क्षुत्क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् । दोषप्रवृत्तिरष्टाहान्निरामज्वरलक्षणम् ॥ १,१४७.
यथा स्वलिङ्गं संसर्गे ज्वरसंसर्गजोऽपि वा । शिरोर्तिमूर्छावमिदेहदाहकण्ठास्यशोषारुचिपर्वभेदाः । उन्निद्रता संभ्रमरोमहर्षा जृंभातिवाक्त्वं पवनात्सपित्तात् ॥ १,१४७.
तापहान्यरुचिपर्वशिरोरुक्ष्ठीवनश्वसनकासविवर्णाः । शीतजाड्यतिमिरभ्रमितन्द्राश्लेष्मवातजनितज्वरलिङ्गम् ॥ १,१४७.
शीतस्तम्भस्वेददाहाव्यवस्थास्तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः । मोहस्तन्द्रालिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥ १,१४७.
सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः । तदुच्छीतं महा निद्रा दिवा जागरणं निशि ॥ १,१४७.
सदा वा नैव वा निद्रा महास्वेदो हि नैव वा । गीतनर्तनहास्यादिः प्रकृतेहाप्रवर्तनम् ॥ १,१४७.
साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी । अक्षिणी पिण्डिकापार्श्वशिरः पर्वास्थिरुग्भ्रमः ॥ १,१४७.
सस्वनौ सरुजौ कर्णौ महाशीतौ हि नैव वा । परिदग्धा खरा जिह्वा गुरुस्त्रस्ताङ्गसन्धिता ॥ १,१४७.
ष्ठीवनं रक्तपित्तस्य लोठनं शिरसोऽतितृट् । कोष्ठानां श्यावरक्तानां मण्डलानां च दर्शनम् ॥ १,१४७.
हृद्व्यथा मलंससर्गः प्रवृत्तिर्वाल्पशोऽति वा । स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापितः ॥ १,१४७.
दोषपाकश्चिरं तन्द्रा प्रततं कण्ठकूजनम् । सन्निपातमभिन्यासं तं ब्रूयाच्च हतौजसम् ॥ १,१४७.
वायुना कण्ठरुद्धेन पित्तमन्तः सुपीडितम् । व्यवायित्वाच्च सौख्याच्च बहिर्मर्गं प्रपद्यते । तेन हारिद्रनेत्रत्वं सन्निपातोद्भवेज्वरे ॥ १,१४७.
दोषे विवृद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षणः । सान्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा ॥ १,१४७.
अन्यत्र सन्निपातोत्थं यत्र पित्तं पृथक्स्थितम् । त्वचि कोष्ठे च वा दाहं विदधाति पुरोऽनु वा ॥ १,१४७.
तद्वद्वातकफे शीतं दाहादिर्दुस्तरस्तयोः । शीतादौ तत्र पित्तेन कफे स्यान्दितशोषिते ॥ १,१४७.
पित्ते शान्तेऽथ वै मूर्छा मदस्तृष्णा च जायते । दाहादौ पुनरन्तेषु तन्द्रालस्ये वमिः क्रमात् ॥ १,१४७.
आगन्तुरभिगाताभिषङ्गशापाभिचारतः । चतुर्धा तु कृतः स्वेदो दाहाद्यैरभिघातजः ॥ १,१४७.
श्रमाच्च तस्मिन्पवनः प्रायो रक्तं प्रदूषयन् । सव्यथाशोकवैवर्ण्यं सरुजं कुरुते ज्वरम् ॥ १,१४७.
ग्रहावेशौषधिविषक्रोधभीशोककामजः ॥ १,१४७.
अभिषङ्गग्रहोऽप्यस्मिन्नकस्माद्वासरोदने । ओषधीगन्धजे मूर्छा शिरोरुग्वमथुः क्षयः ॥ १,१४७.
विषान्मूर्छातिसारश्च श्यावता दाहकृद्भ्रमः । क्रोधात्कम्पः शिरोरुक्च प्रलापो भयशोकजे ॥ १,१४७.
कामाद्भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयाः । ग्रहादौ सन्निपातस्य रूपादौ मरुतस्तयोः ॥ १,१४७.
कोपात्कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ । सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ ॥ १,१४७.
तन्त्रा भिचारिकैर्मन्त्रैर्दूयमानञ्च तप्यते । पूर्वञ्चैतस्ततो देहस्ततो विस्फोटदिग्भ्रमैः ॥ १,१४७.
सदाहमूर्छाग्रस्तस्य प्रत्यहं वर्धते ज्वरः । इति ज्वरोऽष्टधा दृष्टः समासाद्द्विबिधस्तु सः ॥ १,१४७.
शारीरो मानसः सौम्यस्तीक्ष्णोंन्तर्बहिराश्रयः । प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः ॥ १,१४७.
पूर्वं शरिरे शरीरे तापो मनसि मानसे । पवनैर्योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् ॥ १,१४७.
दाहः पित्तयुते मिश्रं मिश्रेऽन्तः संश्रये पुनः । ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः ॥ १,१४७.
बहिरेव बहिर्वेगे तापोऽपि च स साधितः । वर्षाशरद्वसन्तेषु वाताद्यैः प्रकृतः क्रमात् ॥ १,१४७.
वैकृतोऽन्यः स दुः साध्यः प्रायश्च प्राकृतोऽनिलात् । वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितं ज्वरम् ॥ १,१४७.