चाणूरो मुष्टिको मल्लः कंसो मञ्चान्निपातितः । रुक्मिणीसत्यभामाद्याः ह्यष्टौ पत्न्यो हरेः पराः ॥ १,१४४.
षोढश स्त्रीसहस्राणि ह्यन्यान्यास महात्मनः । तासां पुत्राश्च पौत्राद्याः शतशोऽथ सहस्रशः ॥ १,१४४.
रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीच्छंबरञ्च यः । तस्य पुत्रोऽनिरुद्धोऽभूदुषाबाणसुतापतिः ॥ १,१४४.
हरिशकरयोर्यत्र महायुद्धं बभूव ह । बाणबाहुसहस्रञ्च च्छिन्नं बाहुद्वयं ह्यभूत् ॥ १,१४४.
नरको निहतो येन पारिजातं जहार यः । बलश्च शिसुपालश्च हतश्च द्विविदः कपिः ॥ १,१४४.
अनिरुद्धादभूद्वज्रः स च राजा गते हरौ । सन्दीपनिं गुरुञ्चक्रे सपुत्रञ्च चकार सः । मथुरायां चोग्रसेनं पालनं च दिवौकसाम् ॥ १,१४४.
श्रीगरुडमहापुराणम् १४५ ब्रह्मोवाच । भारतं संप्रवक्ष्यामि भारावतरणं भुवः । चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥ १,१४५.
विष्णुनाभ्यब्जतो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः । सोमस्ततो बुधस्तस्मादिलायां च पुरूरवाः ॥ १,१४५.
तस्यायुस्तत्र वंशेऽभूद्ययातिर्भरतः कुरुः । शन्तनुस्तस्य वंशेऽभूद्गङ्गायां शन्तनोः सुतः ॥ १,१४५.
भीष्मः सर्वगुणैयुक्तो ब्रह्मवैवर्तपारगः ॥ १,१४५.
शन्तनोः सत्यवत्यां च द्वौ पुत्रौ संबभूवतुः । चित्राङ्गदन्तु गन्धर्वः पुत्रं चित्राङ्गदोऽवधीत् ॥ १,१४५.
अन्यो विचित्रवीर्योऽभूत्काशीराजसुतापतिः । विचित्रवीर्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ॥ १,१४५.
धृतराष्टोऽम्बिकापुत्रः पाण्डुराम्बालिकासुतः । भुजिष्यायान्तु विदुरो गान्धार्यां धृतराष्ट्रतः ॥ १,१४५.
दुर्योधनप्रधानास्तु शतसंख्या महाबलाः । पाण्डोः कुन्त्याञ्च माद्यां च पञ्च पुत्राः प्रजज्ञिरे ॥ १,१४५.
युधिष्ठिरो भीमसेनो ह्यर्जुनो नकुलस्तथा । सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥ १,१४५.
कुरुपाण्डवयोर्वैरं दैवयो गाद्बभूव ह । दुर्योधनेनाधीरेण पाण्डवाः समुपद्रुताः ॥ १,१४५.
दग्धा जतुगृहे वीरास्ते मुक्ताः स्वधियामलाः ॥ १,१४५.
ततस्तदेकचक्रायां ब्राह्मणस्य निवेशने । विविशुस्ते महात्मानो निहत्य बकराक्षसम् ॥ १,१४५.
ततः पाञ्चालविषयेद्रौपद्यास्ते स्वयंवरम् । विज्ञाय वीर्यशुल्कान्तां पाण्डवा उपयेमिरे ॥ १,१४५.
द्रोणभीष्मानुमत्या तु धृतराष्ट्रः समानयत् । अर्द्वराज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥ १,१४५.
राजसूयन्ततश्चक्रुः सभां कृत्वा यतव्रताः । अर्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान्प्रियाम् । वासुदेवस्य भगिनीमनुमत्या मुरद्विषः ॥ १,१४५.
नन्दिघोषं रथं दिव्यमग्नेर्घनुरनुत्तमम् । गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् । अक्षयान्सायकांश्चैव तथाभेद्यञ्च दंशनम् ॥ १,१४५.
स तेन धनुषा वीरः पाण्डवो जातवेदसम् । कृष्णद्वितीयो बीभत्सुरतर्पयत वीर्यवान् ॥ १,१४५.
नृपान्दिग्विजये जित्वा रत्नान्यादाय वै ददौ । युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥ १,१४५.
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः परिवारितः । जितो दुर्योधनेनैव मायाद्यूतेन पापिना । कर्णदुः शासनमते स्थितेन शकुनेर्मते ॥ १,१४५.
अथ द्वादश वर्षाणि वने तेपुर्महत्तपः । सधौम्या द्रौपदीषष्ठा मुनिवृन्दाभिसंवृताः ॥ १,१४५.
ययुर्विराटनगरं गुप्तरूपेण संश्रिताः । वर्षमेकं महाप्राज्ञा गोग्रहात्तमपालयन् ॥ १,१४५.
तते याताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः । पञ्चग्रामानर्धराज्याद्वीरा दुर्योधनं नृपम् ॥ १,१४५.
नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः । अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः ॥ १,१४५.
एकादशभिरुद्युक्ता युक्ता दुर्योधनादयः । आसीद्युद्धं संकुलं च देवासुररणोपमम् ॥ १,१४५.