शन्तनोः सत्यवत्यां च द्वौ पुत्रौ संबभूवतुः । चित्राङ्गदन्तु गन्धर्वः पुत्रं चित्राङ्गदोऽवधीत् ॥ १,१४५.
अन्यो विचित्रवीर्योऽभूत्काशीराजसुतापतिः । विचित्रवीर्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ॥ १,१४५.
धृतराष्टोऽम्बिकापुत्रः पाण्डुराम्बालिकासुतः । भुजिष्यायान्तु विदुरो गान्धार्यां धृतराष्ट्रतः ॥ १,१४५.
दुर्योधनप्रधानास्तु शतसंख्या महाबलाः । पाण्डोः कुन्त्याञ्च माद्यां च पञ्च पुत्राः प्रजज्ञिरे ॥ १,१४५.
युधिष्ठिरो भीमसेनो ह्यर्जुनो नकुलस्तथा । सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥ १,१४५.
कुरुपाण्डवयोर्वैरं दैवयो गाद्बभूव ह । दुर्योधनेनाधीरेण पाण्डवाः समुपद्रुताः ॥ १,१४५.
दग्धा जतुगृहे वीरास्ते मुक्ताः स्वधियामलाः ॥ १,१४५.
ततस्तदेकचक्रायां ब्राह्मणस्य निवेशने । विविशुस्ते महात्मानो निहत्य बकराक्षसम् ॥ १,१४५.
ततः पाञ्चालविषयेद्रौपद्यास्ते स्वयंवरम् । विज्ञाय वीर्यशुल्कान्तां पाण्डवा उपयेमिरे ॥ १,१४५.
द्रोणभीष्मानुमत्या तु धृतराष्ट्रः समानयत् । अर्द्वराज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥ १,१४५.
राजसूयन्ततश्चक्रुः सभां कृत्वा यतव्रताः । अर्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान्प्रियाम् । वासुदेवस्य भगिनीमनुमत्या मुरद्विषः ॥ १,१४५.
नन्दिघोषं रथं दिव्यमग्नेर्घनुरनुत्तमम् । गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् । अक्षयान्सायकांश्चैव तथाभेद्यञ्च दंशनम् ॥ १,१४५.
स तेन धनुषा वीरः पाण्डवो जातवेदसम् । कृष्णद्वितीयो बीभत्सुरतर्पयत वीर्यवान् ॥ १,१४५.
नृपान्दिग्विजये जित्वा रत्नान्यादाय वै ददौ । युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥ १,१४५.
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः परिवारितः । जितो दुर्योधनेनैव मायाद्यूतेन पापिना । कर्णदुः शासनमते स्थितेन शकुनेर्मते ॥ १,१४५.
अथ द्वादश वर्षाणि वने तेपुर्महत्तपः । सधौम्या द्रौपदीषष्ठा मुनिवृन्दाभिसंवृताः ॥ १,१४५.
ययुर्विराटनगरं गुप्तरूपेण संश्रिताः । वर्षमेकं महाप्राज्ञा गोग्रहात्तमपालयन् ॥ १,१४५.
तते याताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः । पञ्चग्रामानर्धराज्याद्वीरा दुर्योधनं नृपम् ॥ १,१४५.
नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः । अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः ॥ १,१४५.
एकादशभिरुद्युक्ता युक्ता दुर्योधनादयः । आसीद्युद्धं संकुलं च देवासुररणोपमम् ॥ १,१४५.
भीष्मः सेनापतिरभूदादौ दौर्योधने बले । पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह । शस्त्राशस्त्रि महाघोरं धसरात्रं शराशरि ॥ १,१४५.
शिखण्ड्यर्जुनबाणैश्च भीष्मः शरशतैश्चितः । उत्तरायणमावीक्ष्य ध्यात्वा देवं गदाधरम् ॥ १,१४५.
उक्त्वा धर्मान्बहुविधांस्तर्पयित्वा पितॄन्बहून् । आनन्दे तु पदे लीनो विमले मुक्तकिल्बिषे ॥ १,१४५.
ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन बीर्यवान् । दिनानि पञ्च तद्युद्धमासीत्परमदारुणम् ॥ १,१४५.
यत्र ते पृथिवीपाला हताः पार्थेन संगरे । शोकसागरमासाद्य द्रोणोऽपि स्वर्गमाप्तवान् ॥ १,१४५.
ततः कर्णा ययौ योद्धुमर्जुनेन मिहात्मना । दिनद्वयं महायुद्धं कृत्वा पार्थास्त्रसागरे । निमग्नः सूर्यलोकन्तु ततः प्राप स वीर्यवान् ॥ १,१४५.
ततः शल्यो ययौ योद्धुं धर्मराजेन धीमता । दिनार्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः ॥ १,१४५.
दुर्योधनोऽथ वेगेन गदामादाय वीर्यवान् । अभ्यधावत वै भीभं कालान्तकयमोपमः ॥ १,१४५.
अथ भीमेन वीरेण गदया विनिपातितः । अश्वत्थामा गतो द्रौणिः सुप्तसैन्यं ततो निशि ॥ १,१४५.
जघान बाहुवीर्येण पितुर्वधमनुस्मरन् । धृष्टद्युम्नं जघानाथ द्रौपदेयांश्च वीर्यवान् ॥ १,१४५.