कुर्याच्च पित्तं शरदि तस्य चानुचरः कफः । तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥ १,१४७.
कफो वसन्ते तमपि वातपित्तं भवेदनु । बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः ॥ १,१४७.
सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः । ज्वरोपद्रवतीक्ष्णत्वं मन्दाग्निर्बहुमूत्रता ॥ १,१४७.
न प्रवृत्तिर्न विजीर्णा न क्षुत्सामज्वराकृतिः । ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ॥ १,१४७.
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् । जीर्णतामविपर्यासात्सप्तरात्रं च लङ्घनम् ॥ १,१४७.
ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात् । प्रायशः सन्निपातेन भूयसामुपदिश्यते ॥ १,१४७.
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ । धातुमूत्रशकृद्वाहिस्नोत सां व्यापिनो मलाः ॥ १,१४७.
तापयन्तस्तनुं सर्वां तुल्यदृष्ट्यादिवर्धिताः । बलिनो गुरवस्तस्याविशेषेण रसाश्रिताः ॥ १,१४७.
सततं निष्प्रतिद्वन्द्वाज्वरं कुर्युः सुदुः सहम् । मलं ज्वरोष्णधातून्वा स शीघ्रं क्षपयेत्ततः ॥ १,१४७.
सर्वाकारं रसादीनां शुद्ध्यासुद्ध्यापि वा क्रमात् । वातपित्तकफैः सप्तद शद्वादशवासरात् ॥ १,१४७.
प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च । इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ॥ १,१४७.
द्विगुणा सप्तमी या च नवम्येकादशी तथा । एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥ १,१४७.
शुद्ध्याशुद्ध्या ज्वरः कालं दीर्घमप्यत्र वर्तते । कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम् ॥ १,१४७.
अल्पोऽपि दोषो दुष्ट्यादेर्लब्ध्वान्यतमतो बलम् । स प्रत्यनीको विषमं यस्माद्वृद्धिक्षयान्वितः ॥ १,१४७.
सविक्षेपो ज्वरं कुर्याद्विषमक्षयवृद्धिभाक् । दोषः प्रवर्तते तेषां स्वे काले ज्वरयन्बली ॥ १,१४७.
निवर्तते पुनश्चैव प्रत्यनीकबलाबलः । क्षीणदोषो ज्वरः सूक्ष्मो रसादिष्वेव लीयते ॥ १,१४७.
लीनत्वात्कार्श्यवैवर्ण्यजाड्यादीनां दधाति सः । आसन्नविकृतास्यत्वात्स्रोतसां रसवाहिनाम् ॥ १,१४७.
आशु सर्वस्य वपुषो व्याप्तिदोषो न जायते । सन्तः सततस्तेन विपरीतो विपर्ययात् ॥ १,१४७.
विषमो विषमारम्भः क्षपाकालेन सङ्गवान् । दोषो रक्ताश्रयः प्रायः करोति सन्ततं ज्वरम् ॥ १,१४७.
अहोरात्रस्य सन्धौ स्यात्सकृदन्येद्युराश्रितः । तस्मिन्मांसवहा नाडी मेदोनाडी तृतीयके ॥ १,१४७.
ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः । सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः ॥ १,१४७.
चतुर्थको मलैर्मेदोमज्जास्थ्यन्यतरे स्थितः । मज्जास्थ एव ह्यपरः प्रभावमनुदर्शयेत् ॥ १,१४७.
द्विधा कफोणिजङ्घाभ्यां स पूर्वं शिरसानिलात् । अस्थिमज्जोरुपगतश्चतुर्थकविपर्ययः ॥ १,१४७.
त्रिधा त्र्यहं ज्वरयति दिनमेकन्तु मुञ्चति । बला बलेन दोषणामन्यचेष्टादिजन्मनाम् ॥ १,१४७.
पक्रानामविपर्यासात्सप्तरात्रञ्च लङ्घयेत् । ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदातदा ॥ १,१४७.
गम्भीरधातुचारित्वात्सन्निपातेन सम्भवात् । तुल्योच्छ्रयाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥ १,१४७.
सूक्षामात्सूक्ष्मज्वरेष्वेषु दूरद्दूरतरेषु च । दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥ १,१४७.
याति देहञ्च नाशेषं सन्तापादीन्करोत्यतः । क्रमो यत्नेन विच्छिन्नः सतापो लक्ष्यते ज्वरः ॥ १,१४७.
विषमो विषमारम्भः क्षपाकालानुसारवान् । यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथायथम् ॥ १,१४७.
कालेनाप्नोति सदृशान्स रसादींस्तथातथा । दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥ १,१४७.