जीवितान्ताः प्रजायन्ते विषेणोत्कर्षवर्तिना । तीक्ष्णादिभिर्गुणैर्मद्यं मान्द्यदीनोजसो गुणान् ॥ १,१५५.
दशभिर्गुणैः संक्षोम्यं चेतो नयति चाक्रियम् । आद्ये मदे द्वितीयेऽपि प्रम (मो) दायतने स्थितः ॥ १,१५५.
दुर्विकल्पहतो मूढः सुखमित्यभिमुच्यते । मध्यमोत्तमयोः सन्धिं प्राप्य राजासनो मदः ॥ १,१५५.
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेत्ततः । इयं भूमिरवाच्यानां दौः शीलस्येदमास्पदम् ॥ १,१५५.
एकोऽयं बहुमार्गायाः दुर्गर्(म) तेर्दर्शकः परम् । निश्चेष्टः सन्नवाक्शेते तृतीयेऽत्र मदे स्थितः ॥ १,१५५.
मरणादपि पापात्मा गतः पापतरां दशाम् । धर्माधर्मं सुखं दुः खं मानानर्थं हिताहितम् ॥ १,१५५.
न वेद शीकमोहार्तं शोष (क) मोहादिसंयुतः । सोन्मादभ्रममूर्छायां सापस्मारः पतत्यधः ॥ १,१५५.
नाति माद्यन्ति बलिनः कृताहारा महाशनाः । वातात्पित्तात्कफात्सर्वैर्भवेद्रोगो मदात्ययः ॥ १,१५५.
सामान्यलक्षणं तेषां प्रमोहो हृदयव्यथा । विभेदं प्रसभं तृष्णा सौम्यो ग्लानिर्ज्वरोऽरुचिः ॥ १,१५५.
पुरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः । स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः ॥ १,१५५.
स्वप्नेनेवाभिभवति न चोक्तश्च स भाषतेः । पित्ताद्दाहज्वरः स्वेदो मोहो नित्यं च विभ्रमः ॥ १,१५५.
श्लेष्मणश्छर्दिर्हृल्लासो निद्रा चोदरगौरवम् । सर्वजे सर्वलिङ्गत्वं ज्ञात्वा मद्यं पिबेत्तु यः ॥ १,१५५.
सहसा रुचिरं चान्यतरध्वंसकशोषिणौ । भवेतां?मारुतात्कष्टाद्भवेत्त स्य विशेषतः ॥ १,१५५.
ध्वंसकश्लेष्मनिष्ठिवाः कण्ठशोषोऽतिनिद्रता । शब्दासहत्वं तच्चित्तविक्षेपोऽङ्गे हि वातरुक् ॥ १,१५५.
हृत्कण्ठरोगः संमोहः श्वासतृष्णावमिज्वराः । निवर्तेद्यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ॥ १,१५५.
विकारैः क्लिश्यते जातु न स शरीरमानसः । रजोमोहहिताहारपास्य स्युस्त्रयो गदाः ॥ १,१५५.
वसासृक्क्लेदनावाहिस्रोतोरोधः सुद्भवाः । मदमूर्छापसंन्यासा यथोत्तरबलोद्भवाः ॥ १,१५५.
मदोऽत्र दोषैः सर्वैस्तु रक्तमद्यविषैरपि । शक्त्यानन्त्याद्गताभासश्चलश्छलितवेष्टितः ॥ १,१५५.
रूक्षश्यामारुणतनुर्मद्ये वातोद्भवे भवेत् । पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः ॥ १,१५५.
स्वप्नेऽसम्बद्धवाक्यादिः कफाद्ध्यानपरो हि सः । सर्वोत्थसन्निपातेन रक्तस्तम्भाङ्गदूषणम् ॥ १,१५५.
पित्तलिङ्गत्वमाद्येन विकृतेहा स्वराज्ञता । विसत्कम्पोतिनिद्रा च सर्वेभ्योऽभ्यधिकं श्रमः ॥ १,१५५.
लक्षयेल्लक्षणोत्कर्षाद्वातादीञ्छोणितादिषु । अरुणं नीलकृष्णं वा सम्प्रविश्यन्विशेत्तमः ॥ १,१५५.
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः । कासः श्यावारुणा च्छाया मूर्छायां मारुतात्मकः ॥ १,१५५.
पित्तेन रक्तं पीतं वा नभः पश्यन्विशेत्तमः । विबुध्येत च सस्वेदो दाहतृष्णोपपीडितः ॥ १,१५५.
भिन्नवत्पीतनीलाभो रक्तनीलाकुलेक्षणः । कफेन मेघसंकाशं पश्यत्याकाशमाविशेत् ॥ १,१५५.
तमश्चिराच्च बुध्ये हृदुरः सुप्रसेकवान् । गुरुभिस्तिमितै (रै) रङ्गे राजधर्मावबन्धान् (वत्) ॥ १,१५५.
सर्वाकृतिस्त्रिभिर्देषैरपस्मार इवापरः । पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः ॥ १,१५५.
दोषैस्तु मदमूर्छायां कृतवेगेषु देहिनाम् । स्वयमेवोपशाम्यन्ति संन्यासेनौषधैर्निवा ॥ १,१५५.
वाग्देहमनसां चेष्टामाक्षिप्यातिबलाबलाः । ससन्यासं निपतिताः प्राणाघातनसंश्रयाः ॥ १,१५५.
भवन्ति तेन पुरुषाः काष्ठभूता मृतोपमाः । म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते ॥ १,१५५.