चिरेण यमलैर्वेगैर्या हिक्रा संप्रवर्तते । परिणामान्मुखे वृद्धिं परिणामे च गच्छति ॥ १,१५१.
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् । प्रलापच्छर्द्यतीसारनेत्रविप्लुतजृम्भिता ॥ १,१५१.
यमला वेगिनी हिक्रा परिणामवती च सा । ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः ॥ १,१५१.
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुञ्चती । तुदन्ती मार्गमाणस्य कुर्वती मर्मघट्टनम् ॥ १,१५१.
पृष्ठतो नमनं सार्ष्यं महाहिक्रा प्रवर्तते । महाशूला महाशब्दा महावेगा महाबला ॥ १,१५१.
पक्राशयाच्च नाभेर्वा पूर्ववत्सा प्रवर्तते ॥ १,१५१.
तद्रूपा सा महत्कुर्याञ्जृम्भणां गप्रसारणम् । गम्भीरेण निदानेन गम्भीरा तु सुसाधयेत् ॥ १,१५१.
आद्ये द्वे वर्जयेदन्ये सर्वलिङ्गां च वेगिनीम् । सर्वस्य संचितामस्य स्थविरस्य व्यवायिनः ॥ १,१५१.
व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य च । सर्वेऽपि रोगा नाशाय न त्वेवं शाघ्रकारिणः ॥ १,१५१.
हिक्राश्वासौ यथा तौ हि मृत्युकाले कृतालयौ ॥ १,१५१.
श्रीगरुडमहापुराणम् १५२ धन्वन्तरिरुवाच । अथातो यक्ष्मरोगस्य निदानं प्रवदाम्यहम् । अनेकरोगानुगतो बहुरोगपुरोगमः ॥ १,१५२.
राजयक्ष्मा क्षयः शोषो रोगराडिति कथ्यते । नक्षत्राणां द्विजानाञ्च राज्ञोऽभूद्यदयं पुरा ॥ १,१५२.
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः । देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः ॥ १,१५२.
रसादिशोषणाच्छोषो रोगराडिति राजवत् । साहसं वेगसंरोधः शुक्रौजः स्नेहसंक्षयः ॥ १,१५२.
अन्नपानविधित्यागश्चत्वारस्तस्यहेतवः । तैरुदीर्णोऽनिलः पित्तं व्यर्थं चोदीर्य सर्वतः ॥ १,१५२.
शरिरसन्धिमाविश्य ताः शिराः प्रतिपीडयन् । मुखानि स्रोतसां रुद्ध्वा तथैवातिविसृज्य वा ॥ १,१५२.
मध्यमूर्ध्वमधस्तिर्यगव्यथां सञ्जनयेद्धृदः । रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं ज्वरः ॥ १,१५२.
प्रसेको मुखमाधुर्यं मार्दवं वह्निदे हयोः । लौल्यभावोऽन्नपानादौ शुचावशुचिवीक्षणम् ॥ १,१५२.
मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः । हृल्लासश्छर्दिररुचिरस्नातेऽपि बलक्षयः ॥ १,१५२.
पाण्योरुवक्षः पादास्यकुक्ष्यक्ष्णोरतिशुक्लता । बाह्वोः प्रतोदो जिह्वायाः काये बैभत्स्यदर्शनम् ॥ १,१५२.
स्त्रीमद्यमांसप्रियता घृणिता मूर्धगुण्ठनम् । नखकेशास्थिवृद्धिश्च स्वप्ने चाभिभवो भवेत् ॥ १,१५२.
पतनं कृकलासाहिकपिश्वापदपक्षिभिः । केशास्थितुषभस्मादितरौ समधिरोहणम् ॥ १,१५२.
शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः । ज्योतिर्दिवि दवाग्नीनां ज्वलतां च महीरुहाम् ॥ १,१५२.
पीनसश्वासकासं च स्वरमूर्धरुजोऽरुचिः । ऊर्ध्वनिः श्वाससंशोषावधश्छर्दिश्च कोष्ठगे ॥ १,१५२.
स्थिते पार्श्वे च रुग्बोधे सन्धिस्थे भवति ज्वरः । रूपाण्यैकादशैतानि जायन्ते राजयक्ष्मणः ॥ १,१५२.
तेषामुपद्रवान्विद्यात्कण्ठध्वंसकरी रुजाः । जृम्भाङ्गमर्दनिष्ठीववह्निमान्द्यास्यपूतिता ॥ १,१५२.
तत्र वाताच्छिरः पार्श्वशूलनं सांगमर्दनम् । कण्ठरोधः स्वरभ्रंशः पित्तात्पादांसपाणिषु ॥ १,१५२.
दाहोऽतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः । कफादरोचकच्छर्दिकासा अर्ध्वां गगौरवम् ॥ १,१५२.
प्रसेकः पीनसः श्वासः स्वरभेदोऽल्पवह्निता । दोषैर्मन्दानलत्वेन शोथलेपकफोल्बणैः ॥ १,१५२.
स्रोतोमुखेषु रुद्धेषु धातुषु स्वल्पकेषु च । विदाहो मनसः स्थाने भवन्त्यन्ये ह्युपद्रवाः ॥ १,१५२.