ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः । सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः ॥ १,१४७.
चतुर्थको मलैर्मेदोमज्जास्थ्यन्यतरे स्थितः । मज्जास्थ एव ह्यपरः प्रभावमनुदर्शयेत् ॥ १,१४७.
द्विधा कफोणिजङ्घाभ्यां स पूर्वं शिरसानिलात् । अस्थिमज्जोरुपगतश्चतुर्थकविपर्ययः ॥ १,१४७.
त्रिधा त्र्यहं ज्वरयति दिनमेकन्तु मुञ्चति । बला बलेन दोषणामन्यचेष्टादिजन्मनाम् ॥ १,१४७.
पक्रानामविपर्यासात्सप्तरात्रञ्च लङ्घयेत् । ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदातदा ॥ १,१४७.
गम्भीरधातुचारित्वात्सन्निपातेन सम्भवात् । तुल्योच्छ्रयाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥ १,१४७.
सूक्षामात्सूक्ष्मज्वरेष्वेषु दूरद्दूरतरेषु च । दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥ १,१४७.
याति देहञ्च नाशेषं सन्तापादीन्करोत्यतः । क्रमो यत्नेन विच्छिन्नः सतापो लक्ष्यते ज्वरः ॥ १,१४७.
विषमो विषमारम्भः क्षपाकालानुसारवान् । यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथायथम् ॥ १,१४७.
कालेनाप्नोति सदृशान्स रसादींस्तथातथा । दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥ १,१४७.
भूमौ स्थितं जलैः सिक्तं कालं नैव प्रतीक्षते । अङ्कुराय यथा बीजं दोषबीजं भवेत्तथा ॥ १,१४७.
वेगं कृत्वाविषं यद्वदाशये नयते बलम् । कुप्यत्याप्तबलं भूयः कालदोषविषन्तथा ॥ १,१४७.
एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः । उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम् ॥ १,१४७.
अरोचको वमिः श्वासः सर्वस्मिन्रसगे ज्वरे । रक्तनिष्ठीवनं तृष्णा रूक्षोष्णं पीडकोद्यमः ॥ १,१४७.
दाहरागभ्रममदप्रलापो रक्तसंश्रिते । तृड्ग्लानिः स्पृष्टवर्चस्कमन्तर्दाहो भ्रमस्तमः ॥ १,१४७.
दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते । स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं वा सहिष्णुता ॥ १,१४७.
प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेदनम् । दोषप्रवृत्तिरुद्बोधः श्वासांगक्षेपकूजनम् ॥ १,१४७.
अन्तर्दाहो बहिः शैत्यं श्वासो हिक्का हि मज्जमे । तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता ॥ १,१४७.
शुक्रप्रवृत्तौ मृत्युस्तु जायते शुक्रसंश्रये । उत्तरोत्तरदुः साध्याः पञ्चान्ये तु विपर्यये ॥ १,१४७.
प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च । मन्दज्वरप्रलापस्तु सशीतः स्यात्प्रलेपकः ॥ १,१४७.
नित्यं मन्दज्वरो रूक्षः शीतकृच्छ्रेण गच्छति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेदङ्गबलाशकः ॥ १,१४७.
हरिद्राभेदवर्णाभस्तद्वल्लेपं प्रमेहति । स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः ॥ १,१४७.
कफवातौ समौ यत्र हीनपित्तस्य देहिनः । तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो ज्वरः ॥ १,१४७.
दिवाकरार्पितबले व्यायामाच्च विशोषिते । शरीरे नियतं वाताज्ज्वरः स्यात्पौर्वरात्रिकः ॥ १,१४७.
आमाशये यदात्मस्थे श्लेष्मपित्ते ह्यधः स्थिते । तदर्धं शीतलं देहे ह्यर्धं चोष्णं प्रजायते ॥ १,१४७.
काये पित्तं यदा न्यस्तं श्लेष्मा चान्ते व्यवस्थितः । उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥ १,१४७.
रसरक्ताश्रयः साध्यो मांस मेदोगतश्च यः । अस्थिमज्जागतः कृच्छ्रस्तैस्तैः स्वाङ्गैर्हतप्रभः ॥ १,१४७.
विसंज्ञो ज्रवेगार्तः सक्रोध इव वीक्षते । सदोषमुष्णञ्च सदा शकृन्मुञ्चति वेगवत् ॥ १,१४७.
देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् । स्वेदः क्षुवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगत्ज्वरलक्षणानि ॥ १,१४७.
श्रीगरुडमहापुराणम् १४८ धन्वन्तरिरुवाच । अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् । भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ १,१४८.