आब (न) द्धोदरता छर्दिः कर्णकेऽप्यनुकूजकम् । सामान्यलक्षणं कार्श्यं वमक स्तमको ज्वरः ॥ १,१५७.
मूर्छा शिरोरुविष्टम्भः श्वयथुः करपादयोः । तन्द्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः ॥ १,१५७.
पार्श्वोरुवङ्क्षणग्रीवारुजा तीक्ष्णविषूचिका । रुग्णेषु वृद्धिः सर्वषु क्षुत्तृष्णापरिहर्त्रिका ॥ १,१५७.
जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते । वाताद्धृद्रोगगुल्मार्शःप्लीहपाण्डुरशङ्किताः ॥ १,१५७.
चिराद्दुः खं द्रवं शुष्कं तुन्दारं शब्दफेनवत् । पुनः पुनः सृजेद्वर्चं पायुरुच्छ्वासकासवान् ॥ १,१५७.
पीतेन पीतनीलाभं पीताभं सृजति द्रवम् । पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ॥ १,१५७.
श्लेष्मणा पच्यते दुःखे मनश्छर्दिररोचकः । आस्योपदाहनिष्ठीवकासहृल्लासपीनसाः ॥ १,१५७.
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु । उद्गारो दुष्टमधुरः सदनं सप्रहर्षणम् ॥ १,१५७.
सम्भिन्नश्लेष्मसंश्लिष्टगुरुचाम्लैः (वर्चः) प्रवर्तचम् । अकृशस्यापि दौर्बल्यं सर्वजे सर्वदर्शनम् ॥ १,१५७.
विभागेऽङ्गस्य ये प्रोक्ता पिपासाद्यास्त्रयो मलाः । तेऽप्यस्य ग्रहणीदोषाः समन्तेष्वस्ति कारणम् ॥ १,१५७.
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दरम् । अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥ १,१५७.
श्रीगरुडमहापुराणम् १५८ धन्वन्तरिरुवाच । अथातो मूत्रघातस्य निदानं शृणु सुश्रुत । बस्तिबस्तिशिरोमेढ्रकटीवृषणपायु च ॥ १,१५८.
एकसंवहनाः प्रोक्ता गुदास्थिविवराश्रयाः । अधोमुखोऽपि बस्तिर्हि मूत्रवाहिशिरामुखैः ॥ १,१५८.
पार्श्वेभ्यः पूर्यते श्लक्ष्णै (सूक्ष्मैः) स्यन्दमानैरनारतम् । तैस्तैरेव प्रविश्यैवन्दोषान्कुवन्ति विंशतिम् ॥ १,१५८.
मूत्राघातः प्रमेहश्च कृच्छ्रान्मर्म समाश्रयेत् । बस्तिवङ्क्षणमेढ्रार्तियुक्तोल्पाल्पं मुहुर्मुहुः ॥ १,१५८.
मूत्राण्यावातजे कृच्छ्रपीत्ते पीतं सदाहरुक् । रक्तं वा कफजो बस्तिमेढ्रगौरवशोथवान् ॥ १,१५८.
सपिच्छं सनिरुद्धं च सर्वैः सर्वात्मकं मलैः । यदा वायुर्मुखं बस्तेर्व्यावर्त्य पारिशोषयन् ॥ १,१५८.
मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् । संजायतेऽश्मरी घोरा पित्तं गोरिव रोचना ॥ १,१५८.
श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम् । बस्त्याध्मानं तदासन्नदेशोहि परितोऽतिरुक् ॥ १,१५८.
बस्तौ च मूत्रसङ्गित्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः । सामान्यलिङ्गं रुङ्नाभिसीवनीबस्तिमूर्धसु ॥ १,१५८.
विस्तीर्णवा सं मूत्रं स्यात्तथा मार्गनिरोधने । बद्धं बद्ध्वा सुखं मेहेदच्छं गोमेदकोपमम् ॥ १,१५८.
तत्संक्षोभाद्भवेत्सासृङ्मांसमध्वनि रुग्भवेत् । तत्र बाताभिसृत्यार्तोदन्तान् खादति वेपते ॥ १,१५८.
गृह्णाति मेहनं नाभिं पीडयत्यतिलक्षणम् । सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ॥ १,१५८.
श्यामरूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव । पित्तेन दह्यते बस्तिः पच्यमान इवोष्णवान् ॥ १,१५८.
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरा । बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ॥ १,१५८.
अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता । एता भवन्ति बालनां तेषामेव च भूयसाम् ॥ १,१५८.
आशयोपचयाल्पत्वाद्गहणाहरणे सुखी । सुक्राश्मरी तु महती जायते शुक्रधारणात् ॥ १,१५८.
स्थानच्युतमभुक्तं वा अण्डयोरन्तरेऽनिलः । शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी ॥ १,१५८.
बस्तिरुक्कृच्छ्रमूत्रत्वं शुक्ला श्वयथुकारिणी । तस्यामुत्पन्नमात्रायां शुष्कमेत्य विलीयते ॥ १,१५८.
पीडिते ज्वरकासेऽस्मिन्नश्मर्येव च शर्करा । असौ वा वायुना भिन्ना सा त्वस्मिन्नमुलोमगे ॥ १,१५८.