प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन् । उरः स्थः कुरुते श्वासमामाशयसमुद्भवम् ॥ १,१५०.
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता । आनाहः शङ्खभेदश्च तत्रायासोऽतिभोजनैः ॥ १,१५०.
प्रेरितः प्रेरयन्क्षुद्रं स्वयं स समलं मरुत् । प्रतिलोमं शिरा गच्छेदुदीर्य पवनः कफम् ॥ १,१५०.
परिगृह्यशिरोग्रीवमुरः पार्श्वे च पीडयन् । कासं घुर्घुरकं मोहमरुचिम्पीनसं भृशम् ॥ १,१५०.
करोति तीव्रवेगञ्च श्वासं प्राणोपतापिनम् । प्रताम्येत्तस्य वेगेनष्ठीवनान्ते क्षणं सुखी ॥ १,१५०.
कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमर्हति । उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान् ॥ १,१५०.
विशुष्कास्यो मुहुः श्वासः काङ्क्षत्युष्णं सवेपथुः । मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते ॥ १,१५०.
स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत् । ज्वरमूर्छावतः सीतैर्न शाम्येत्प्रथमस्तु सः ॥ १,१५०.
कासश्वसितवच्छीर्णमर्मच्छेदरुजार्दितः । सस्वेदमूर्छः सानाहो बस्तिदाहविबोधवान् ॥ १,१५०.
अधोदृष्टिः शुताक्षस्तु स्निह्यद्रक्तैकलोचनः । शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः ॥ १,१५०.
महातामहता दीनो नादेन श्वसिति क्रथन् । उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् ॥ १,१५०.
प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनाननः । नेत्रे समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक् ॥ १,१५०.
शुष्ककण्ठो मुहुश्चैव कर्णशङ्खाशिरोऽतिरुक् । यो दीर्घमुच्छ्वसित्यूर्ध्वं न च प्रत्याहरत्यधः ॥ १,१५०.
श्लेष्मावृतमुखश्रोत्रः क्रुद्धगन्धवहार्दितः । ऊर्ध्वं समीक्षते भ्रान्तमक्षिणी परितः क्षिपन् ॥ १,१५०.
मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक् । एते सिध्येयुरव्यक्ताः व्यक्ताः प्राणहरा ध्रुवम् ॥ १,१५०.
श्रीगरुडमहापुराणम् १५१ धन्वन्तरिरुवाच । हिक्रारोगनिदानञ्च वक्ष्ये सुश्रुत ! तच्छृणु । श्वासैकहेतुः प्राग्रूपं संख्या प्रकृतिसंश्रया ॥ १,१५१.
हिक्रा भक्ष्योद्भवा क्षुद्रा यमला महतीति च । गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः ॥ १,१५१.
रूक्षतीक्ष्णखराशान्तैरन्नपानैः प्रपीडितः । करोति हिक्रां श्वसनः मन्दशब्दां क्षुधानुगाम् ॥ १,१५१.
समं सन्ध्यान्नपानेन या प्रयाति च सान्नजा । आयासात्पवनः क्रुद्धः क्षुद्रां हिक्रां प्रवर्तयेत् ॥ १,१५१.
जत्रुमूलात्परिसृता मन्दवेगवन्ती हि सा । वृद्धिमायासतो याति भुक्तमात्रे च मार्दबम् ॥ १,१५१.
चिरेण यमलैर्वेगैर्या हिक्रा संप्रवर्तते । परिणामान्मुखे वृद्धिं परिणामे च गच्छति ॥ १,१५१.
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् । प्रलापच्छर्द्यतीसारनेत्रविप्लुतजृम्भिता ॥ १,१५१.
यमला वेगिनी हिक्रा परिणामवती च सा । ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः ॥ १,१५१.
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुञ्चती । तुदन्ती मार्गमाणस्य कुर्वती मर्मघट्टनम् ॥ १,१५१.
पृष्ठतो नमनं सार्ष्यं महाहिक्रा प्रवर्तते । महाशूला महाशब्दा महावेगा महाबला ॥ १,१५१.
पक्राशयाच्च नाभेर्वा पूर्ववत्सा प्रवर्तते ॥ १,१५१.
तद्रूपा सा महत्कुर्याञ्जृम्भणां गप्रसारणम् । गम्भीरेण निदानेन गम्भीरा तु सुसाधयेत् ॥ १,१५१.
आद्ये द्वे वर्जयेदन्ये सर्वलिङ्गां च वेगिनीम् । सर्वस्य संचितामस्य स्थविरस्य व्यवायिनः ॥ १,१५१.
व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य च । सर्वेऽपि रोगा नाशाय न त्वेवं शाघ्रकारिणः ॥ १,१५१.
हिक्राश्वासौ यथा तौ हि मृत्युकाले कृतालयौ ॥ १,१५१.