अगाधे ग्राहबहुले सलिलौघ इवार्णवे । संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत् ॥ १,१५५.
मदमानरोषतोष प्रवृत्तिभिरितस्ततः । युक्तायुक्तं च समं युक्तिं युङ्क्ते न मद्येन ॥ १,१५५.
बलकासदेशपात्रं प्रकृतिसहतामथवा वयांसि? । प्रविभज्ज्यात्तनुरूपं पिबति ततः पिबत्यमृत ॥ १,१५५.
श्रीगरुडमहापुराणम् १५६ धन्वन्तरिरुवाच । अथार्शसां निदानं च व्याख्यास्यमि च सुश्रुत ! । सर्वदा प्राणिनां मांसे कीलकाः प्रभवन्ति ये ॥ १,१५६.
अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधनात् । दोषस्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन् ॥ १,१५६.
मांसांकुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः । सहजन्मान्तरोत्थेन भेदो द्वेधा समासतः ॥ १,१५६.
शुष्काग्रावाविभेदाश्च गुदस्थानानुसंश्रयाः । अर्धपञ्चाङ्गुलिस्तस्मिंस्तिस्रोऽघ्यर्धाङ्गुलिस्थिताः ॥ १,१५६.
बाल्यप्रवाहिणी तासामन्त्रमध्ये विसर्जिनी । बाह्यासंवरणे तस्या गुदादौ बहिरङ्गुले ॥ १,१५६.
सार्धाङ्गुलप्रमाणेन रोमाण्यत्र ततः परम् । तत्र हेतुः सहोत्थानां बाल्ये बीजोपतप्तता ॥ १,१५६.
अर्शसां बीजसृष्टिस्तु मातापित्रपचारतः । देवतानां प्रकोपे हि सान्निपातस्य चान्यतः ॥ १,१५६.
असाध्या एवमाख्याताः सर्वे रोगाः कुलोद्भवाः । सहजानि विशेषेण रूक्षदुर्दर्शनानि तु ॥ १,१५६.
अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च । योज्यानि च पृथोग्दोषसंसर्गनिचयात्स्वतः ॥ १,१५६.
शुष्काणि वातश्लेष्मभ्यामार्द्राणि त्वस्य पित्ततः । दोषप्रकोपहेतुस्तु प्रागुक्तेवस्त्रसादिनि ॥ १,१५६.
अग्नौ मलेऽतिनिचिते पुनश्चायं (ति) व्यवायतः । पानसंक्षोभविषमकठिनक्षुद्रकाशनात् ॥ १,१५६.
बस्तिनेत्रगलौष्ठोत्थतलभेदादिघट्टनात् । भृशशीताम्बुसंस्पर्शप्रततातिप्रवाहणात् ॥ १,१५६.
गतमूत्रशकृद्वेगधारणात्तदुदीरणात् । जुगुप्सातीसारमेव ग्रहणी सोऽप्युपद्रवः ॥ १,१५६.
कर्षणाद्विषमादेश्चचेष्टाभ्यो योषितां पुनः । आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनात् ॥ १,१५६.
ईदृशैश्चापरैर्वायुरपानः कुपितो मले । पायोर्वलीषु सद्रवृत्तिभास्वन्निः पूर्णमूर्तिषु ॥ १,१५६.
जायन्तेर्ऽशांसितु तत्पूर्वं लक्षणं वह्निमन्दता । विष्टम्भः सास्थिसदनं पिण्डि (ष्ट) कोद्वेष्टनं भ्रमः ॥ १,१५६.
सान्द्रोत्थोनेत्रयोः शोथः शकृद्भवेदोऽथ वा ग्रहः । मारुतः पुरतो मूढः प्रायो नाभेरधश्चरन् ॥ १,१५६.
सरक्तः परिकृन्तंश्च कृच्छ्रादाकुञ्चति श्वसन् । अन्त्रकूजनमाटोपः क्षारितोद्गारभूरिता ॥ १,१५६.
प्रभूतमूत्रमल्पा विडश्रद्धा धूम्रकोष्ठकः । शिरः पृष्ठोरसां शूलमालस्यं भिन्नवर्चसम् ॥ १,१५६.
इन्द्रियार्थेषु लौल्यं च क्रोधो दुः खोपचारतः । आशङ्का ग्रहणी शोथः पाण्डुगुल्मोदरेषु च ॥ १,१५६.
एतान्येव विवर्धन्ते जातेष्वहतनामसु । निवर्तमानो मानो हि तैरधोमार्गरोधतः ॥ १,१५६.
क्षोभयेदनिलानन्यान् सर्वेन्द्रियशरीगान् । तथा मूत्रशकृत्पित्तकफान्वायुश्च शोषयन् ॥ १,१५६.
मुष्णात्यग्निं ततः सर्वे भवन्ति प्रायशोर्ऽशसः । कृशो भृशं हतोत्साहो दीनः क्षामोऽथ निष्प्रभः ॥ १,१५६.
असारी विगतच्छायो जन्तुदग्ध इवद्रुम । कृच्छ्रैरुग्रद्रवैर्ग्रस्तो यक्ष्मोक्तैर्मर्मपीडनैः ॥ १,१५६.
तथा काशपिपासास्यवैरस्यश्वासपीनसैः । क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः ॥ १,१५६.
क्लैब्यबाधिर्यस्तैमित्यशर्करापरिपीडितः । क्षामो भिन्नस्वरो ध्यायन्मुहुः ष्ठीवन्नरोचकी ॥ १,१५६.
सर्वपर्वास्थिहृन्नाभीपायुवङ्क्षणशूलवान् । गुदेनस्त्रवता पित्तं बलाकोदरसन्निभम् ॥ १,१५६.