वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दरम् । अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥ १,१५७.
श्रीगरुडमहापुराणम् १५८ धन्वन्तरिरुवाच । अथातो मूत्रघातस्य निदानं शृणु सुश्रुत । बस्तिबस्तिशिरोमेढ्रकटीवृषणपायु च ॥ १,१५८.
एकसंवहनाः प्रोक्ता गुदास्थिविवराश्रयाः । अधोमुखोऽपि बस्तिर्हि मूत्रवाहिशिरामुखैः ॥ १,१५८.
पार्श्वेभ्यः पूर्यते श्लक्ष्णै (सूक्ष्मैः) स्यन्दमानैरनारतम् । तैस्तैरेव प्रविश्यैवन्दोषान्कुवन्ति विंशतिम् ॥ १,१५८.
मूत्राघातः प्रमेहश्च कृच्छ्रान्मर्म समाश्रयेत् । बस्तिवङ्क्षणमेढ्रार्तियुक्तोल्पाल्पं मुहुर्मुहुः ॥ १,१५८.
मूत्राण्यावातजे कृच्छ्रपीत्ते पीतं सदाहरुक् । रक्तं वा कफजो बस्तिमेढ्रगौरवशोथवान् ॥ १,१५८.
सपिच्छं सनिरुद्धं च सर्वैः सर्वात्मकं मलैः । यदा वायुर्मुखं बस्तेर्व्यावर्त्य पारिशोषयन् ॥ १,१५८.
मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् । संजायतेऽश्मरी घोरा पित्तं गोरिव रोचना ॥ १,१५८.
श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम् । बस्त्याध्मानं तदासन्नदेशोहि परितोऽतिरुक् ॥ १,१५८.
बस्तौ च मूत्रसङ्गित्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः । सामान्यलिङ्गं रुङ्नाभिसीवनीबस्तिमूर्धसु ॥ १,१५८.
विस्तीर्णवा सं मूत्रं स्यात्तथा मार्गनिरोधने । बद्धं बद्ध्वा सुखं मेहेदच्छं गोमेदकोपमम् ॥ १,१५८.
तत्संक्षोभाद्भवेत्सासृङ्मांसमध्वनि रुग्भवेत् । तत्र बाताभिसृत्यार्तोदन्तान् खादति वेपते ॥ १,१५८.
गृह्णाति मेहनं नाभिं पीडयत्यतिलक्षणम् । सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ॥ १,१५८.
श्यामरूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव । पित्तेन दह्यते बस्तिः पच्यमान इवोष्णवान् ॥ १,१५८.
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरा । बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ॥ १,१५८.
अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता । एता भवन्ति बालनां तेषामेव च भूयसाम् ॥ १,१५८.
आशयोपचयाल्पत्वाद्गहणाहरणे सुखी । सुक्राश्मरी तु महती जायते शुक्रधारणात् ॥ १,१५८.
स्थानच्युतमभुक्तं वा अण्डयोरन्तरेऽनिलः । शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी ॥ १,१५८.
बस्तिरुक्कृच्छ्रमूत्रत्वं शुक्ला श्वयथुकारिणी । तस्यामुत्पन्नमात्रायां शुष्कमेत्य विलीयते ॥ १,१५८.
पीडिते ज्वरकासेऽस्मिन्नश्मर्येव च शर्करा । असौ वा वायुना भिन्ना सा त्वस्मिन्नमुलोमगे ॥ १,१५८.
निरेति सह मूत्रेण प्रतिलोमे विपच्यते । मूत्रसंधारणं कुर्यात्क्रुद्धो बस्तेर्मुखे मरुत् ॥ १,१५८.
मूत्रसङ्गं रुजं कण्डूं कदाचिच्च सुवामतः । प्रच्छाद्य बस्तिमुद्धृत्य गर्मान्तं स्थूलविप्लुताम् ॥ १,१५८.
करोति तत्र रुग्दाहं स्पन्दनोद्वेष्टनानि च । बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडिते ॥ १,१५८.
धारावरोधश्चाप्येष वातबस्तिरिति स्मृतः । दुस्तरो दुस्तरतरो द्वितीयः प्रबलोऽनिलः ॥ १,१५८.
शकृप्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः । अष्ठीलाभं घनं ग्रन्थिं करोत्यच (ब) लमुन्नतम् ॥ १,१५८.
वाताष्ठीलेति सात्मानं विष्णूत्रानिल (ति) सर्गकृत् । विगुणः कुण्डलीभूतो बस्तौ तीव्रव्यथोनिलः ॥ १,१५८.
आबध्य मूत्रं भ्रमति संस्तम्भोद्वेष्टगौरवम् । मूत्रमल्पाल्पमथवा विमुञ्चति सकृत्सकृत् ॥ १,१५८.
वातकुण्डलिकेत्येव मूत्रं तु विधृतेऽचिरम् । न निरेति निरुद्धं वा मूत्रातीतं तदल्परुक् ॥ १,१५८.
विधारणात्प्रतिहतं वातादावर्तितं यदा । नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा ॥ १,१५८.
कुर्यात्तीव्ररुगाध्मानमशक्तिं मलसंग्रहम् । तन्मूत्रं जाठरच्छिद्रवैगुण्येनानिलेन वा ॥ १,१५८.