सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः । सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् ॥ १,१४३.
तत्र राज्यं चकाराथ पुत्त्रवत्पालयन्प्रजाः । दशाश्वमेधानाहृत्य गयाशिरसि पातनम् ॥ १,१४३.
पिण्डानां विधिवत्कृत्वा दत्त्वा दानानि राघवः । पुत्रौ कुशलवौ दृष्ट्वा तौ च राज्येऽभ्यषेचयत् ॥ १,१४३.
एकादशसहस्राणि रामो राज्यमकारयत् । शत्रुघ्नो लवणं जघ्ने शैलूषं भतस्ततः ॥ १,१४३.
अगस्त्यादीन्मुनीन्नत्वा श्रुत्वोत्पत्तिञ्च रक्षसाम् । स्वर्गं गतो जनैः सार्धमयोध्यास्थैः कृतार्थकः ॥ १,१४३.
श्रीगरुडमहापुराणम् १४४ ब्रह्मोवाच । हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यमुत्तमम् । वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत् ॥ १,१४४.
धर्मादिरक्षणार्थाय ह्यधर्मादिविनष्टये । कृष्णः पीत्वा स्तनौ गाढं पूतनामनयत्क्षयम् ॥ १,१४४.
शकटः परिवृत्तोऽथ भग्नौ च यमलार्जुनौ । दमितः कालियो नागो धेनुको विनिपातितः ॥ १,१४४.
धृतो गोवर्धनः शैल इन्द्रेण परिपूजितः । भारावतरणं चक्रे प्रतिज्ञां कृतवान्हरिः ॥ १,१४४.
रक्षणायार्जुनादेश्च ह्यरिष्टादिर्निपातितः । केशी विनिहतो दैत्यो गोपाद्याः परितोषिताः ॥ १,१४४.
चाणूरो मुष्टिको मल्लः कंसो मञ्चान्निपातितः । रुक्मिणीसत्यभामाद्याः ह्यष्टौ पत्न्यो हरेः पराः ॥ १,१४४.
षोढश स्त्रीसहस्राणि ह्यन्यान्यास महात्मनः । तासां पुत्राश्च पौत्राद्याः शतशोऽथ सहस्रशः ॥ १,१४४.
रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीच्छंबरञ्च यः । तस्य पुत्रोऽनिरुद्धोऽभूदुषाबाणसुतापतिः ॥ १,१४४.
हरिशकरयोर्यत्र महायुद्धं बभूव ह । बाणबाहुसहस्रञ्च च्छिन्नं बाहुद्वयं ह्यभूत् ॥ १,१४४.
नरको निहतो येन पारिजातं जहार यः । बलश्च शिसुपालश्च हतश्च द्विविदः कपिः ॥ १,१४४.
अनिरुद्धादभूद्वज्रः स च राजा गते हरौ । सन्दीपनिं गुरुञ्चक्रे सपुत्रञ्च चकार सः । मथुरायां चोग्रसेनं पालनं च दिवौकसाम् ॥ १,१४४.
श्रीगरुडमहापुराणम् १४५ ब्रह्मोवाच । भारतं संप्रवक्ष्यामि भारावतरणं भुवः । चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥ १,१४५.
विष्णुनाभ्यब्जतो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः । सोमस्ततो बुधस्तस्मादिलायां च पुरूरवाः ॥ १,१४५.
तस्यायुस्तत्र वंशेऽभूद्ययातिर्भरतः कुरुः । शन्तनुस्तस्य वंशेऽभूद्गङ्गायां शन्तनोः सुतः ॥ १,१४५.
भीष्मः सर्वगुणैयुक्तो ब्रह्मवैवर्तपारगः ॥ १,१४५.
शन्तनोः सत्यवत्यां च द्वौ पुत्रौ संबभूवतुः । चित्राङ्गदन्तु गन्धर्वः पुत्रं चित्राङ्गदोऽवधीत् ॥ १,१४५.
अन्यो विचित्रवीर्योऽभूत्काशीराजसुतापतिः । विचित्रवीर्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ॥ १,१४५.
धृतराष्टोऽम्बिकापुत्रः पाण्डुराम्बालिकासुतः । भुजिष्यायान्तु विदुरो गान्धार्यां धृतराष्ट्रतः ॥ १,१४५.
दुर्योधनप्रधानास्तु शतसंख्या महाबलाः । पाण्डोः कुन्त्याञ्च माद्यां च पञ्च पुत्राः प्रजज्ञिरे ॥ १,१४५.
युधिष्ठिरो भीमसेनो ह्यर्जुनो नकुलस्तथा । सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥ १,१४५.
कुरुपाण्डवयोर्वैरं दैवयो गाद्बभूव ह । दुर्योधनेनाधीरेण पाण्डवाः समुपद्रुताः ॥ १,१४५.
दग्धा जतुगृहे वीरास्ते मुक्ताः स्वधियामलाः ॥ १,१४५.
ततस्तदेकचक्रायां ब्राह्मणस्य निवेशने । विविशुस्ते महात्मानो निहत्य बकराक्षसम् ॥ १,१४५.
ततः पाञ्चालविषयेद्रौपद्यास्ते स्वयंवरम् । विज्ञाय वीर्यशुल्कान्तां पाण्डवा उपयेमिरे ॥ १,१४५.
द्रोणभीष्मानुमत्या तु धृतराष्ट्रः समानयत् । अर्द्वराज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥ १,१४५.