कपिर्ज्वलितलाङ्गूलो लङ्कां देहेऽ महाबलः । दग्ध्वा लङ्कां समायातो रामपार्श्वं स वानरः ॥ १,१४३.
जग्ध्वा फलं मधुवने दृष्टा सीतत्यवेदयत् । वेणीरत्नञ्च रामाय रामो लङ्कापुर्री ययौ ॥ १,१४३.
ससुग्रीवः स हनुमान्सांगदश्च सलक्ष्मणः । विभीषणोऽपि सम्प्राप्तः शरणं राघवं प्रति ॥ १,१४३.
लङ्कैश्वर्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम् । रामो नलेन सेतुञ्च कृत्वाब्धौ चोत्ततार तम् ॥ १,१४३.
सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्शह । अथ ते वानरा वीरा नीलाङ्गदनलादयः ॥ १,१४३.
धूम्रधूम्राक्षवीरेन्द्रा जाम्बवत्प्रमुखास्तदा । मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे ॥ १,१४३.
राक्षसांश्च महाकायान्कालाञ्जनचयोपमान् । रामः सलक्ष्मणो हत्वा सकपिः सर्वराक्षसान् ॥ १,१४३.
विद्युज्जिह्वञ्च धूम्राक्षं देवान्तकनरान्त कौ । महोदरमहापार्श्वावतिकायं महाबलम् ॥ १,१४३.
कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् । प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् ॥ १,१४३.
रावणिं लक्ष्मणोऽच्छिन्त ह्यस्त्राद्यै राघवो बली । निकृत्य बाहुचक्राणि रावणन्तु न्यपातयन् ॥ १,१४३.
सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः । सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् ॥ १,१४३.
तत्र राज्यं चकाराथ पुत्त्रवत्पालयन्प्रजाः । दशाश्वमेधानाहृत्य गयाशिरसि पातनम् ॥ १,१४३.
पिण्डानां विधिवत्कृत्वा दत्त्वा दानानि राघवः । पुत्रौ कुशलवौ दृष्ट्वा तौ च राज्येऽभ्यषेचयत् ॥ १,१४३.
एकादशसहस्राणि रामो राज्यमकारयत् । शत्रुघ्नो लवणं जघ्ने शैलूषं भतस्ततः ॥ १,१४३.
अगस्त्यादीन्मुनीन्नत्वा श्रुत्वोत्पत्तिञ्च रक्षसाम् । स्वर्गं गतो जनैः सार्धमयोध्यास्थैः कृतार्थकः ॥ १,१४३.
श्रीगरुडमहापुराणम् १४४ ब्रह्मोवाच । हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यमुत्तमम् । वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत् ॥ १,१४४.
धर्मादिरक्षणार्थाय ह्यधर्मादिविनष्टये । कृष्णः पीत्वा स्तनौ गाढं पूतनामनयत्क्षयम् ॥ १,१४४.
शकटः परिवृत्तोऽथ भग्नौ च यमलार्जुनौ । दमितः कालियो नागो धेनुको विनिपातितः ॥ १,१४४.
धृतो गोवर्धनः शैल इन्द्रेण परिपूजितः । भारावतरणं चक्रे प्रतिज्ञां कृतवान्हरिः ॥ १,१४४.
रक्षणायार्जुनादेश्च ह्यरिष्टादिर्निपातितः । केशी विनिहतो दैत्यो गोपाद्याः परितोषिताः ॥ १,१४४.
चाणूरो मुष्टिको मल्लः कंसो मञ्चान्निपातितः । रुक्मिणीसत्यभामाद्याः ह्यष्टौ पत्न्यो हरेः पराः ॥ १,१४४.
षोढश स्त्रीसहस्राणि ह्यन्यान्यास महात्मनः । तासां पुत्राश्च पौत्राद्याः शतशोऽथ सहस्रशः ॥ १,१४४.
रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीच्छंबरञ्च यः । तस्य पुत्रोऽनिरुद्धोऽभूदुषाबाणसुतापतिः ॥ १,१४४.
हरिशकरयोर्यत्र महायुद्धं बभूव ह । बाणबाहुसहस्रञ्च च्छिन्नं बाहुद्वयं ह्यभूत् ॥ १,१४४.
नरको निहतो येन पारिजातं जहार यः । बलश्च शिसुपालश्च हतश्च द्विविदः कपिः ॥ १,१४४.
अनिरुद्धादभूद्वज्रः स च राजा गते हरौ । सन्दीपनिं गुरुञ्चक्रे सपुत्रञ्च चकार सः । मथुरायां चोग्रसेनं पालनं च दिवौकसाम् ॥ १,१४४.
श्रीगरुडमहापुराणम् १४५ ब्रह्मोवाच । भारतं संप्रवक्ष्यामि भारावतरणं भुवः । चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥ १,१४५.
विष्णुनाभ्यब्जतो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः । सोमस्ततो बुधस्तस्मादिलायां च पुरूरवाः ॥ १,१४५.
तस्यायुस्तत्र वंशेऽभूद्ययातिर्भरतः कुरुः । शन्तनुस्तस्य वंशेऽभूद्गङ्गायां शन्तनोः सुतः ॥ १,१४५.
भीष्मः सर्वगुणैयुक्तो ब्रह्मवैवर्तपारगः ॥ १,१४५.