नित्यं मन्दज्वरो रूक्षः शीतकृच्छ्रेण गच्छति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेदङ्गबलाशकः ॥ १,१४७.
हरिद्राभेदवर्णाभस्तद्वल्लेपं प्रमेहति । स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः ॥ १,१४७.
कफवातौ समौ यत्र हीनपित्तस्य देहिनः । तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो ज्वरः ॥ १,१४७.
दिवाकरार्पितबले व्यायामाच्च विशोषिते । शरीरे नियतं वाताज्ज्वरः स्यात्पौर्वरात्रिकः ॥ १,१४७.
आमाशये यदात्मस्थे श्लेष्मपित्ते ह्यधः स्थिते । तदर्धं शीतलं देहे ह्यर्धं चोष्णं प्रजायते ॥ १,१४७.
काये पित्तं यदा न्यस्तं श्लेष्मा चान्ते व्यवस्थितः । उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥ १,१४७.
रसरक्ताश्रयः साध्यो मांस मेदोगतश्च यः । अस्थिमज्जागतः कृच्छ्रस्तैस्तैः स्वाङ्गैर्हतप्रभः ॥ १,१४७.
विसंज्ञो ज्रवेगार्तः सक्रोध इव वीक्षते । सदोषमुष्णञ्च सदा शकृन्मुञ्चति वेगवत् ॥ १,१४७.
देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् । स्वेदः क्षुवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगत्ज्वरलक्षणानि ॥ १,१४७.
श्रीगरुडमहापुराणम् १४८ धन्वन्तरिरुवाच । अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् । भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ १,१४८.
कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरति सेवितैः । कुपितं पैत्तिकैः पित्तं द्रवं रक्तञ्च मूर्छति ॥ १,१४८.
तैर्मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् । पित्तरक्तस्य विकृतेः संसर्गाद्दषणादपि ॥ १,१४८.
गन्धवर्णानुवृत्तेषु रक्तेन व्यपदिश्यते । प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च सः ॥ १,१४८.
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः । छर्धितश्छर्दिबै भत्स्यं कासः श्वासो भ्रमः क्लमः ॥ १,१४८.
लोहितो न हितो मत्स्यगन्धास्यात्वञ्च विज्वरे । रक्तहारिद्रहरितवर्णता नयनादिषु ॥ १,१४८.
नीललोहित पीतानां वर्णानामविवेचनम् । स्वप्ने इन्मादधर्मित्वं भवत्यस्मिन्भविष्यति ॥ १,१४८.
उर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ॥ १,१४८.
ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधितम् । बह्वौषधानि पित्तस्य विरेको हि वरौषधम् ॥ १,१४८.
अनुबन्धी कफो यत्र तत्र तस्यापि शुद्धिकृत् । कषायाः स्वादवो यस्य विशुद्धौ श्लेष्मला हिताः ॥ १,१४८.
कटुतिक्तकषाया वा ये निसर्गात्कफावहाः । अधो याप्यञ्च नायुष्मांस्तत्प्रच्छर्दनसाधकम् ॥ १,१४८.
अल्पौषधञ्च पित्तस्य वमनं नावमौषधम् । अनुबन्धि बलं यस्य शान्तपित्तनरस्य च ॥ १,१४८.
कषायश्च हितस्तस्य मधुरा एव केवलम् । कफमारुतसंस्पृष्टमसाध्यमुपनामनम् ॥ १,१४८.
असह्यं प्रतिलोमत्वादसाध्यादौषधस्य च । न हि संशोधनं किञ्चिदस्य च प्रतिलोमिनः ॥ १,१४८.
शोधनं प्रतिलोमञ्च रक्तपित्तेऽभिसर्जितम् । एवमेवोपशमनं संशोधनमिहेष्यते ॥ १,१४८.
संसृष्टेषु हि दोषेषु सर्वथा छर्दनं हितम् । तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते ॥ १,१४८.
उपद्रवाश्च विकृतिं फलतस्तेषु साधितम् ॥ १,१४८.
श्रीगरुडमहापुराणम् १४९ धन्वन्तरिरुवाच । आशुकारी यतः कासः स एवातः प्रवक्ष्यते । पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ॥ १,१४९.
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् । तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥ १,१४९.
शुष्ककर्णास्यकण्ठत्वं तत्राधोविहितोऽनिलः । ऊर्ध्वं प्रवृत्तः प्राप्यो रस्तस्मिन्कण्ठे च संसृजन् ॥ १,१४९.
शिरास्रोतांसि संपूर्य ततोऽङ्गान्युत्क्षिपन्ति च । क्षिपन्निवाक्षिणी क्लिष्टस्वरः पार्श्वे च पीडयन् ॥ १,१४९.