द्रौपद्यां रुद्यमानायामश्वत्थाम्नः शिरोमणिम् । ऐषिकास्त्रेण तं जित्वा जग्राहार्जुन उत्तमम् ॥ १,१४५.
युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसंकुलम् । स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान् ॥ १,१४५.
आश्वासितोऽथ भीष्मेण राज्यञ्चैवाकरोन्महत् । विष्णुमीजेऽश्वमेधेन विधिवद्दक्षिणावता ॥ १,१४५.
राज्ये परीक्षितं स्थाप्य यादवानां विनाशनम् । श्रुत्वा तु मौसले राजा जप्त्वा नामसहस्रकम् ॥ १,१४५.
विष्णोः स्वर्गं जगामाथ भीमाद्यैर्भ्रातृभिर्युतः । वासुदेवः पुनर्बुद्धसंमोहाय सुरद्विषाम् ॥ १,१४५.
कल्किर्विष्णुश्च भविता शंभलग्रामके पुनः । अश्वारूढोऽखिलांल्लोकांस्तदा भस्मीकरिष्यति ॥ १,१४५.
देवादीनां रक्षणाय ह्यधर्महारणाय च । दुष्टानाञ्च वधार्थाय ह्यवतारं करोति च ॥ १,१४५.
यथा धन्वन्तरिर्वंशे जातः क्षीरोदमन्थने । देवादीनां जीवनाय ह्यायुर्वेदमुवाच ह ॥ १,१४५.
विश्वामित्रसुतायैव शुश्रुताय महात्मने । भारतांश्चावतारांश्च श्रुत्वा स्वर्गं व्रजेन्नरः ॥ १,१४५.
श्रीगरुडमहापुराणम् १४६ धन्वन्तरिरुवाच । सर्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः । आत्रेयाद्यैर्मुनिवरैर्यथा पूर्वमुदीरितम् ॥ १,१४६.
रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्ट आमयः । यक्ष्मातङ्कगदा बाधाः शब्दाः पर्यायवाचिनः ॥ १,१४६.
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा । संप्राप्तिश्चैति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ १,१४६.
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ १,१४६.
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥ १,१४६.
तदेव व्यक्ततां यातं रूपमित्यभिधीयते । संस्थानां व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ॥ १,१४६.
हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् । औषधान्नविहाराणामुपयोगं सुखावहम् ॥ १,१४६.
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः । विपरीतोऽनुपशयो व्याध्यसात्म्येतिसंज्ञितः ॥ १,१४६.
यथा दुष्टेन दोषेण यथा चानुविसर्पता । निर्वृत्तिरामयस्यासौ संप्राप्तिरभिधीयते ॥ १,१४६.
संख्याविकल्पप्राधान्यबलकालविशेषतः । सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥ १,१४६.
दोषाणां समवेतानां विकल्पोशांशकल्पना । स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥ १,१४६.
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषषणम् । नक्तन्दिनार्धभुक्तांशैर्व्याधिकालो यथामलम् ॥ १,१४६.
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते । सर्वेषामेव रोगाणां निदानं कुपिता मलाः ॥ १,१४६.
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् । अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥ १,१४६.
तिक्तोषणकषायाम्लरूक्षाप्रमितयोजनैः । धावनोदीरणनिशाजागरात्युच्चभाषणैः ॥ १,१४६.
क्रियाभियोगबीशोकचिन्ताव्यायाममैथुनैः । ग्रीष्माहोरात्रभुक्त्यन्ते प्रकुप्यति समीरणः ॥ १,१४६.
पित्तं कट्वालतीक्ष्णोष्णकटुक्रोधविदाहिभिः । शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च ॥ १,१४६.
स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः । आस्यास्वप्नसुखाजीर्णदिवास्वप्नादिबृंहणैः ॥ १,१४६.
प्रिच्छर्दनाद्ययोगेन भुक्तान्नस्याप्यजीर्णके । पूर्वाह्ने पूर्वरात्रे च श्लेष्मा वक्ष्यामि सङ्करान् ॥ १,१४६.
मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः । संकीर्णाजीर्णविषमविरुद्धाद्यशनादिभिः ॥ १,१४६.
व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः । पिण्याकमृत्यवसरपूतिशुष्ककृशमिषैः ॥ १,१४६.