पुरीषं वातविष्णूत्रसंगं कुर्वीत दारुणम्? । तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत् ॥ १,१५६.
आध्मानमुदरे विष्ठा हृल्लासपरिकर्तने । बस्तौ च सुतरां शूलो गण्डश्वयथुसंभवः ॥ १,१५६.
पवनस्योर्ध्वगामित्वात्ततश्छर्द्यरुचिज्वराः । हृद्रोगग्रहणीदोषमूत्रसंगप्रवाहिकाः ॥ १,१५६.
बाधिर्यातिशिरः श्वासशिरोरुक्काशपीनसाः? । मनोविकारस्तृट्श्वासपित्तगुल्मोदरादयः ॥ १,१५६.
एते च वातजा रोगा जायन्ते भृशदारुणाः । दुर्नामामृत्यूदावर्तपरमोऽयमुपद्रवः ॥ १,१५६.
वाताभिभूतकोष्ठानां तैर्विनापि विजायते । सहजानि तु दोषाणि यानि चाभ्यन्तरे वलौ ॥ १,१५६.
स्थितानि तान्यसाध्यानि याप्यन्तेऽग्निबलादिभिः । द्वन्द्वजानि द्वितीयायां वला यान्याश्रितानि च ॥ १,१५६.
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च । बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च ॥ १,१५६.
अर्शांसि सुखसाध्यानि न चिरोत्पत्तिकानि च । मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु ॥ १,१५६.
गण्डूपदस्य रूपाणि पिच्छिलानि मृदूनि च । व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः ॥ १,१५६.
कीलोपमं स्थिरखरं चर्मकीलं च तद्विदुः । वातेन तोदः पारुष्यं पित्तादसितवक्त्रता ॥ १,१५६.
श्लेष्मणः स्निग्धता तस्य ग्रथितत्वं सवर्णता । अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान् । तान्याशु हि गदन्धा (कार्) य्य कुर्युर्बद्धगुदोदरम् ॥ १,१५६.
श्रीगरुडमहापुराणम् १५७ धन्वन्तरिरुवाच । अतीसारग्रहण्योश्च निदानं वच्मि सुश्रुत । दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः ॥ १,१५७.
अतीसारः स सुतरां जायतेऽत्यम्बुपानतः । विशुष्कान्नवसास्नेहतिलपिष्टविरूढकैः ॥ १,१५७.
मद्यरूक्षातिमात्रादिरसातिस्नेहविभ्रमात् । कृमिघोषविरोधाच्च तद्विधेः कुपितानिलः ॥ १,१५७.
विस्त्रंसयत्यधोवातं हत्वा तेनैव चानलम् । व्यापार्यान्नशकृत्कोष्ठपुरीषद्रवतादयः ॥ १,१५७.
प्रकल्पतेऽतीसारस्य लक्षणं तस्य भाविनः । भेदो हृद्गुदकोष्ठेषु गात्रस्वेदो मलग्रहः ॥ १,१५७.
आध्मानमविपाकश्च तत्र वातेन विज्वरम् । अल्पाल्पं शब्दशून्याढ्यं विरु (ब)द्धमुपवेश्यते ॥ १,१५७.
रूक्षं सफेनमच्छं च गृहीतं व मुहुर्मुहुः । तथादग्धगदाभासं पिच्छिलं परिकर्तयन् ॥ १,१५७.
सशुष्कभ्रष्टपायुश्च हृष्टरोमा विनिश्वसन् । पित्तेन पीतमशितं हारिद्रं शाद्वलप्रभम् ॥ १,१५७.
सरक्तमतिदुर्गन्धं तृण्मूर्छास्वेददाहवान् । सशूलपायुसन्तापपाकवाञ्छ्लेष्मणा घनम् ॥ १,१५७.
पिच्छिलं तत्रानुसारमल्पाल्पं सप्रवाहिकम् । सरोमहर्पः सेक्लेशो गुरुबस्तिगुदोदरः ॥ १,१५७.
कृतेऽप्यकृतसङ्गश्च सर्वात्मा सर्वलक्षणः । भयेन क्षुभिते चित्ते शायिते द्रावयेत्स (च्छ) कृत् ॥ १,१५७.
वायुस्ततो निवार्येत क्षिप्रमुष्णं द्रवं प्लवम् । वातपित्ते समं लिङ्गमाहुस्तद्वच्च शोकतः ॥ १,१५७.
अतीसारः समासेन द्वेधा सामो निरामकः । सासृग्जातं रसद्रोगो गौरवादप्सु मुञ्चति? । शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः ॥ १,१५७.
विपरीतो निरामस्तु कफात्कोऽपि न मज्जति । अतीसारेषु यो नाति यत्नवान् ग्रहणीगदः ॥ १,१५७.
तस्य स्यादग्निनिर्वाणकार्यैरत्यर्थसञ्चितैः । सामं शकृन्निरामं वा जीर्णं येनातिसार्यते ॥ १,१५७.
सोऽतिसारोऽतिसरणा दाशुकारीः स्वभावतः । सामंशीर्णमजीर्णेन जीर्णे पक्वं तु नैव च ॥ १,१५७.
चिरकृद्ग्रहणीदोषः सञ्चयांश्चोपवेशयेत् । अकस्माद्वारसुर्वेधमकस्मात्सन्धिनीमुहुः? । स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते ॥ १,१५७.
प्राग्रूपाङ्गस्य सदनं चिरात्पवन अल्पकः । प्रसेको वक्त्रवैरस्यमरुचिस्तृट्श्रमोभ्रमः ॥ १,१५७.