प्रवर्तते सवक्रेण भिन्नकांस्योपमध्वनिः । हृत्पार्श्वेरुशिरः शूलमोहक्षोभस्वरक्षयान् ॥ १,१४९.
करोति शुष्ककासञ्च महावेगरुजास्वनम् । सोंगहर्षो कफं शुष्कं कृछ्रान्मुक्त्वाल्पतां व्रजेत् ॥ १,१४९.
पित्तात्पीताक्षिकत्वं च तिक्तास्यत्वं ज्वरो भ्रमः । पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः ॥ १,१४९.
प्रततं कासवेगे च ज्योतिषामिव दर्शनम् । कफादुरोऽल्परुङ्मूर्धि हृदयं स्तिमिते गुरु ॥ १,१४९.
कण्ठे प्रलेपमदजं पीनसच्छर्द्यरोचकाः । रोमहर्षो धनस्निग्धंश्लेष्मणाञ्च प्रवर्तनम् ॥ १,१४९.
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् । उपस्यन्तः क्षतो वायुः पित्तेनानुगतो बली ॥ १,१४९.
कुपितः कुरुते कासं कफं तेन सशोणितम् । पीतं श्यावञ्च शुष्कञ्च ग्रथितं कुपितं बहु ॥ १,१४९.
ष्ठीवेत्कण्ठेन रुजता विभिन्नेनैव चोरसा । सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ॥ १,१४९.
दुः खस्पर्शेन शूलेन भेदपीडाहितापिना । पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ॥ १,१४९.
पारावत इवोत्कूजन्पार्श्वशूली ततोऽस्य च । कफाद्यैर्वमनं पक्तिबलवर्णञ्च हीयते ॥ १,१४९.
क्षीणस्य सासृङ्मूत्रत्वं श्वासपृष्टकटिग्रहः । षायुप्रधानाः कुपिता धावतो राजयक्ष्मणः ॥ १,१४९.
कर्वन्ति यक्ष्मायतने कासं ष्ठीवत्कफं ततः । पूतिपूयोपमं वीतं मिश्रं हरितलोहितम् ॥ १,१४९.
सुप्यते तुद्यत इव हृदयं पचतीव च । अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः ॥ १,१४९.
स्निग्धप्रसन्नवक्रत्वं श्रीमद्दर्शननेत्रता । ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥ १,१४९.
इत्येष क्षयजः कास क्षीणानां देहनाशनः । याप्यौ वा बलिनां तद्वत्क्षतजोऽपि नवौ तु तौ ॥ १,१४९.
सिध्येतामपि सामर्थ्यात्साध्यादौ च पृथक्क्रमः । मिश्रा याप्याश्च ये सर्वे जरसः स्थविरस्य च ॥ १,१४९.
कासश्वासक्षयच्छर्दिस्वरसादादयो गदाः । भवन्त्युपेक्षया यस्मात्तस्मात्तास्त्वरया जयेत् ॥ १,१४९.
श्रीगरुडमहापुराणम् १५० धन्वन्तरिरुवाच । अथातः श्वासरोगस्य निदानं प्रवदाम्यहम् । कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः ॥ १,१५०.
आमातिसारवमथुविषपाण्डुज्वरैरपि । रजोधूमानिलैर्मर्मघातादपि हिमाम्बुना ॥ १,१५०.
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः । कफोपरुद्धगमनपवनो विष्वगास्थितः ॥ १,१५०.
प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन् । उरः स्थः कुरुते श्वासमामाशयसमुद्भवम् ॥ १,१५०.
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता । आनाहः शङ्खभेदश्च तत्रायासोऽतिभोजनैः ॥ १,१५०.
प्रेरितः प्रेरयन्क्षुद्रं स्वयं स समलं मरुत् । प्रतिलोमं शिरा गच्छेदुदीर्य पवनः कफम् ॥ १,१५०.
परिगृह्यशिरोग्रीवमुरः पार्श्वे च पीडयन् । कासं घुर्घुरकं मोहमरुचिम्पीनसं भृशम् ॥ १,१५०.
करोति तीव्रवेगञ्च श्वासं प्राणोपतापिनम् । प्रताम्येत्तस्य वेगेनष्ठीवनान्ते क्षणं सुखी ॥ १,१५०.
कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमर्हति । उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान् ॥ १,१५०.
विशुष्कास्यो मुहुः श्वासः काङ्क्षत्युष्णं सवेपथुः । मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते ॥ १,१५०.
स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत् । ज्वरमूर्छावतः सीतैर्न शाम्येत्प्रथमस्तु सः ॥ १,१५०.
कासश्वसितवच्छीर्णमर्मच्छेदरुजार्दितः । सस्वेदमूर्छः सानाहो बस्तिदाहविबोधवान् ॥ १,१५०.
अधोदृष्टिः शुताक्षस्तु स्निह्यद्रक्तैकलोचनः । शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः ॥ १,१५०.