आकाशकारणं तद्वत्पृथिव्याः कारणं परम् 15.
देहस्य कारणं चैव चक्षुषश्चैव कारणम् 15.
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् 15.
वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम् 15.
यमस्य कारणं चैव ईशानस्य च कारणम् 15.
नृपाणां कारणं श्रेष्ठं धर्म्मस्यैव तु कारणम् 15.
मनूनां कारणं चैव पक्षिणां कारणं परम् 15.
सिद्धानां कारणं चैव यक्षाणां कारणं परम् 15.
नदानां कारणं चैव नदीनां कारणं परम् 15.
कारणं वीरुधां चैव लोकानां कारणं तथा 15.
सर्पाणां कारणं चैव श्रेयसां कारणं तथा 15.
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च 15.
जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा 15.
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च 15.
शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा 15.
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा 15.
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रा(शान्ता)त्मा च मनोस्तथा 15.
ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यतिः 15.
ह्रीप्रवर्त्तनशीलश्च यतीनां च हिते रतः 15.
संविन्मेधा च कालश्च उष्मा वर्षा म(न) तिस्तथा 15.
मोहकर्त्ता च दुष्टानां माण्डव्यो वडवामुखः 15.
अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च । याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ 15.
शर्म्मदश्चैव गांगेयो हृषीकेशो बृहच्छ्रवाः 15.
नारायणो महाभागः प्राणस्य पतिरेव च 15.
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा 15.
रूपाणां च पतिश्चाद्यः खङ्गपाणिर्हलायुधः 15.
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा 15.
अनन्तोऽनन्तरूपश्च सुनखः सुरसुन्दरः 15.
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः 15.
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः 15.