अकस्माद्दीनता शोको भयं शब्देऽसैष्णुता । वेपथुर्वेपनान्मोहः श्वासरोधोऽल्पनिद्रता ॥ १,१५४.
पित्तात्तृष्णा श्रमो दाहो स्वेदोऽम्लकफजः क्रमः । छर्दनं ह्यम्लपित्तस्य धूमकल्पितको ज्वरः ॥ १,१५४.
श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत् । कासास्थिसादनिष्ठीवनिद्रालस्यारुचिज्वराः ॥ १,१५४.
हृद्रोगे हि त्रिभिर्देषैः कृमिभिः श्यावनेत्रता । तमः प्रवेशो हृल्लासः शोथः कण्डूः कफस्त्रुतिः ॥ १,१५४.
हृदयं सततं चात्र क्रकचेनेव दीर्यते । चिकित्सदामयं (रं) घोरं तच्छीघ्रं शीघ्रमारिणम् ॥ १,१५४.
वातात्पित्तात्कफात्तृष्णा सन्निपाताद्बलक्षयः । षष्ठी स्यादुपसर्गाच्च वातपित्ते च कारणम् ॥ १,१५४.
सर्वेषु तत्प्रकोपो हि सम्यग्धातुप्रशोषणात् । सर्वदेहभ्रामोत्कम्पतापहृद्दाहमोहकृत् ॥ १,१५४.
जिह्वामूलगलक्लोमतालुतोयवहाः शिराः । संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् ॥ १,१५४.
मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः । कण्ठोष्ठतालुकार्कश्याज्जिह्वानिष्क्रमणे क्लमः ॥ १,१५४.
प्रलापश्चित्तविभ्रंशो ह्युद्गराढ्यस्तथामयः । मारुतात्क्षामतादैन्यं शङ्खभे (तो) दः शिरौभ्रमः ॥ १,१५४.
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः । शीताम्लफेनवृद्धिश्च पित्तान्मूर्छास्यतिक्तता ॥ १,१५४.
रक्तेक्षणत्वं सततं शोषो दाहोऽतिधूमकः । कफो रसाद्विकुपितस्तोयवाहिषु मारुतः ॥ १,१५४.
स्रोतस्तु सकफं तेन पङ्कवच्छोष्यते ततः । शूकैरिवाचितः कण्ठो निद्रा मधुरवक्रता ॥ १,१५४.
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकम् । आलस्यमविपाकञ्च यः स स्यात्सर्वलक्षणः ॥ १,१५४.
आमोद्भवाच्च रक्तस्य संरोधाद्वातपित्तता । उष्णाक्रान्तस्य सहसा शीताम्भो भजतस्तृषा ॥ १,१५४.
उष्णादूर्ध्वं गतः कोष्ठं कुर्याद्वै पित्तजैवसा । या च पानातिपानोत्था तीक्ष्णाग्रे स्नेहपाकजा ॥ १,१५४.
स्निग्धकट्वम्ललवणभोजनेन कफोद्भवा । तृष्णारसक्षयोक्तेन लक्षणेन क्षयात्मिका ॥ १,१५४.
शोषमोहज्वराद्यन्यदीर्घरोगोपसर्गतः । या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥ १,१५४.
श्रीगरुडमहापुराणम् १५५ धन्वन्तरिरुवाच । वक्ष्ये मदात्ययादेश्च निदानं मुनिभाषितम् । तीक्ष्णाम्लरूक्षसूक्ष्माम्लव्यवायासुकरं लघु ॥ १,१५५.
विकाशि विशदं मद्यं मेदसोऽस्माद्विपर्ययः । तीक्ष्णोदयाश्च दिव्युक्ताश्चित्तोपप्लविनो गुणाः ॥ १,१५५.
जीवितान्ताः प्रजायन्ते विषेणोत्कर्षवर्तिना । तीक्ष्णादिभिर्गुणैर्मद्यं मान्द्यदीनोजसो गुणान् ॥ १,१५५.
दशभिर्गुणैः संक्षोम्यं चेतो नयति चाक्रियम् । आद्ये मदे द्वितीयेऽपि प्रम (मो) दायतने स्थितः ॥ १,१५५.
दुर्विकल्पहतो मूढः सुखमित्यभिमुच्यते । मध्यमोत्तमयोः सन्धिं प्राप्य राजासनो मदः ॥ १,१५५.
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेत्ततः । इयं भूमिरवाच्यानां दौः शीलस्येदमास्पदम् ॥ १,१५५.
एकोऽयं बहुमार्गायाः दुर्गर्(म) तेर्दर्शकः परम् । निश्चेष्टः सन्नवाक्शेते तृतीयेऽत्र मदे स्थितः ॥ १,१५५.
मरणादपि पापात्मा गतः पापतरां दशाम् । धर्माधर्मं सुखं दुः खं मानानर्थं हिताहितम् ॥ १,१५५.
न वेद शीकमोहार्तं शोष (क) मोहादिसंयुतः । सोन्मादभ्रममूर्छायां सापस्मारः पतत्यधः ॥ १,१५५.
नाति माद्यन्ति बलिनः कृताहारा महाशनाः । वातात्पित्तात्कफात्सर्वैर्भवेद्रोगो मदात्ययः ॥ १,१५५.
सामान्यलक्षणं तेषां प्रमोहो हृदयव्यथा । विभेदं प्रसभं तृष्णा सौम्यो ग्लानिर्ज्वरोऽरुचिः ॥ १,१५५.
पुरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः । स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः ॥ १,१५५.