श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः । उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः ॥ १,१५६.
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः । करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ॥ १,१५६.
वङ्क्षणानाहिनः पुयुबस्तिनाभिविकर्तनाः । सकाशश्वासहृल्लासप्रसेकारुचिपीनसाः ॥ १,१५६.
महकृच्छ्रशिरोजाड्यशिशिरक्षारकारिणः । क्लैब्याग्निमार्दवच्छर्द्यतीसारादिविकारदाः ॥ १,१५६.
वसाभसकफप्राज्यपुरीषासृक्प्रवाहिकाः । न स्त्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ॥ १,१५६.
संसृष्टलिङ्गत्संसर्गनिचयात्सर्वलक्षणाः । रक्तोल्बणा गुदे कीलाः पीताकृतिसमन्विताः ॥ १,१५६.
वटप्रसेहसदृशाः गुञ्जाविद्रुमसन्निभाः । तेऽत्यर्थं दुष्टमुष्णं च गाढविष्टंभपीडिताः ॥ १,१५६.
स्त्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः । केकाभः पीड्यते दुः खैः शोणितक्षयसम्भवैः ॥ १,१५६.
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः । मुद्गकोद्रवजंबीरकरीरचणकादिभिः ॥ १,१५६.
रूक्षैः संग्राहिभिर्वायुर्विट्स्थाने कुपितो बली । अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन् ॥ १,१५६.
पुरीषं वातविष्णूत्रसंगं कुर्वीत दारुणम्? । तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत् ॥ १,१५६.
आध्मानमुदरे विष्ठा हृल्लासपरिकर्तने । बस्तौ च सुतरां शूलो गण्डश्वयथुसंभवः ॥ १,१५६.
पवनस्योर्ध्वगामित्वात्ततश्छर्द्यरुचिज्वराः । हृद्रोगग्रहणीदोषमूत्रसंगप्रवाहिकाः ॥ १,१५६.
बाधिर्यातिशिरः श्वासशिरोरुक्काशपीनसाः? । मनोविकारस्तृट्श्वासपित्तगुल्मोदरादयः ॥ १,१५६.
एते च वातजा रोगा जायन्ते भृशदारुणाः । दुर्नामामृत्यूदावर्तपरमोऽयमुपद्रवः ॥ १,१५६.
वाताभिभूतकोष्ठानां तैर्विनापि विजायते । सहजानि तु दोषाणि यानि चाभ्यन्तरे वलौ ॥ १,१५६.
स्थितानि तान्यसाध्यानि याप्यन्तेऽग्निबलादिभिः । द्वन्द्वजानि द्वितीयायां वला यान्याश्रितानि च ॥ १,१५६.
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च । बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च ॥ १,१५६.
अर्शांसि सुखसाध्यानि न चिरोत्पत्तिकानि च । मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु ॥ १,१५६.
गण्डूपदस्य रूपाणि पिच्छिलानि मृदूनि च । व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः ॥ १,१५६.
कीलोपमं स्थिरखरं चर्मकीलं च तद्विदुः । वातेन तोदः पारुष्यं पित्तादसितवक्त्रता ॥ १,१५६.
श्लेष्मणः स्निग्धता तस्य ग्रथितत्वं सवर्णता । अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान् । तान्याशु हि गदन्धा (कार्) य्य कुर्युर्बद्धगुदोदरम् ॥ १,१५६.
श्रीगरुडमहापुराणम् १५७ धन्वन्तरिरुवाच । अतीसारग्रहण्योश्च निदानं वच्मि सुश्रुत । दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः ॥ १,१५७.
अतीसारः स सुतरां जायतेऽत्यम्बुपानतः । विशुष्कान्नवसास्नेहतिलपिष्टविरूढकैः ॥ १,१५७.
मद्यरूक्षातिमात्रादिरसातिस्नेहविभ्रमात् । कृमिघोषविरोधाच्च तद्विधेः कुपितानिलः ॥ १,१५७.
विस्त्रंसयत्यधोवातं हत्वा तेनैव चानलम् । व्यापार्यान्नशकृत्कोष्ठपुरीषद्रवतादयः ॥ १,१५७.
प्रकल्पतेऽतीसारस्य लक्षणं तस्य भाविनः । भेदो हृद्गुदकोष्ठेषु गात्रस्वेदो मलग्रहः ॥ १,१५७.
आध्मानमविपाकश्च तत्र वातेन विज्वरम् । अल्पाल्पं शब्दशून्याढ्यं विरु (ब)द्धमुपवेश्यते ॥ १,१५७.
रूक्षं सफेनमच्छं च गृहीतं व मुहुर्मुहुः । तथादग्धगदाभासं पिच्छिलं परिकर्तयन् ॥ १,१५७.
सशुष्कभ्रष्टपायुश्च हृष्टरोमा विनिश्वसन् । पित्तेन पीतमशितं हारिद्रं शाद्वलप्रभम् ॥ १,१५७.