स्त्रीमद्यमांसप्रियता घृणिता मूर्धगुण्ठनम् । नखकेशास्थिवृद्धिश्च स्वप्ने चाभिभवो भवेत् ॥ १,१५२.
पतनं कृकलासाहिकपिश्वापदपक्षिभिः । केशास्थितुषभस्मादितरौ समधिरोहणम् ॥ १,१५२.
शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः । ज्योतिर्दिवि दवाग्नीनां ज्वलतां च महीरुहाम् ॥ १,१५२.
पीनसश्वासकासं च स्वरमूर्धरुजोऽरुचिः । ऊर्ध्वनिः श्वाससंशोषावधश्छर्दिश्च कोष्ठगे ॥ १,१५२.
स्थिते पार्श्वे च रुग्बोधे सन्धिस्थे भवति ज्वरः । रूपाण्यैकादशैतानि जायन्ते राजयक्ष्मणः ॥ १,१५२.
तेषामुपद्रवान्विद्यात्कण्ठध्वंसकरी रुजाः । जृम्भाङ्गमर्दनिष्ठीववह्निमान्द्यास्यपूतिता ॥ १,१५२.
तत्र वाताच्छिरः पार्श्वशूलनं सांगमर्दनम् । कण्ठरोधः स्वरभ्रंशः पित्तात्पादांसपाणिषु ॥ १,१५२.
दाहोऽतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः । कफादरोचकच्छर्दिकासा अर्ध्वां गगौरवम् ॥ १,१५२.
प्रसेकः पीनसः श्वासः स्वरभेदोऽल्पवह्निता । दोषैर्मन्दानलत्वेन शोथलेपकफोल्बणैः ॥ १,१५२.
स्रोतोमुखेषु रुद्धेषु धातुषु स्वल्पकेषु च । विदाहो मनसः स्थाने भवन्त्यन्ये ह्युपद्रवाः ॥ १,१५२.
पच्यते कोष्ठ एवान्नमम्लयुक्तै रसैर्युतम् । प्रायोऽस्य क्षयभागानां नैवान्नं चाङ्गपुष्टये ॥ १,१५२.
रसो ह्यस्य न रक्ताय मांसाय कुरुते तु तत् । उपष्टब्धः समन्ताच्च केवलं वर्तते क्षयी ॥ १,१५२.
लिङ्गेष्वल्पेष्वतिक्षीणं व्याधौ षट्करणक्षयम् । वर्जयेत्साधयेदेव सर्वेष्वपि ततोऽन्यथा ॥ १,१५२.
दोषैर्व्यस्तैः समस्तैश्च क्षयात्सर्वस्य मेदसः । स्वरभेदो भवेत्तस्य क्षामो रूक्षश्चलः स्वरः ॥ १,१५२.
शुकवर्णाभकण्ठत्वं स्निग्धोष्णोपशमोऽनिलात् । पित्तात्तालुगले दाहः शोषो भवति सन्ततम् ॥ १,१५२.
लिम्पन्निव कफैः कण्ठं मुखं घुरघुरायते । स्वयं विरुद्धैः सर्वैस्तु सर्वालिङ्गैः क्षयो भवेत् ॥ १,१५२.
धूमायतीव चात्यर्थमुदेति श्लेष्मलक्षणम् । कृच्छ्रसाध्याः क्षयाश्चात्र सर्वैरल्पञ्च वर्जयेत् ॥ १,१५२.
श्रीगरुडमहापुराणम्
धन्वन्तरिरुदाच । अरोचकनिदान्ते वक्ष्येऽहं सुश्रुताधुना । अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः ॥ १,१५३.
सन्निपातेन मनसः सन्तापेन च पञ्चमः । कषायतिक्तमधुरं वातादिषु मुखं क्रमात् ॥ १,१५३.
सर्वं वीतरसं शोकक्रोधादिषु यथा मनः । छर्दिदोषैः पृथक्सर्वैर्दुष्टैरन्यैश्च पञ्चमः ॥ १,१५३.
उदानोऽधिकृतान्दोषान्सर्वं सन्ध्यर्हमस्यति । आशु क्लेशोऽस्य लावण्यप्रसेकारुचयः क्रमात् ॥ १,१५३.
नाभिपृष्ठं रुजत्याशु पार्श्वे चाहारमुत्क्षिपेत् । ततो विच्छ्रिन्नल्पाल्पकषायं फेनिलं वमेत् ॥ १,१५३.
शब्दोद्गरयुतः कृच्छ्रमनुकृच्छ्रेण वेगवत् । कासास्यशोषकं वातात्स्वरपीडासमन्वितम् ॥ १,१५३.
पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम् । सासृगम्लं कटुतिक्तं तृण्मूर्छादाहपाकवत् ॥ १,१५३.
कफात्स्निग्धं घनं पीतं श्लेष्मतस्तु समाक्षिकम् । मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम् ॥ १,१५३.
मखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान् । सर्वैर्लिङ्गैः समापन्नस्त्याज्यो भवति सर्वथा ॥ १,१५३.
सर्वं यस्य च विद्विष्टं दर्शनश्रवणादिभिः । वातादिनैव संक्रुद्धकृमिदुष्टान्नजे गदे । शूलवेपतुहृल्लासो विशेषात्कृमिजे भवेत् ॥ १,१५३.
श्रीगरुडमहापुराणम् १५४ धन्वन्तरिरुवाच । हृद्रोगादिनिदानं ते वक्ष्येऽहं सुश्रुताधुना । कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गताः ॥ १,१५४.
वातेन शून्यातात्यर्थं भुज्यते रोरुदीति च । भिद्यते शुष्यते स्तब्धं हृदयं शून्यता भ्रमः ॥ १,१५४.