रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्ट आमयः । यक्ष्मातङ्कगदा बाधाः शब्दाः पर्यायवाचिनः ॥ १,१४६.
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा । संप्राप्तिश्चैति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ १,१४६.
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ १,१४६.
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥ १,१४६.
तदेव व्यक्ततां यातं रूपमित्यभिधीयते । संस्थानां व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ॥ १,१४६.
हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् । औषधान्नविहाराणामुपयोगं सुखावहम् ॥ १,१४६.
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः । विपरीतोऽनुपशयो व्याध्यसात्म्येतिसंज्ञितः ॥ १,१४६.
यथा दुष्टेन दोषेण यथा चानुविसर्पता । निर्वृत्तिरामयस्यासौ संप्राप्तिरभिधीयते ॥ १,१४६.
संख्याविकल्पप्राधान्यबलकालविशेषतः । सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥ १,१४६.
दोषाणां समवेतानां विकल्पोशांशकल्पना । स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥ १,१४६.
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषषणम् । नक्तन्दिनार्धभुक्तांशैर्व्याधिकालो यथामलम् ॥ १,१४६.
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते । सर्वेषामेव रोगाणां निदानं कुपिता मलाः ॥ १,१४६.
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् । अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥ १,१४६.
तिक्तोषणकषायाम्लरूक्षाप्रमितयोजनैः । धावनोदीरणनिशाजागरात्युच्चभाषणैः ॥ १,१४६.
क्रियाभियोगबीशोकचिन्ताव्यायाममैथुनैः । ग्रीष्माहोरात्रभुक्त्यन्ते प्रकुप्यति समीरणः ॥ १,१४६.
पित्तं कट्वालतीक्ष्णोष्णकटुक्रोधविदाहिभिः । शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च ॥ १,१४६.
स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः । आस्यास्वप्नसुखाजीर्णदिवास्वप्नादिबृंहणैः ॥ १,१४६.
प्रिच्छर्दनाद्ययोगेन भुक्तान्नस्याप्यजीर्णके । पूर्वाह्ने पूर्वरात्रे च श्लेष्मा वक्ष्यामि सङ्करान् ॥ १,१४६.
मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः । संकीर्णाजीर्णविषमविरुद्धाद्यशनादिभिः ॥ १,१४६.
व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः । पिण्याकमृत्यवसरपूतिशुष्ककृशमिषैः ॥ १,१४६.
दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्ततः । धातोर्दुष्टात्पुरो वाताद्द्विग्रहावेशविप्लवात् ॥ १,१४६.
दुष्टामान्नैरतिश्लैष्मग्रहैर्जन्मर्क्षपीडनात् । मिथ्यायोगाच्च विविधात्पापानाञ्च निषेवणात् । स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः ॥ १,१४६.
प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः । रसायनं प्रपद्याशु दोषा देहे विकुर्वते ॥ १,१४६.
श्रीगरुडमहापुराणम् १४७ धन्वन्तरिरुवाच । वक्ष्ये ज्वरनिदानं हि सर्वज्वरविबुद्धये । ज्वरो रोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः । क्रुद्धदक्षाध्वरध्वंसिरुद्रोर्ध्वनयनोद्भवः ॥ १,१४७.
तत्सन्तापो मोहमयः सन्तापात्मापचारजः । विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ १,१४७.
पाकलो गजेष्वभितापो वाजिष्वलर्कः कुक्रुरेषु । इन्द्रमदो जलदेष्वप्सु नीलिका ज्योतिरोषधीषु भूम्यामूषरो नाम ॥ १,१४७.
हृल्लासश्छर्दनं कासः स्तंभः शैत्य त्वगादिषु । अङ्गेषु च समुद्भूताः पिडकाश्च कफोद्भवे ॥ १,१४७.
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा । निदानोक्तोनुपशयो विपरीतोपशायिता ॥ १,१४७.
अरुचिश्चाविपाकश्च स्तंभमालस्यमेव च । हृद्दाहश्च विपाकश्च तन्द्रा चालस्यमेव च । वस्तिर्विमर्दावनया दोषाणामप्रवर्तनम् ॥ १,१४७.
लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं मुखम् । स्वच्छमुष्णगुरुत्वञ्च गात्राणां बहुमूत्रता । न विजीर्णं न च म्लानिर्ज्वरस्यामस्य लक्षणम् ॥ १,१४७.