मोहकर्त्ता च दुष्टानां माण्डव्यो वडवामुखः 15.
अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च । याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ 15.
शर्म्मदश्चैव गांगेयो हृषीकेशो बृहच्छ्रवाः 15.
नारायणो महाभागः प्राणस्य पतिरेव च 15.
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा 15.
रूपाणां च पतिश्चाद्यः खङ्गपाणिर्हलायुधः 15.
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा 15.
अनन्तोऽनन्तरूपश्च सुनखः सुरसुन्दरः 15.
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः 15.
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः 15.
अरिष्टस्य निहंता च अक्रूरप्रिय एव च 15.
भगहा भगवान् भानुस्तथा भागवतः स्वयम् 15.
चक्रधृक् चञ्चलश्चैव चलाचलविवर्जितः 15.
वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च 15.
शंकरश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः 15.
भक्तस्तुतो भक्तपरः कीर्त्तिदः कीर्त्तिवर्द्धनः 15.
दानं दाता च कर्त्ता च देवदेवप्रियः शुचिः 15.
सहस्त्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च 15.
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा 15.
मत्स्यः परशुरामश्च प्रह्रादो बलिरेवच 15.
खरदूषणहन्ता च रावणस्य प्रमर्दनः 15.
कुम्भेंद्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः 15.
दुष्टासुरनिहंता च शम्बरारिस्तथैव च 15.
यमलार्जनभेत्ता च तपोहितकरस्तथा 15.
सारः सारप्रियः सौरः कालहन्तानिकृन्तनः 15.
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् 15.
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः 15.
हस्तेंद्रियविहीनश्च पादाभ्यां च विवर्जितः 15.
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः 15.
अपानेन विहीनश्च व्यानेन च विवर्जितः 15.