध्यप्रतीत्याद्याः मेहास्तेनैव तद्भवाः । समे समकृता दोषे परमत्वात्तथापि च ॥ १,१५९.
सामान्य लक्षणन्तेषां प्रभूताविलमूत्रता । दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः ॥ १,१५९.