सरक्तः परिकृन्तंश्च कृच्छ्रादाकुञ्चति श्वसन् । अन्त्रकूजनमाटोपः क्षारितोद्गारभूरिता ॥ १,१५६.
प्रभूतमूत्रमल्पा विडश्रद्धा धूम्रकोष्ठकः । शिरः पृष्ठोरसां शूलमालस्यं भिन्नवर्चसम् ॥ १,१५६.
इन्द्रियार्थेषु लौल्यं च क्रोधो दुः खोपचारतः । आशङ्का ग्रहणी शोथः पाण्डुगुल्मोदरेषु च ॥ १,१५६.
एतान्येव विवर्धन्ते जातेष्वहतनामसु । निवर्तमानो मानो हि तैरधोमार्गरोधतः ॥ १,१५६.
क्षोभयेदनिलानन्यान् सर्वेन्द्रियशरीगान् । तथा मूत्रशकृत्पित्तकफान्वायुश्च शोषयन् ॥ १,१५६.
मुष्णात्यग्निं ततः सर्वे भवन्ति प्रायशोर्ऽशसः । कृशो भृशं हतोत्साहो दीनः क्षामोऽथ निष्प्रभः ॥ १,१५६.
असारी विगतच्छायो जन्तुदग्ध इवद्रुम । कृच्छ्रैरुग्रद्रवैर्ग्रस्तो यक्ष्मोक्तैर्मर्मपीडनैः ॥ १,१५६.
तथा काशपिपासास्यवैरस्यश्वासपीनसैः । क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः ॥ १,१५६.
क्लैब्यबाधिर्यस्तैमित्यशर्करापरिपीडितः । क्षामो भिन्नस्वरो ध्यायन्मुहुः ष्ठीवन्नरोचकी ॥ १,१५६.
सर्वपर्वास्थिहृन्नाभीपायुवङ्क्षणशूलवान् । गुदेनस्त्रवता पित्तं बलाकोदरसन्निभम् ॥ १,१५६.
विशुष्कं चैव मुक्ताग्रं पक्वामं चान्तरान्तरम् । पाण्डुपित्तं हरिद्राक्तं पिच्छिलं चोपवेश्यते ॥ १,१५६.
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः । पीनाङ्गारारुणाः स्तब्धा विषमाः परुषाकराः ॥ १,१५६.
मिथो विसदृश वक्रास्तीक्ष्णा विस्फुटि(रि) ताननाः । शिम्बीखर्जृरकर्कन्धूकार्पासफलसन्निभाः ॥ १,१५६.
केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः । शिरः पार्श्वांसजङ्घोरुवङ्क्षणाद्यधिकव्यथाः ॥ १,१५६.
क्षवथूद्गारविष्टम्भहृद्गहारोचकप्रदाः । कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ॥ १,१५६.
तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम् । रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते ॥ १,१५६.
कृष्णत्वग्बद्धविण्मूत्रनेत्रवक्त्रश्च जायते । गुल्मप्लीहोदराष्ठीलासंभवस्तस्य चैव हि ॥ १,१५६.
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः । तन्वग्रस्त्राविणो विश्रास्तनवो मृदवः श्लथाः ॥ १,१५६.
शुकजिह्वा यकृत्खण्डजलौकावक्त्रसन्निभाः । दाहशो (ष) कज्वरस्वेदतृण्मूर्छारुचिमोहदाः ॥ १,१५६.
सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः । यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः ॥ १,१५६.
श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः । उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः ॥ १,१५६.
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः । करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ॥ १,१५६.
वङ्क्षणानाहिनः पुयुबस्तिनाभिविकर्तनाः । सकाशश्वासहृल्लासप्रसेकारुचिपीनसाः ॥ १,१५६.
महकृच्छ्रशिरोजाड्यशिशिरक्षारकारिणः । क्लैब्याग्निमार्दवच्छर्द्यतीसारादिविकारदाः ॥ १,१५६.
वसाभसकफप्राज्यपुरीषासृक्प्रवाहिकाः । न स्त्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ॥ १,१५६.
संसृष्टलिङ्गत्संसर्गनिचयात्सर्वलक्षणाः । रक्तोल्बणा गुदे कीलाः पीताकृतिसमन्विताः ॥ १,१५६.
वटप्रसेहसदृशाः गुञ्जाविद्रुमसन्निभाः । तेऽत्यर्थं दुष्टमुष्णं च गाढविष्टंभपीडिताः ॥ १,१५६.
स्त्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः । केकाभः पीड्यते दुः खैः शोणितक्षयसम्भवैः ॥ १,१५६.
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः । मुद्गकोद्रवजंबीरकरीरचणकादिभिः ॥ १,१५६.
रूक्षैः संग्राहिभिर्वायुर्विट्स्थाने कुपितो बली । अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन् ॥ १,१५६.